bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
James 2
James 2
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 1
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 3 →
1
हे मम भ्रातरः, यूयम् अस्माकं तेजस्विनः प्रभो र्यीशुख्रीष्टस्य धर्म्मं मुखापेक्षया न धारयत।
2
यतो युष्माकं सभायां स्वर्णाङ्गुरीयकयुक्ते भ्राजिष्णुपरिच्छदे पुरुषे प्रविष्टे मलिनवस्त्रे कस्मिंश्चिद् दरिद्रेऽपि प्रविष्टे
3
यूयं यदि तं भ्राजिष्णुपरिच्छदवसानं जनं निरीक्ष्य वदेत भवान् अत्रोत्तमस्थान उपविशत्विति किञ्च तं दरिद्रं यदि वदेत त्वम् अमुस्मिन् स्थाने तिष्ठ यद्वात्र मम पादपीठ उपविशेति,
4
तर्हि मनःसु विशेष्य यूयं किं कुतर्कैः कुविचारका न भवथ?
5
हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।
6
धनवन्त एव किं युष्मान् नोपद्रवन्ति बलाच्च विचारासनानां समीपं न नयन्ति?
7
युष्मदुपरि परिकीर्त्तितं परमं नाम किं तैरेव न निन्द्यते?
8
किञ्च त्वं स्वसमीपवासिनि स्वात्मवत् प्रीयस्व, एतच्छास्त्रीयवचनानुसारतो यदि यूयं राजकीयव्यवस्थां पालयथ तर्हि भद्रं कुरुथ।
9
यदि च मुखापेक्षां कुरुथ तर्हि पापम् आचरथ व्यवस्थया चाज्ञालङ्घिन इव दूष्यध्वे।
10
यतो यः कश्चित् कृत्स्नां व्यवस्थां पालयति स यद्येकस्मिन् विधौ स्खलति तर्हि सर्व्वेषाम् अपराधी भवति।
11
यतो हेतोस्त्वं परदारान् मा गच्छेति यः कथितवान् स एव नरहत्यां मा कुर्य्या इत्यपि कथितवान् तस्मात् त्वं परदारान् न गत्वा यदि नरहत्यां करोषि तर्हि व्यवस्थालङ्घी भवसि।
12
मुक्ते र्व्यवस्थातो येषां विचारेण भवितव्यं तादृशा लोका इव यूयं कथां कथयत कर्म्म कुरुत च।
13
यो दयां नाचरति तस्य विचारो निर्द्दयेन कारिष्यते, किन्तु दया विचारम् अभिभविष्यति।
14
हे मम भ्रातरः, मम प्रत्ययोऽस्तीति यः कथयति तस्य कर्म्माणि यदि न विद्यन्त तर्हि तेन किं फलं? तेन प्रत्ययेन किं तस्य परित्राणं भवितुं शक्नोति?
15
केषुचिद् भ्रातृषु भगिनीषु वा वसनहीनेषु प्रात्यहिकाहारहीनेषु च सत्सु युष्माकं कोऽपि तेभ्यः शरीरार्थं प्रयोजनीयानि द्रव्याणि न दत्वा यदि तान् वदेत्,
16
यूयं सकुशलं गत्वोष्णगात्रा भवत तृप्यत चेति तर्ह्येतेन किं फलं?
17
तद्वत् प्रत्ययो यदि कर्म्मभि र्युक्तो न भवेत् तर्ह्येकाकित्वात् मृत एवास्ते।
18
किञ्च कश्चिद् इदं वदिष्यति तव प्रत्ययो विद्यते मम च कर्म्माणि विद्यन्ते, त्वं कर्म्महीनं स्वप्रत्ययं मां दर्शय तर्ह्यहमपि मत्कर्म्मभ्यः स्वप्रत्ययं त्वां दर्शयिष्यामि।
19
एक ईश्वरो ऽस्तीति त्वं प्रत्येषि। भद्रं करोषि। भूता अपि तत् प्रतियन्ति कम्पन्ते च।
20
किन्तु हे निर्ब्बोधमानव, कर्म्महीनः प्रत्ययो मृत एवास्त्येतद् अवगन्तुं किम् इच्छसि?
21
अस्माकं पूर्व्वपुरुषो य इब्राहीम् स्वपुत्रम् इस्हाकं यज्ञवेद्याम् उत्सृष्टवान् स किं कर्म्मभ्यो न सपुण्यीकृतः?
22
प्रत्यये तस्य कर्म्मणां सहकारिणि जाते कर्म्मभिः प्रत्ययः सिद्धो ऽभवत् तत् किं पश्यसि?
23
इत्थञ्चेदं शास्त्रीयवचनं सफलम् अभवत्, इब्राहीम् परमेश्वरे विश्वसितवान् तच्च तस्य पुण्यायागण्यत स चेश्वरस्य मित्र इति नाम लब्धवान्।
24
पश्यत मानवः कर्म्मभ्यः सपुण्यीक्रियते न चैकाकिना प्रत्ययेन।
25
तद्वद् या राहब्नामिका वाराङ्गना चारान् अनुगृह्यापरेण मार्गेण विससर्ज सापि किं कर्म्मभ्यो न सपुण्यीकृता?
26
अतएवात्महीनो देहो यथा मृतोऽस्ति तथैव कर्म्महीनः प्रत्ययोऽपि मृतोऽस्ति।
← Chapter 1
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 3 →
All chapters:
1
2
3
4
5