bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Matthew 13
Matthew 13
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 12
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 14 →
1
अपरञ्च तस्मिन् दिने यीशुः सद्मनो गत्वा सरित्पते रोधसि समुपविवेश।
2
तत्र तत्सन्निधौ बहुजनानां निवहोपस्थितेः स तरणिमारुह्य समुपाविशत्, तेन मानवा रोधसि स्थितवन्तः।
3
तदानीं स दृष्टान्तैस्तान् इत्थं बहुश उपदिष्टवान्। पश्यत, कश्चित् कृषीवलो बीजानि वप्तुं बहिर्जगाम,
4
तस्य वपनकाले कतिपयबीजेषु मार्गपार्श्वे पतितेषु विहगास्तानि भक्षितवन्तः।
5
अपरं कतिपयबीजेषु स्तोकमृद्युक्तपाषाणे पतितेषु मृदल्पत्वात् तत्क्षणात् तान्यङ्कुरितानि,
6
किन्तु रवावुदिते दग्धानि तेषां मूलाप्रविष्टत्वात् शुष्कतां गतानि च।
7
अपरं कतिपयबीजेषु कण्टकानां मध्ये पतितेषु कण्टकान्येधित्वा तानि जग्रसुः।
8
अपरञ्च कतिपयबीजानि उर्व्वरायां पतितानि; तेषां मध्ये कानिचित् शतगुणानि कानिचित् षष्टिगुणानि कानिचित् त्रिंशगुंणानि फलानि फलितवन्ति।
9
श्रोतुं यस्य श्रुती आसाते स शृणुयात्।
10
अनन्तरं शिष्यैरागत्य सोऽपृच्छ्यत, भवता तेभ्यः कुतो दृष्टान्तकथा कथ्यते?
11
ततः स प्रत्यवदत्, स्वर्गराज्यस्य निगूढां कथां वेदितुं युष्मभ्यं सामर्थ्यमदायि, किन्तु तेभ्यो नादायि।
12
यस्माद् यस्यान्तिके वर्द्धते, तस्मायेव दायिष्यते, तस्मात् तस्य बाहुल्यं भविष्यति, किन्तु यस्यान्तिके न वर्द्धते, तस्य यत् किञ्चनास्ते, तदपि तस्माद् आदायिष्यते।
13
ते पश्यन्तोपि न पश्यन्ति, शृण्वन्तोपि न शृण्वन्ति, बुध्यमाना अपि न बुध्यन्ते च, तस्मात् तेभ्यो दृष्टान्तकथा कथ्यते।
14
यथा कर्णैः श्रोष्यथ यूयं वै किन्तु यूयं न भोत्स्यथ। नेत्रैर्द्रक्ष्यथ यूयञ्च परिज्ञातुं न शक्ष्यथ। ते मानुषा यथा नैव परिपश्यन्ति लोचनैः। कर्णै र्यथा न शृण्वन्ति न बुध्यन्ते च मानसैः। व्यावर्त्तितेषु चित्तेषु काले कुत्रापि तैर्जनैः। मत्तस्ते मनुजाः स्वस्था यथा नैव भवन्ति च। तथा तेषां मनुष्याणां क्रियन्ते स्थूलबुद्धयः। बधिरीभूतकर्णाश्च जाताश्च मुद्रिता दृशः।
15
यदेतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तानि तेषु तानि फलन्ति।
16
किन्तु युष्माकं नयनानि धन्यानि, यस्मात् तानि वीक्षन्ते; धन्याश्च युष्माकं शब्दग्रहाः, यस्मात् तैराकर्ण्यते।
17
मया यूयं तथ्यं वचामि युष्माभि र्यद्यद् वीक्ष्यते, तद् बहवो भविष्यद्वादिनो धार्म्मिकाश्च मानवा दिदृक्षन्तोपि द्रष्टुं नालभन्त, पुनश्च यूयं यद्यत् शृणुथ, तत् ते शुश्रूषमाणा अपि श्रोतुं नालभन्त।
18
कृषीवलीयदृष्टान्तस्यार्थं शृणुत।
19
