bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
John 11
John 11
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 10
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 12 →
1
अनन्तरं मरियम् तस्या भगिनी मर्था च यस्मिन् वैथनीयाग्रामे वसतस्तस्मिन् ग्रामे इलियासर् नामा पीडित एक आसीत्।
2
या मरियम् प्रभुं सुगन्धितेलैन मर्द्दयित्वा स्वकेशैस्तस्य चरणौ सममार्जत् तस्या भ्राता स इलियासर् रोगी।
3
अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ।
4
तदा यीशुरिमां वार्त्तां श्रुत्वाकथयत पीडेयं मरणार्थं न किन्त्वीश्वरस्य महिमार्थम् ईश्वरपुत्रस्य महिमप्रकाशार्थञ्च जाता।
5
यीशु र्यद्यपिमर्थायां तद्भगिन्याम् इलियासरि चाप्रीयत,
6
तथापि इलियासरः पीडायाः कथं श्रुत्वा यत्र आसीत् तत्रैव दिनद्वयमतिष्ठत्।
7
ततः परम् स शिष्यानकथयद् वयं पुन र्यिहूदीयप्रदेशं यामः।
8
ततस्ते प्रत्यवदन्, हे गुरो स्वल्पदिनानि गतानि यिहूदीयास्त्वां पाषाणै र्हन्तुम् उद्यतास्तथापि किं पुनस्तत्र यास्यसि?
9
यीशुः प्रत्यवदत्, एकस्मिन् दिने किं द्वादशघटिका न भवन्ति? कोपि दिवा गच्छन् न स्खलति यतः स एतज्जगतो दीप्तिं प्राप्नोति।
10
किन्तु रात्रौ गच्छन् स्खलति यतो हेतोस्तत्र दीप्ति र्नास्ति।
11
इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।
12
यीशु र्मृतौ कथामिमां कथितवान् किन्तु विश्रामार्थं निद्रायां कथितवान् इति ज्ञात्वा शिष्या अकथयन्,
13
हे गुरो स यदि निद्राति तर्हि भद्रमेव।
14
तदा यीशुः स्पष्टं तान् व्याहरत्, इलियासर् अम्रियत;
15
किन्तु यूयं यथा प्रतीथ तदर्थमहं तत्र न स्थितवान् इत्यस्माद् युष्मन्निमित्तम् आह्लादितोहं, तथापि तस्य समीपे याम।
16
तदा थोमा यं दिदुमं वदन्ति स सङ्गिनः शिष्यान् अवदद् वयमपि गत्वा तेन सार्द्धं म्रियामहै।
17
यीशुस्तत्रोपस्थाय इलियासरः श्मशाने स्थापनात् चत्वारि दिनानि गतानीति वार्त्तां श्रुतवान्।
18
वैथनीया यिरूशालमः समीपस्था क्रोशैकमात्रान्तरिता;
19
तस्माद् बहवो यिहूदीया मर्थां मरियमञ्च भ्यातृशोकापन्नां सान्त्वयितुं तयोः समीपम् आगच्छन्।
20
मर्था यीशोरागमनवार्तां श्रुत्वैव तं साक्षाद् अकरोत् किन्तु मरियम् गेह उपविश्य स्थिता।
21
तदा मर्था यीशुमवादत्, हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।
22
किन्त्विदानीमपि यद् ईश्वरे प्रार्थयिष्यते ईश्वरस्तद् दास्यतीति जानेऽहं।
23
यीशुरवादीत् तव भ्राता समुत्थास्यति।
24
मर्था व्याहरत् शेषदिवसे स उत्थानसमये प्रोत्थास्यतीति जानेऽहं।
25
तदा यीशुः कथितवान् अहमेव उत्थापयिता जीवयिता च यः कश्चन मयि विश्वसिति स मृत्वापि जीविष्यति;
26
यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि?
27
सावदत् प्रभो यस्यावतरणापेक्षास्ति भवान् सएवाभिषिक्त्त ईश्वरपुत्र इति विश्वसिमि।
28
इति कथां कथयित्वा सा गत्वा स्वां भगिनीं मरियमं गुप्तमाहूय व्याहरत् गुरुरुपतिष्ठति त्वामाहूयति च।
29
कथामिमां श्रुत्वा सा तूर्णम् उत्थाय तस्य समीपम् अगच्छत्।
30
यीशु र्ग्राममध्यं न प्रविश्य यत्र मर्था तं साक्षाद् अकरोत् तत्र स्थितवान्।
31
ये यिहूदीया मरियमा साकं गृहे तिष्ठन्तस्ताम् असान्त्वयन ते तां क्षिप्रम् उत्थाय गच्छन्तिं विलोक्य व्याहरन्, स श्मशाने रोदितुं याति, इत्युक्त्वा ते तस्याः पश्चाद् अगच्छन्।
32
यत्र यीशुरतिष्ठत् तत्र मरियम् उपस्थाय तं दृष्ट्वा तस्य चरणयोः पतित्वा व्याहरत् हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।
33
यीशुस्तां तस्याः सङ्गिनो यिहूदीयांश्च रुदतो विलोक्य शोकार्त्तः सन् दीर्घं निश्वस्य कथितवान् तं कुत्रास्थापयत?
