bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
1 John 1
1 John 1
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 2 →
1
आदितो य आसीद् यस्य वाग् अस्माभिरश्रावि यञ्च वयं स्वनेत्रै र्दृष्टवन्तो यञ्च वीक्षितवन्तः स्वकरैः स्पृष्टवन्तश्च तं जीवनवादं वयं ज्ञापयामः।
2
स जीवनस्वरूपः प्रकाशत वयञ्च तं दृष्टवन्तस्तमधि साक्ष्यं दद्मश्च, यश्च पितुः सन्निधाववर्त्ततास्माकं समीपे प्रकाशत च तम् अनन्तजीवनस्वरूपं वयं युष्मान् ज्ञापयामः।
3
अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।
4
अपरञ्च युष्माकम् आनन्दो यत् सम्पूर्णो भवेद् तदर्थं वयम् एतानि लिखामः।
5
वयं यां वार्त्तां तस्मात् श्रुत्वा युष्मान् ज्ञापयामः सेयम्। ईश्वरो ज्योतिस्तस्मिन् अन्धकारस्य लेशोऽपि नास्ति।
6
वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।
7
किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।
8
वयं निष्पापा इति यदि वदामस्तर्हि स्वयमेव स्वान् वञ्चयामः सत्यमतञ्चास्माकम् अन्तरे न विद्यते।
9
यदि स्वपापानि स्वीकुर्म्महे तर्हि स विश्वास्यो याथार्थिकश्चास्ति तस्माद् अस्माकं पापानि क्षमिष्यते सर्व्वस्माद् अधर्म्माच्चास्मान् शुद्धयिष्यति।
10
वयम् अकृतपापा इति यदि वदामस्तर्हि तम् अनृतवादिनं कुर्म्मस्तस्य वाक्यञ्चास्माकम् अन्तरे न विद्यते।
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 2 →
All chapters:
1
2
3
4
5