bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
2 Corinthians 2
2 Corinthians 2
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 1
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 3 →
1
अपरञ्चाहं पुनः शोकाय युष्मत्सन्निधिं न गमिष्यामीति मनसि निरचैषं।
2
यस्माद् अहं यदि युष्मान् शोकयुक्तान् करोमि तर्हि मया यः शोकयुक्तीकृतस्तं विना केनापरेणाहं हर्षयिष्ये?
3
मम यो हर्षः स युष्माकं सर्व्वेषां हर्ष एवेति निश्चितं मयाबोधि; अतएव यैरहं हर्षयितव्यस्तै र्मदुपस्थितिसमये यन्मम शोको न जायेत तदर्थमेव युष्मभ्यम् एतादृशं पत्रं मया लिखितं।
4
वस्तुतस्तु बहुक्लेशस्य मनःपीडायाश्च समयेऽहं बह्वश्रुपातेन पत्रमेकं लिखितवान् युष्माकं शोकार्थं तन्नहि किन्तु युष्मासु मदीयप्रेमबाहुल्यस्य ज्ञापनार्थं।
5
येनाहं शोकयुक्तीकृतस्तेन केवलमहं शोकयुक्तीकृतस्तन्नहि किन्त्वंशतो यूयं सर्व्वेऽपि यतोऽहमत्र कस्मिंश्चिद् दोषमारोपयितुं नेच्छामि।
6
बहूनां यत् तर्ज्जनं तेन जनेनालम्भि तत् तदर्थं प्रचुरं।
7
अतः स दुःखसागरे यन्न निमज्जति तदर्थं युष्माभिः स क्षन्तव्यः सान्त्वयितव्यश्च।
8
इति हेतोः प्रर्थयेऽहं युष्माभिस्तस्मिन् दया क्रियतां।
9
यूयं सर्व्वकर्म्मणि ममादेशं गृह्लीथ न वेति परीक्षितुम् अहं युष्मान् प्रति लिखितवान्।
10
यस्य यो दोषो युष्माभिः क्षम्यते तस्य स दोषो मयापि क्षम्यते यश्च दोषो मया क्षम्यते स युष्माकं कृते ख्रीष्टस्य साक्षात् क्षम्यते।
11
शयतानः कल्पनास्माभिरज्ञाता नहि, अतो वयं यत् तेन न वञ्च्यामहे तदर्थम् अस्माभिः सावधानै र्भवितव्यं।
12
अपरञ्च ख्रीष्टस्य सुसंवादघोषणार्थं मयि त्रोयानगरमागते प्रभोः कर्म्मणे च मदर्थं द्वारे मुक्ते
13
सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं।
14
य ईश्वरः सर्व्वदा ख्रीष्टेनास्मान् जयिनः करोति सर्व्वत्र चास्माभिस्तदीयज्ञानस्य गन्धं प्रकाशयति स धन्यः।
15
यस्माद् ये त्राणं लप्स्यन्ते ये च विनाशं गमिष्यन्ति तान् प्रति वयम् ईश्वरेण ख्रीष्टस्य सौगन्ध्यं भवामः।
16
वयम् एकेषां मृत्यवे मृत्युगन्धा अपरेषाञ्च जीवनाय जीवनगन्धा भवामः, किन्त्वेतादृशकर्म्मसाधने कः समर्थोऽस्ति?
17
अन्ये बहवो लोका यद्वद् ईश्वरस्य वाक्यं मृषाशिक्षया मिश्रयन्ति वयं तद्वत् तन्न मिश्रयन्तः सरलभावेनेश्वरस्य साक्षाद् ईश्वरस्यादेशात् ख्रीष्टेन कथां भाषामहे।
← Chapter 1
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 3 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13