bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Matthew 14
Matthew 14
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 13
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 15 →
1
तदानीं राजा हेरोद् यीशो र्यशः श्रुत्वा निजदासेयान् जगाद्,
2
एष मज्जयिता योहन्, प्रमितेभयस्तस्योत्थानात् तेनेत्थमद्भुतं कर्म्म प्रकाश्यते।
3
पुरा हेरोद् निजभ्रातु: फिलिपो जायाया हेरोदीयाया अनुरोधाद् योहनं धारयित्वा बद्धा कारायां स्थापितवान्।
4
यतो योहन् उक्तवान्, एत्सयाः संग्रहो भवतो नोचितः।
5
तस्मात् नृपतिस्तं हन्तुमिच्छन्नपि लोकेभ्यो विभयाञ्चकार; यतः सर्व्वे योहनं भविष्यद्वादिनं मेनिरे।
6
किन्तु हेरोदो जन्माहीयमह उपस्थिते हेरोदीयाया दुहिता तेषां समक्षं नृतित्वा हेरोदमप्रीण्यत्।
7
तस्मात् भूपतिः शपथं कुर्व्वन् इति प्रत्यज्ञासीत्, त्वया यद् याच्यते, तदेवाहं दास्यामि।
8
सा कुमारी स्वीयमातुः शिक्षां लब्धा बभाषे, मज्जयितुर्योहन उत्तमाङ्गं भाजने समानीय मह्यं विश्राणय।
9
ततो राजा शुशोच, किन्तु भोजनायोपविशतां सङ्गिनां स्वकृतशपथस्य चानुरोधात् तत् प्रदातुम आदिदेश।
10
पश्चात् कारां प्रति नरं प्रहित्य योहन उत्तमाङ्गं छित्त्वा
11
तत् भाजन आनाय्य तस्यै कुमार्य्यै व्यश्राणयत्, ततः सा स्वजनन्याः समीपं तन्निनाय।
12
पश्चात् योहनः शिष्या आगत्य कायं नीत्वा श्मशाने स्थापयामासुस्ततो यीशोः सन्निधिं व्रजित्वा तद्वार्त्तां बभाषिरे।
13
अनन्तरं यीशुरिति निशभ्य नावा निर्जनस्थानम् एकाकी गतवान्, पश्चात् मानवास्तत् श्रुत्वा नानानगरेभ्य आगत्य पदैस्तत्पश्चाद् ईयुः।
14
तदानीं यीशु र्बहिरागत्य महान्तं जननिवहं निरीक्ष्य तेषु कारुणिकः मन् तेषां पीडितजनान् निरामयान् चकार।
15
ततः परं सन्ध्यायां शिष्यास्तदन्तिकमागत्य कथयाञ्चक्रुः, इदं निर्जनस्थानं वेलाप्यवसन्ना; तस्मात् मनुजान् स्वस्वग्रामं गन्तुं स्वार्थं भक्ष्याणि क्रेतुञ्च भवान् तान् विसृजतु।
16
किन्तु यीशुस्तानवादीत्, तेषां गमने प्रयोजनं नास्ति, यूयमेव तान् भोजयत।
17
तदा ते प्रत्यवदन्, अस्माकमत्र पूपपञ्चकं मीनद्वयञ्चास्ते।
18
तदानीं तेनोक्तं तानि मदन्तिकमानयत।
19
अनन्तरं स मनुजान् यवसोपर्य्युपवेष्टुम् आज्ञापयामास; अपर तत् पूपपञ्चकं मीनद्वयञ्च गृह्लन् स्वर्गं प्रति निरीक्ष्येश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दत्तवान्, शिष्याश्च लोकेभ्यो ददुः।
20
ततः सर्व्वे भुक्त्वा परितृप्तवन्तः, ततस्तदवशिष्टभक्ष्यैः पूर्णान् द्वादशडलकान् गृहीतवन्तः।
21
ते भोक्तारः स्त्रीर्बालकांश्च विहाय प्रायेण पञ्च सहस्राणि पुमांस आसन्।
22
तदनन्तरं यीशु र्लोकानां विसर्जनकाले शिष्यान् तरणिमारोढुं स्वाग्रे पारं यातुञ्च गाढमादिष्टवान्।
23
ततो लोकेषु विसृष्टेषु स विविक्ते प्रार्थयितुं गिरिमेकं गत्वा सन्ध्यां यावत् तत्रैकाकी स्थितवान्।
24
किन्तु तदानीं सम्मुखवातत्वात् सरित्पते र्मध्ये तरङ्गैस्तरणिर्दोलायमानाभवत्।
25
तदा स यामिन्याश्चतुर्थप्रहरे पद्भ्यां व्रजन् तेषामन्तिकं गतवान्।
26
किन्तु शिष्यास्तं सागरोपरि व्रजन्तं विलोक्य समुद्विग्ना जगदुः, एष भूत इति शङ्कमाना उच्चैः शब्दायाञ्चक्रिरे च।
27
तदैव यीशुस्तानवदत्, सुस्थिरा भवत, मा भैष्ट, एषोऽहम्।
28
ततः पितर इत्युक्तवान्, हे प्रभो, यदि भवानेव, तर्हि मां भवत्समीपं यातुमाज्ञापयतु।
29
ततः तेनादिष्टः पितरस्तरणितोऽवरुह्य यीशेारन्तिकं प्राप्तुं तोयोपरि वव्राज।
30
किन्तु प्रचण्डं पवनं विलोक्य भयात् तोये मंक्तुम् आरेभे, तस्माद् उच्चैः शब्दायमानः कथितवान्, हे प्रभो, मामवतु।
31
यीशुस्तत्क्षणात् करं प्रसार्य्य तं धरन् उक्तवान्, ह स्तोकप्रत्ययिन् त्वं कुतः समशेथाः?
32
अनन्तरं तयोस्तरणिमारूढयोः पवनो निववृते।
33
तदानीं ये तरण्यामासन्, त आगत्य तं प्रणभ्य कथितवन्तः, यथार्थस्त्वमेवेश्वरसुतः।
34
अनन्तरं पारं प्राप्य ते गिनेषरन्नामकं नगरमुपतस्थुः,
35
तदा तत्रत्या जना यीशुं परिचीय तद्देश्स्य चतुर्दिशो वार्त्तां प्रहित्य यत्र यावन्तः पीडिता आसन्, तावतएव तदन्तिकमानयामासुः।
36
अपरं तदीयवसनस्य ग्रन्थिमात्रं स्प्रष्टुं विनीय यावन्तो जनास्तत् स्पर्शं चक्रिरे, ते सर्व्वएव निरामया बभूवुः।
← Chapter 13
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 15 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28