bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
1 Timothy 3
1 Timothy 3
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 2
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 4 →
1
यदि कश्चिद् अध्यक्षपदम् आकाङ्क्षते तर्हि स उत्तमं कर्म्म लिप्सत इति सत्यं।
2
अतोऽध्यक्षेणानिन्दितेनैकस्या योषितो भर्त्रा परिमितभोगेन संयतमनसा सभ्येनातिथिसेवकेन शिक्षणे निपुणेन
3
न मद्यपेन न प्रहारकेण किन्तु मृदुभावेन निर्व्विवादेन निर्लोभेन
4
स्वपरिवाराणाम् उत्तमशासकेन पूर्णविनीतत्वाद् वश्यानां सन्तानानां नियन्त्रा च भवितव्यं।
5
यत आत्मपरिवारान् शासितुं यो न शक्नोति तेनेश्वरस्य समितेस्तत्त्वावधारणं कथं कारिष्यते?
6
अपरं स गर्व्वितो भूत्वा यत् शयतान इव दण्डयोग्यो न भवेत् तदर्थं तेन नवशिष्येण न भवितव्यं।
7
यच्च निन्दायां शयतानस्य जाले च न पतेत् तदर्थं तेन बहिःस्थलोकानामपि मध्ये सुख्यातियुक्तेन भवितव्यं।
8
तद्वत् परिचारकैरपि विनीतै र्द्विविधवाक्यरहितै र्बहुमद्यपाने ऽनासक्तै र्निर्लोभैश्च भवितव्यं,
9
निर्म्मलसंवेदेन च विश्वासस्य निगूढवाक्यं धातिव्यञ्च।
10
अग्रे तेषां परीक्षा क्रियतां ततः परम् अनिन्दिता भूत्वा ते परिचर्य्यां कुर्व्वन्तु।
11
अपरं योषिद्भिरपि विनीताभिरनपवादिकाभिः सतर्काभिः सर्व्वत्र विश्वास्याभिश्च भवितव्यं।
12
परिचारका एकैकयोषितो भर्त्तारो भवेयुः, निजसन्तानानां परिजनानाञ्च सुशासनं कुर्य्युश्च।
13
यतः सा परिचर्य्या यै र्भद्ररूपेण साध्यते ते श्रेष्ठपदं प्राप्नुवन्ति ख्रीष्टे यीशौ विश्वासेन महोत्सुका भवन्ति च।
14
त्वां प्रत्येतत्पत्रलेखनसमये शीघ्रं त्वत्समीपगमनस्य प्रत्याशा मम विद्यते।
15
यदि वा विलम्बेय तर्हीश्वरस्य गृहे ऽर्थतः सत्यधर्म्मस्य स्तम्भभित्तिमूलस्वरूपायाम् अमरेश्वरस्य समितौ त्वया कीदृश आचारः कर्त्तव्यस्तत् ज्ञातुं शक्ष्यते।
16
अपरं यस्य महत्त्वं सर्व्वस्वीकृतम् ईश्वरभक्तेस्तत् निगूढवाक्यमिदम् ईश्वरो मानवदेहे प्रकाशित आत्मना सपुण्यीकृतो दूतैः सन्दृष्टः सर्व्वजातीयानां निकटे घोषितो जगतो विश्वासपात्रीभूतस्तेजःप्राप्तये स्वर्गं नीतश्चेति।
← Chapter 2
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 4 →
All chapters:
1
2
3
4
5
6