मार्गपार्श्वे बीजान्युप्तानि तस्यार्थ एषः, यदा कश्चित् राज्यस्य कथां निशम्य न बुध्यते, तदा पापात्मागत्य तदीयमनस उप्तां कथां हरन् नयति।
20
अपरं पाषाणस्थले बीजान्युप्तानि तस्यार्थ एषः; कश्चित् कथां श्रुत्वैव हर्षचित्तेन गृह्लाति,
21
किन्तु तस्य मनसि मूलाप्रविष्टत्वात् स किञ्चित्कालमात्रं स्थिरस्तिष्ठति; पश्चात तत्कथाकारणात् कोपि क्लेस्ताडना वा चेत् जायते, तर्हि स तत्क्षणाद् विघ्नमेति।
22
अपरं कण्टकानां मध्ये बीजान्युप्तानि तदर्थ एषः; केनचित् कथायां श्रुतायां सांसारिकचिन्ताभि र्भ्रान्तिभिश्च सा ग्रस्यते, तेन सा मा विफला भवति।
23
अपरम् उर्व्वरायां बीजान्युप्तानि तदर्थ एषः; ये तां कथां श्रुत्वा वुध्यन्ते, ते फलिताः सन्तः केचित् शतगुणानि केचित षष्टिगुणानि केचिच्च त्रिंशद्गुणानि फलानि जनयन्ति।
24
अनन्तरं सोपरामेकां दृष्टान्तकथामुपस्थाप्य तेभ्यः कथयामास; स्वर्गीयराज्यं तादृशेन केनचिद् गृहस्थेनोपमीयते, येन स्वीयक्षेत्रे प्रशस्तबीजान्यौप्यन्त।
25
किन्तु क्षणदायां सकललोकेषु सुप्तेषु तस्य रिपुरागत्य तेषां गोधूमबीजानां मध्ये वन्ययवमबीजान्युप्त्वा वव्राज।
26
ततो यदा बीजेभ्योऽङ्करा जायमानाः कणिशानि घृतवन्तः; तदा वन्ययवसान्यपि दृश्यमानान्यभवन्।
27
ततो गृहस्थस्य दासेया आगम्य तस्मै कथयाञ्चक्रुः, हे महेच्छ, भवता किं क्षेत्रे भद्रबीजानि नौप्यन्त? तथात्वे वन्ययवसानि कृत आयन्?
28
तदानीं तेन ते प्रतिगदिताः, केनचित् रिपुणा कर्म्मदमकारि। दासेयाः कथयामासुः, वयं गत्वा तान्युत्पाय्य क्षिपामो भवतः कीदृशीच्छा जायते?
29
तेनावादि, नहि, शङ्केऽहं वन्ययवसोत्पाटनकाले युष्माभिस्तैः साकं गोधूमा अप्युत्पाटिष्यन्ते।
30
अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।
31
अनन्तरं सोपरामेकां दृष्टान्तकथामुत्थाप्य तेभ्यः कथितवान् कश्चिन्मनुजः सर्षपबीजमेकं नीत्वा स्वक्षेत्र उवाप।
32
सर्षपबीजं सर्व्वस्माद् बीजात् क्षुद्रमपि सदङ्कुरितं सर्व्वस्मात् शाकात् बृहद् भवति; स तादृशस्तरु र्भवति, यस्य शाखासु नभसः खगा आगत्य निवसन्ति; स्वर्गीयराज्यं तादृशस्य सर्षपैकस्य समम्।
33
पुनरपि स उपमाकथामेकां तेभ्यः कथयाञ्चकार; काचन योषित् यत् किण्वमादाय द्रोणत्रयमितगोधूमचूर्णानां मध्ये सर्व्वेषां मिश्रीभवनपर्य्यन्तं समाच्छाद्य निधत्तवती, तत्किण्वमिव स्वर्गराज्यं।
34
इत्थं यीशु र्मनुजनिवहानां सन्निधावुपमाकथाभिरेतान्याख्यानानि कथितवान् उपमां विना तेभ्यः किमपि कथां नाकथयत्।
35
एतेन दृष्टान्तीयेन वाक्येन व्यादाय वदनं निजं। अहं प्रकाशयिष्यामि गुप्तवाक्यं पुराभवं। यदेतद्वचनं भविष्यद्वादिना प्रोक्तमासीत्, तत् सिद्धमभवत्।
36
सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।
