bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
John 1
John 1
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 2 →
1
आदौ वाद आसीत् स च वाद ईश्वरेण सार्धमासीत् स वादः स्वयमीश्वर एव।
2
स आदावीश्वरेण सहासीत्।
3
तेन सर्व्वं वस्तु ससृजे सर्व्वेषु सृष्टवस्तुषु किमपि वस्तु तेनासृष्टं नास्ति।
4
स जीवनस्याकारः, तच्च जीवनं मनुष्याणां ज्योतिः
5
तज्ज्योतिरन्धकारे प्रचकाशे किन्त्वन्धकारस्तन्न जग्राह।
6
योहन् नामक एको मनुज ईश्वरेण प्रेषयाञ्चक्रे।
7
तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्,
8
स स्वयं तज्ज्योति र्न किन्तु तज्ज्योतिषि प्रमाणं दातुमागमत्।
9
जगत्यागत्य यः सर्व्वमनुजेभ्यो दीप्तिं ददाति तदेव सत्यज्योतिः।
10
स यज्जगदसृजत् तन्मद्य एव स आसीत् किन्तु जगतो लोकास्तं नाजानन्।
11
निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्।
12
तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।
13
तेषां जनिः शोणितान्न शारीरिकाभिलाषान्न मानवानामिच्छातो न किन्त्वीश्वरादभवत्।
14
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
15
ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।
16
अपरञ्च तस्य पूर्णताया वयं सर्व्वे क्रमशः क्रमशोनुग्रहं प्राप्ताः।
17
मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।
18
कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थोऽद्वितीयः पुत्रस्तं प्रकाशयत्।
19
त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,
20
तदा स स्वीकृतवान् नापह्नूतवान् नाहम् अभिषिक्त इत्यङ्गीकृतवान्।
21
तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।
22
तदा तेऽपृच्छन् तर्हि भवान् कः? वयं गत्वा प्रेरकान् त्वयि किं वक्ष्यामः? स्वस्मिन् किं वदसि?
23
तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।
24
ये प्रेषितास्ते फिरूशिलोकाः।
25
तदा तेऽपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?
26
ततो योहन् प्रत्यवोचत्, तोयेऽहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति।
27
स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि।
28
यर्द्दननद्याः पारस्थबैथबारायां यस्मिन्स्थाने योहनमज्जयत् तस्मिन स्थाने सर्व्वमेतद् अघटत।
29
परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
30
यो मम पश्चादागमिष्यति स मत्तो गुरुतरः, यतो हेतोर्मत्पूर्व्वं सोऽवर्त्तत यस्मिन्नहं कथामिमां कथितवान् स एवायं।
31
अपरं नाहमेनं प्रत्यभिज्ञातवान् किन्तु इस्रायेल्लोका एनं यथा परिचिन्वन्ति तदभिप्रायेणाहं जले मज्जयितुमागच्छम्।
32
पुनश्च योहनपरमेकं प्रमाणं दत्वा कथितवान् विहायसः कपोतवद् अवतरन्तमात्मानम् अस्योपर्य्यवतिष्ठन्तं च दृष्टवानहम्।
33
नाहमेनं प्रत्यभिज्ञातवान् इति सत्यं किन्तु यो जले मज्जयितुं मां प्रैरयत् स एवेमां कथामकथयत् यस्योपर्य्यात्मानम् अवतरन्तम् अवतिष्ठन्तञ्च द्रक्षयसि सएव पवित्रे आत्मनि मज्जयिष्यति।
34
अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि।
35
परेऽहनि योहन् द्वाभ्यां शिष्याभ्यां सार्द्धें तिष्ठन्
36
यिशुं गच्छन्तं विलोक्य गदितवान्, ईश्वरस्य मेषशावकं पश्यतं।
37
इमां कथां श्रुत्वा द्वौ शिष्यौ यीशोः पश्चाद् ईयतुः।
38
ततो यीशुः परावृत्य तौ पश्चाद् आगच्छन्तौ दृष्ट्वा पृष्टवान् युवां किं गवेशयथः? तावपृच्छतां हे रब्बि अर्थात् हे गुरो भवान् कुत्र तिष्ठति?
39
ततः सोवादित् एत्य पश्यतं। ततो दिवसस्य तृतीयप्रहरस्य गतत्वात् तौ तद्दिनं तस्य सङ्गेऽस्थातां।
40
यौ द्वौ योहनो वाक्यं श्रुत्वा यिशोः पश्चाद् आगमतां तयोः शिमोन्पितरस्य भ्राता आन्द्रियः
41
स इत्वा प्रथमं निजसोदरं शिमोनं साक्षात्प्राप्य कथितवान् वयं ख्रीष्टम् अर्थात् अभिषिक्तपुरुषं साक्षात्कृतवन्तः।
42
पश्चात् स तं यिशोः समीपम् आनयत्। तदा यीशुस्तं दृष्ट्वावदत् त्वं यूनसः पुत्रः शिमोन् किन्तु त्वन्नामधेयं कैफाः वा पितरः अर्थात् प्रस्तरो भविष्यति।
43
परेऽहनि यीशौ गालीलं गन्तुं निश्चितचेतसि सति फिलिपनामानं जनं साक्षात्प्राप्यावोचत् मम पश्चाद् आगच्छ।
44
बैत्सैदानाम्नि यस्मिन् ग्रामे पितरान्द्रिययोर्वास आसीत् तस्मिन् ग्रामे तस्य फिलिपस्य वसतिरासीत्।
45
पश्चात् फिलिपो निथनेलं साक्षात्प्राप्यावदत् मूसा व्यवस्था ग्रन्थे भविष्यद्वादिनां ग्रन्थेषु च यस्याख्यानं लिखितमास्ते तं यूषफः पुत्रं नासरतीयं यीशुं साक्षाद् अकार्ष्म वयं।
46
तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो ऽवोचत् एत्य पश्य।
47
अपरञ्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः।
48
ततः सोवदद्, भवान् मां कथं प्रत्यभिजानाति? यीशुरवादीत् फिलिपस्य आह्वानात् पूर्व्वं यदा त्वमुडुम्बरस्य तरोर्मूलेऽस्थास्तदा त्वामदर्शम्।
49
निथनेल् अचकथत्, हे गुरो भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।
50
ततो यीशु र्व्याहरत्, त्वामुडुम्बरस्य पादपस्य मूले दृष्टवानाहं ममैतस्माद्वाक्यात् किं त्वं व्यश्वसीः? एतस्मादप्याश्चर्य्याणि कार्य्याणि द्रक्ष्यसि।
51
अन्यच्चावादीद् युष्मानहं यथार्थं वदामि, इतः परं मोचिते मेघद्वारे तस्मान्मनुजसूनुना ईश्वरस्य दूतगणम् अवरोहन्तमारोहन्तञ्च द्रक्ष्यथ।
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 2 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21