34
ते व्याहरन्, हे प्रभो भवान् आगत्य पश्यतु।
35
यीशुना क्रन्दितं।
36
अतएव यिहूदीया अवदन्, पश्यतायं तस्मिन् किदृग् अप्रियत।
37
तेषां केचिद् अवदन् योन्धाय चक्षुषी दत्तवान् स किम् अस्य मृत्युं निवारयितुं नाशक्नोत्?
38
ततो यीशुः पुनरन्तर्दीर्घं निश्वस्य श्मशानान्तिकम् अगच्छत्। तत् श्मशानम् एकं गह्वरं तन्मुखे पाषाण एक आसीत्।
39
तदा यीशुरवदद् एनं पाषाणम् अपसारयत, ततः प्रमीतस्य भगिनी मर्थावदत् प्रभो, अधुना तत्र दुर्गन्धो जातः, यतोद्य चत्वारि दिनानि श्मशाने स तिष्ठति।
40
तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?
41
तदा मृतस्य श्मशानात् पाषाणोऽपसारिते यीशुरूर्द्व्वं पश्यन् अकथयत्, हे पित र्मम नेवेसनम् अशृणोः कारणादस्मात् त्वां धन्यं वदामि।
42
त्वं सततं शृणोषि तदप्यहं जानामि, किन्तु त्वं मां यत् प्रैरयस्तद् यथास्मिन् स्थाने स्थिता लोका विश्वसन्ति तदर्थम् इदं वाक्यं वदामि।
43
इमां कथां कथयित्वा स प्रोच्चैराह्वयत्, हे इलियासर् बहिरागच्छ।
44
ततः स प्रमीतः श्मशानवस्त्रै र्बद्धहस्तपादो गात्रमार्जनवाससा बद्धमुखश्च बहिरागच्छत्। यीशुरुदितवान् बन्धनानि मोचयित्वा त्यजतैनं।
45
मरियमः समीपम् आगता ये यिहूदीयलोकास्तदा यीशोरेतत् कर्म्मापश्यन् तेषां बहवो व्यश्वसन्,
46
किन्तु केचिदन्ये फिरूशिनां समीपं गत्वा यीशोरेतस्य कर्म्मणो वार्त्ताम् अवदन्।
47
ततः परं प्रधानयाजकाः फिरूशिनाश्च सभां कृत्वा व्याहरन् वयं किं कुर्म्मः? एष मानवो बहून्याश्चर्य्यकर्म्माणि करोति।
48
यदीदृशं कर्म्म कर्त्तुं न वारयामस्तर्हि सर्व्वे लोकास्तस्मिन् विश्वसिष्यन्ति रोमिलोकाश्चागत्यास्माकम् अनया राजधान्या सार्द्धं राज्यम् आछेत्स्यन्ति।
49
तदा तेषां कियफानामा यस्तस्मिन् वत्सरे महायाजकपदे न्ययुज्यत स प्रत्यवदद् यूयं किमपि न जानीथ;
50
समग्रदेशस्य विनाशतोपि सर्व्वलोकार्थम् एकस्य जनस्य मरणम् अस्माकं मङ्गलहेतुकम् एतस्य विवेचनामपि न कुरुथ।
51
एतां कथां स निजबुद्ध्या व्याहरद् इति न,
52
किन्तु यीशूस्तद्देशीयानां कारणात् प्राणान् त्यक्ष्यति, दिशि दिशि विकीर्णान् ईश्वरस्य सन्तानान् संगृह्यैकजातिं करिष्यति च, तस्मिन् वत्सरे कियफा महायाजकत्वपदे नियुक्तः सन् इदं भविष्यद्वाक्यं कथितवान्।
53
तद्दिनमारभ्य ते कथं तं हन्तुं शक्नुवन्तीति मन्त्रणां कर्त्तुं प्रारेभिरे।
54
अतएव यिहूदीयानां मध्ये यीशुः सप्रकाशं गमनागमने अकृत्वा तस्माद् गत्वा प्रान्तरस्य समीपस्थायिप्रदेशस्येफ्रायिम् नाम्नि नगरे शिष्यैः साकं कालं यापयितुं प्रारेभे।
55
अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,
56
यीशोरन्वेषणं कृत्वा मन्दिरे दण्डायमानाः सन्तः परस्परं व्याहरन्, युष्माकं कीदृशो बोधो जायते? स किम् उत्सवेऽस्मिन् अत्रागमिष्यति?
57
स च कुत्रास्ति यद्येतत् कश्चिद् वेत्ति तर्हि दर्शयतु प्रधानयाजकाः फिरूशिनश्च तं धर्त्तुं पूर्व्वम् इमाम् आज्ञां प्राचारयन्।
← Chapter 10
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 12 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21