bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Romans 11
Romans 11
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 10
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 12 →
1
ईश्वरेण स्वीकीयलोका अपसारिता अहं किम् ईदृशं वाक्यं ब्रवीमि? तन्न भवतु यतोऽहमपि बिन्यामीनगोत्रीय इब्राहीमवंशीय इस्रायेलीयलोकोऽस्मि।
2
ईश्वरेण पूर्व्वं ये प्रदृष्टास्ते स्वकीयलोका अपसारिता इति नहि। अपरम् एलियोपाख्याने शास्त्रे यल्लिखितम् आस्ते तद् यूयं किं न जानीथ?
3
हे परमेश्वर लोकास्त्वदीयाः सर्व्वा यज्ञवेदीरभञ्जन् तथा तव भविष्यद्वादिनः सर्व्वान् अघ्नन् केवल एकोऽहम् अवशिष्ट आसे ते ममापि प्राणान् नाशयितुं चेष्टनते, एतां कथाम् इस्रायेलीयलोकानां विरुद्धम् एलिय ईश्वराय निवेदयामास।
4
ततस्तं प्रतीश्वरस्योत्तरं किं जातं? बाल्नाम्नो देवस्य साक्षात् यै र्जानूनि न पातितानि तादृशाः सप्त सहस्राणि लोका अवशेषिता मया।
5
तद्वद् एतस्मिन् वर्त्तमानकालेऽपि अनुग्रहेणाभिरुचितास्तेषाम् अवशिष्टाः कतिपया लोकाः सन्ति।
6
अतएव तद् यद्यनुग्रहेण भवति तर्हि क्रियया न भवति नो चेद् अनुग्रहोऽननुग्रह एव, यदि वा क्रियया भवति तर्ह्यनुग्रहेण न भवति नो चेत् क्रिया क्रियैव न भवति।
7
तर्हि किं? इस्रायेलीयलोका यद् अमृगयन्त तन्न प्रापुः। किन्त्वभिरुचितलोकास्तत् प्रापुस्तदन्ये सर्व्व अन्धीभूताः।
8
यथा लिखितम् आस्ते, घोरनिद्रालुताभावं दृष्टिहीने च लोचने। कर्णौ श्रुतिविहीनौ च प्रददौ तेभ्य ईश्वरः॥
9
एतेस्मिन् दायूदपि लिखितवान् यथा, अतो भुक्त्यासनं तेषाम् उन्माथवद् भविष्यति। वा वंशयन्त्रवद् बाधा दण्डवद् वा भविष्यति॥
10
भविष्यन्ति तथान्धास्ते नेत्रैः पश्यन्ति नो यथा। वेपथुः कटिदेशस्य तेषां नित्यं भविष्यति॥
11
पतनार्थं ते स्खलितवन्त इति वाचं किमहं वदामि? तन्न भवतु किन्तु तान् उद्योगिनः कर्त्तुं तेषां पतनाद् इतरदेशीयलोकैः परित्राणं प्राप्तं।
12
तेषां पतनं यदि जगतो लोकानां लाभजनकम् अभवत् तेषां ह्रासोऽपि यदि भिन्नदेशिनां लाभजनकोऽभवत् तर्हि तेषां वृद्धिः कति लाभजनिका भविष्यति?
13
अतो हे अन्यदेशिनो युष्मान् सम्बोध्य कथयामि निजानां ज्ञातिबन्धूनां मनःसूद्योगं जनयन् तेषां मध्ये कियतां लोकानां यथा परित्राणं साधयामि
14
तन्निमित्तम् अन्यदेशिनां निकटे प्रेरितः सन् अहं स्वपदस्य महिमानं प्रकाशयामि।
15
तेषां निग्रहेण यदीश्वरेण सह जगतो जनानां मेलनं जातं तर्हि तेषाम् अनुगृहीतत्वं मृतदेहे यथा जीवनलाभस्तद्वत् किं न भविष्यति?
