bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Romans 15
Romans 15
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 14
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 16 →
1
बलवद्भिरस्माभि र्दुर्ब्बलानां दौर्ब्बल्यं सोढव्यं न च स्वेषाम् इष्टाचार आचरितव्यः।
2
अस्माकम् एकैको जनः स्वसमीपवासिनो हितार्थं निष्ठार्थञ्च तस्यैवेष्टाचारम् आचरतु।
3
यतः ख्रीष्टोऽपि निजेष्टाचारं नाचरितवान्, यथा लिखितम् आस्ते, त्वन्निन्दकगणस्यैव निन्दाभि र्निन्दितोऽस्म्यहं।
4
अपरञ्च वयं यत् सहिष्णुतासान्त्वनयो र्जनकेन शास्त्रेण प्रत्याशां लभेमहि तन्निमित्तं पूर्व्वकाले लिखितानि सर्व्ववचनान्यस्माकम् उपदेशार्थमेव लिलिखिरे।
5
सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्;
6
यूयञ्च सर्व्व एकचित्ता भूत्वा मुखैकेनेवास्मत्प्रभुयीशुख्रीष्टस्य पितुरीश्वरस्य गुणान् कीर्त्तयेत।
7
अपरम् ईश्वरस्य महिम्नः प्रकाशार्थं ख्रीष्टो यथा युष्मान् प्रत्यगृह्लात् तथा युष्माकमप्येको जनोऽन्यजनं प्रतिगृह्लातु।
8
यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर।।
9
तस्य दयालुत्वाच्च भिन्नजातीया यद् ईश्वरस्य गुणान् कीर्त्तयेयुस्तदर्थं यीशुः ख्रीष्टस्त्वक्छेदनियमस्य निघ्नोऽभवद् इत्यहं वदामि। यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर॥
10
अपरमपि लिखितम् आस्ते, हे अन्यजातयो यूयं समं नन्दत तज्जनैः।
11
पुनश्च लिखितम् आस्ते, हे सर्व्वदेशिनो यूयं धन्यं ब्रूत परेश्वरं। हे तदीयनरा यूयं कुरुध्वं तत्प्रशंसनं॥
12
अपर यीशायियोऽपि लिलेख, यीशयस्य तु यत् मूलं तत् प्रकाशिष्यते तदा। सर्व्वजातीयनृणाञ्च शासकः समुदेष्यति। तत्रान्यदेशिलोकैश्च प्रत्याशा प्रकरिष्यते॥
13
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
14
हे भ्रातरो यूयं सद्भावयुक्ताः सर्व्वप्रकारेण ज्ञानेन च सम्पूर्णाः परस्परोपदेशे च तत्परा इत्यहं निश्चितं जानामि,
15
तथाप्यहं यत् प्रगल्भतरो भवन् युष्मान् प्रबोधयामि तस्यैकं कारणमिदं।
16
भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि।
17
ईश्वरं प्रति यीशुख्रीष्टेन मम श्लाघाकरणस्य कारणम् आस्ते।
18
भिन्नदेशिन आज्ञाग्राहिणः कर्त्तुं ख्रीष्टो वाक्येन क्रियया च, आश्चर्य्यलक्षणैश्चित्रक्रियाभिः पवित्रस्यात्मनः प्रभावेन च यानि कर्म्माणि मया साधितवान्,
19
केवलं तान्येव विनान्यस्य कस्यचित् कर्म्मणो वर्णनां कर्त्तुं प्रगल्भो न भवामि। तस्मात् आ यिरूशालम इल्लूरिकं यावत् सर्व्वत्र ख्रीष्टस्य सुसंवादं प्राचारयं।
20
अन्येन निचितायां भित्तावहं यन्न निचिनोमि तन्निमित्तं यत्र यत्र स्थाने ख्रीष्टस्य नाम कदापि केनापि न ज्ञापितं तत्र तत्र सुसंवादं प्रचारयितुम् अहं यते।
21
यादृशं लिखितम् आस्ते, यै र्वार्त्ता तस्य न प्राप्ता दर्शनं तैस्तु लप्स्यते। यैश्च नैव श्रुतं किञ्चित् बोद्धुं शक्ष्यन्ति ते जनाः॥
22
तस्माद् युष्मत्समीपगमनाद् अहं मुहुर्मुहु र्निवारितोऽभवं।
23
किन्त्विदानीम् अत्र प्रदेशेषु मया न गतं स्थानं किमपि नावशिष्यते युष्मत्समीपं गन्तुं बहुवत्सरानारभ्य मामकीनाकाङ्क्षा च विद्यत इति हेतोः
24
स्पानियादेशगमनकालेऽहं युष्मन्मध्येन गच्छन् युष्मान् आलोकिष्ये, ततः परं युष्मत्सम्भाषणेन तृप्तिं परिलभ्य तद्देशगमनार्थं युष्माभि र्विसर्जयिष्ये, ईदृशी मदीया प्रत्याशा विद्यते।
25
किन्तु साम्प्रतं पवित्रलोकानां सेवनाय यिरूशालम्नगरं व्रजामि।
26
यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्।
27
एषा तेषां सदिच्छा यतस्ते तेषाम् ऋणिनः सन्ति यतो हेतो र्भिन्नजातीया येषां परमार्थस्यांशिनो जाता ऐहिकविषये तेषामुपकारस्तैः कर्त्तव्यः।
28
अतो मया तत् कर्म्म साधयित्वा तस्मिन् फले तेभ्यः समर्पिते युष्मन्मध्येन स्पानियादेशो गमिष्यते।
29
युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।
30
हे भ्रातृगण प्रभो र्यीशुख्रीष्टस्य नाम्ना पवित्रस्यात्मानः प्रेम्ना च विनयेऽहं
31
यिहूदादेशस्थानाम् अविश्वासिलोकानां करेभ्यो यदहं रक्षां लभेय मदीयैतेन सेवनकर्म्मणा च यद् यिरूशालमस्थाः पवित्रलोकास्तुष्येयुः,
32
तदर्थं यूयं मत्कृत ईश्वराय प्रार्थयमाणा यतध्वं तेनाहम् ईश्वरेच्छया सानन्दं युष्मत्समीपं गत्वा युष्माभिः सहितः प्राणान् आप्यायितुं पारयिष्यामि।
33
शान्तिदायक ईश्वरो युष्माकं सर्व्वेषां सङ्गी भूयात्। इति।
← Chapter 14
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 16 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16