bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
2 Corinthians 6
2 Corinthians 6
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 5
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 7 →
1
तस्य सहाया वयं युष्मान् प्रार्थयामहे, ईश्वरस्यानुग्रहो युष्माभि र्वृथा न गृह्यतां।
2
तेनोक्तमेतत्, संश्रोष्यामि शुभे काले त्वदीयां प्रार्थनाम् अहं। उपकारं करिष्यामि परित्राणदिने तव। पश्यतायं शुभकालः पश्यतेदं त्राणदिनं।
3
अस्माकं परिचर्य्या यन्निष्कलङ्का भवेत् तदर्थं वयं कुत्रापि विघ्नं न जनयामः,
4
किन्तु प्रचुरसहिष्णुता क्लेशो दैन्यं विपत् ताडना काराबन्धनं निवासहीनत्वं परिश्रमो जागरणम् उपवसनं
5
निर्म्मलत्वं ज्ञानं मृदुशीलता हितैषिता
6
पवित्र आत्मा निष्कपटं प्रेम सत्यालाप ईश्वरीयशक्ति
7
र्दक्षिणवामाभ्यां कराभ्यां धर्म्मास्त्रधारणं
8
मानापमानयोरख्यातिसुख्यात्यो र्भागित्वम् एतैः सर्व्वैरीश्वरस्य प्रशंस्यान् परिचारकान् स्वान् प्रकाशयामः।
9
भ्रमकसमा वयं सत्यवादिनो भवामः, अपरिचितसमा वयं सुपरिचिता भवामः, मृतकल्पा वयं जीवामः, दण्ड्यमाना वयं न हन्यामहे,
10
शोकयुक्ताश्च वयं सदानन्दामः, दरिद्रा वयं बहून् धनिनः कुर्म्मः, अकिञ्चनाश्च वयं सर्व्वं धारयामः।
11
हे करिन्थिनः, युष्माकं प्रति ममास्यं मुक्तं ममान्तःकरणाञ्च विकसितं।
12
यूयं ममान्तरे न सङ्कोचिताः किञ्च यूयमेव सङ्कोचितचित्ताः।
13
किन्तु मह्यं न्याय्यफलदानार्थं युष्माभिरपि विकसितै र्भवितव्यम् इत्यहं निजबालकानिव युष्मान् वदामि।
14
अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति?
15
बिलीयालदेवेन साकं ख्रीष्टस्य वा का सन्धिः? अविश्वासिना सार्द्धं वा विश्वासिलोकस्यांशः कः?
16
ईश्वरस्य मन्दिरेण सह वा देवप्रतिमानां का तुलना? अमरस्येश्वरस्य मन्दिरं यूयमेव। ईश्वरेण तदुक्तं यथा, तेषां मध्येऽहं स्वावासं निधास्यामि तेषां मध्ये च यातायातं कुर्व्वन् तेषाम् ईश्वरो भविष्यामि ते च मल्लोका भविष्यन्ति।
17
अतो हेतोः परमेश्वरः कथयति यूयं तेषां मध्याद् बहिर्भूय पृथग् भवत, किमप्यमेध्यं न स्पृशत; तेनाहं युष्मान् ग्रहीष्यामि,
18
युष्माकं पिता भविष्यामि च, यूयञ्च मम कन्यापुत्रा भविष्यथेति सर्व्वशक्तिमता परमेश्वरेणोक्तं।
← Chapter 5
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 7 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13