16
अपरं प्रथमजातं फलं यदि पवित्रं भवति तर्हि सर्व्वमेव फलं पवित्रं भविष्यति; तथा मूलं यदि पवित्रं भवति तर्हि शाखा अपि तथैव भविष्यन्ति।
17
कियतीनां शाखानां छेदने कृते त्वं वन्यजितवृक्षस्य शाखा भूत्वा यदि तच्छाखानां स्थाने रोपिता सति जितवृक्षीयमूलस्य रसं भुंक्षे,
18
तर्हि तासां भिन्नशाखानां विरुद्धं मां गर्व्वीः; यदि गर्व्वसि तर्हि त्वं मूलं यन्न धारयसि किन्तु मूलं त्वां धारयतीति संस्मर।
19
अपरञ्च यदि वदसि मां रोपयितुं ताः शाखा विभन्ना अभवन्;
20
भद्रम्, अप्रत्ययकारणात् ते विभिन्ना जातास्तथा विश्वासकारणात् त्वं रोपितो जातस्तस्माद् अहङ्कारम् अकृत्वा ससाध्वसो भव।
21
यत ईश्वरो यदि स्वाभाविकीः शाखा न रक्षति तर्हि सावधानो भव चेत् त्वामपि न स्थापयति।
22
इत्यत्रेश्वरस्य यादृशी कृपा तादृशं भयानकत्वमपि त्वया दृश्यतां; ये पतितास्तान् प्रति तस्य भयानकत्वं दृश्यतां, त्वञ्च यदि तत्कृपाश्रितस्तिष्ठसि तर्हि त्वां प्रति कृपा द्रक्ष्यते; नो चेत् त्वमपि तद्वत् छिन्नो भविष्यसि।
23
अपरञ्च ते यद्यप्रत्यये न तिष्ठन्ति तर्हि पुनरपि रोपयिष्यन्ते यस्मात् तान् पुनरपि रोपयितुम् इश्वरस्य शक्तिरास्ते।
24
वन्यजितवृक्षस्य शाखा सन् त्वं यदि ततश्छिन्नो रीतिव्यत्ययेनोत्तमजितवृक्षे रोेेपितोऽभवस्तर्हि तस्य वृक्षस्य स्वीया याः शाखास्ताः किं पुनः स्ववृक्षे संलगितुं न शक्नुवन्ति?
25
हे भ्रातरो युष्माकम् आत्माभिमानो यन्न जायते तदर्थं ममेदृशी वाञ्छा भवति यूयं एतन्निगूढतत्त्वम् अजानन्तो यन्न तिष्ठथ; वस्तुतो यावत्कालं सम्पूर्णरूपेण भिन्नदेशिनां संग्रहो न भविष्यति तावत्कालम् अंशत्वेन इस्रायेलीयलोकानाम् अन्धता स्थास्यति;
26
पश्चात् ते सर्व्वे परित्रास्यन्ते; एतादृशं लिखितमप्यास्ते, आगमिष्यति सीयोनाद् एको यस्त्राणदायकः। अधर्म्मं याकुबो वंशात् स तु दूरीकरिष्यति।
27
तथा दूरीकरिष्यामि तेषां पापान्यहं यदा। तदा तैरेव सार्द्धं मे नियमोऽयं भविष्यति।
28
सुसंवादात् ते युष्माकं विपक्षा अभवन् किन्त्वभिरुचितत्वात् ते पितृलोकानां कृते प्रियपात्राणि भवन्ति।
29
यत ईश्वरस्य दानाद् आह्वानाञ्च पश्चात्तापो न भवति।
30
अतएव पूर्व्वम् ईश्वरेऽविश्वासिनः सन्तोऽपि यूयं यद्वत् सम्प्रति तेषाम् अविश्वासकारणाद् ईश्वरस्य कृपापात्राणि जातास्तद्वद्
31
इदानीं तेऽविश्वासिनः सन्ति किन्तु युष्माभि र्लब्धकृपाकारणात् तैरपि कृपा लप्स्यते।
32
ईश्वरः सर्व्वान् प्रति कृपां प्रकाशयितुं सर्व्वान् अविश्वासित्वेन गणयति।
33
अहो ईश्वरस्य ज्ञानबुद्धिरूपयो र्धनयोः कीदृक् प्राचुर्य्यं। तस्य राजशासनस्य तत्त्वं कीदृग् अप्राप्यं। तस्य मार्गाश्च कीदृग् अनुपलक्ष्याः।
34
परमेश्वरस्य सङ्कल्पं को ज्ञातवान्? तस्य मन्त्री वा कोऽभवत्?
35
को वा तस्योपकारी भृत्वा तत्कृते तेन प्रत्युपकर्त्तव्यः?
36
यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति।
← Chapter 10
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 12 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16