37
ततः स प्रत्युवाच, येन भद्रबीजान्युप्यन्ते स मनुजपुत्रः,
38
क्षेत्रं जगत्, भद्रबीजानी राज्यस्य सन्तानाः,
39
वन्ययवसानि पापात्मनः सन्तानाः। येन रिपुणा तान्युप्तानि स शयतानः, कर्त्तनसमयश्च जगतः शेषः, कर्त्तकाः स्वर्गीयदूताः।
40
यथा वन्ययवसानि संगृह्य दाह्यन्ते, तथा जगतः शेषे भविष्यति;
41
अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य
42
यत्र रोदनं दन्तघर्षणञ्च भवति, तत्राग्निकुण्डे निक्षेप्स्यन्ति।
43
तदानीं धार्म्मिकलोकाः स्वेषां पितू राज्ये भास्करइव तेजस्विनो भविष्यन्ति। श्रोतुं यस्य श्रुती आसाते, म शृणुयात्।
44
अपरञ्च क्षेत्रमध्ये निधिं पश्यन् यो गोपयति, ततः परं सानन्दो गत्वा स्वीयसर्व्वस्वं विक्रीय त्तक्षेत्रं क्रीणाति, स इव स्वर्गराज्यं।
45
अन्यञ्च यो वणिक् उत्तमां मुक्तां गवेषयन्
46
महार्घां मुक्तां विलोक्य निजसर्व्वस्वं विक्रीय तां क्रीणाति, स इव स्वर्गराज्यं।
47
पुनश्च समुद्रो निक्षिप्तः सर्व्वप्रकारमीनसंग्राह्यानायइव स्वर्गराज्यं।
48
तस्मिन् आनाये पूर्णे जना यथा रोधस्युत्तोल्य समुपविश्य प्रशस्तमीनान् संग्रह्य भाजनेषु निदधते, कुत्सितान् निक्षिपन्ति;
49
तथैव जगतः शेषे भविष्यति, फलतः स्वर्गीयदूता आगत्य पुण्यवज्जनानां मध्यात् पापिनः पृथक् कृत्वा वह्निकुण्डे निक्षेप्स्यन्ति,
50
तत्र रोदनं दन्तै र्दन्तघर्षणञ्च भविष्यतः।
51
यीशुना ते पृष्टा युष्माभिः किमेतान्याख्यानान्यबुध्यन्त? तदा ते प्रत्यवदन्, सत्यं प्रभो।
52
तदानीं स कथितवान्, निजभाण्डागारात् नवीनपुरातनानि वस्तूनि निर्गमयति यो गृहस्थः स इव स्वर्गराज्यमधि शिक्षिताः स्वर्व उपदेष्टारः।
53
अनन्तरं यीशुरेताः सर्व्वा दृष्टान्तकथाः समाप्य तस्मात् स्थानात् प्रतस्थे। अपरं स्वदेशमागत्य जनान् भजनभवन उपदिष्टवान्;
54
ते विस्मयं गत्वा कथितवन्त एतस्यैतादृशं ज्ञानम् आश्चर्य्यं कर्म्म च कस्माद् अजायत?
55
किमयं सूत्रधारस्य पुत्रो नहि? एतस्य मातु र्नाम च किं मरियम् नहि? याकुब्-यूषफ्-शिमोन्-यिहूदाश्च किमेतस्य भ्रातरो नहि?
56
एतस्य भगिन्यश्च किमस्माकं मध्ये न सन्ति? तर्हि कस्मादयमेतानि लब्धवान्? इत्थं स तेषां विघ्नरूपो बभूव;
57
ततो यीशुना निगदितं स्वदेशीयजनानां मध्यं विना भविष्यद्वादी कुत्राप्यन्यत्र नासम्मान्यो भवती।
58
तेषामविश्वासहेतोः स तत्र स्थाने बह्वाश्चर्य्यकर्म्माणि न कृतवान्।
← Chapter 12
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 14 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
Recommended Reading
Commentary
Matthew Commentaries
→
Devotional
Matthew Devotional Guide
→
Get This Bible
NT Study Bible
→