bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
2 Corinthians 7
2 Corinthians 7
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 6
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 8 →
1
अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।
2
यूयम् अस्मान् गृह्लीत। अस्माभिः कस्याप्यन्यायो न कृतः कोऽपि न वञ्चितः।
3
युष्मान् दोषिणः कर्त्तमहं वाक्यमेतद् वदामीति नहि युष्माभिः सह जीवनाय मरणाय वा वयं युष्मान् स्वान्तःकरणै र्धारयाम इति पूर्व्वं मयोक्तं।
4
युष्मान् प्रति मम महेत्साहो जायते युष्मान् अध्यहं बहु श्लाघे च तेन सर्व्वक्लेशसमयेऽहं सान्त्वनया पूर्णो हर्षेण प्रफुल्लितश्च भवामि।
5
अस्मासु माकिदनियादेशम् आगतेष्वस्माकं शरीरस्य काचिदपि शान्ति र्नाभवत् किन्तु सर्व्वतो बहि र्विरोधेनान्तश्च भीत्या वयम् अपीड्यामहि।
6
किन्तु नम्राणां सान्त्वयिता य ईश्वरः स तीतस्यागमनेनास्मान् असान्त्वयत्।
7
केवलं तस्यागमनेन तन्नहि किन्तु युष्मत्तो जातया तस्य सान्त्वनयापि, यतोऽस्मासु युष्माकं हार्द्दविलापासक्तत्वेष्वस्माकं समीपे वर्णितेषु मम महानन्दो जातः।
8
अहं पत्रेण युष्मान् शोकयुक्तान् कृतवान् इत्यस्माद् अन्वतप्ये किन्त्वधुना नानुतप्ये। तेन पत्रेण यूयं क्षणमात्रं शोकयुक्तीभूता इति मया दृश्यते।
9
इत्यस्मिन् युष्माकं शोकेनाहं हृष्यामि तन्नहि किन्तु मनःपरिवर्त्तनाय युष्माकं शोकोऽभवद् इत्यनेन हृष्यामि यतोऽस्मत्तो युष्माकं कापि हानि र्यन्न भवेत् तदर्थं युष्माकम् ईश्वरीयः शोेको जातः।
10
स ईश्वरीयः शोकः परित्राणजनकं निरनुतापं मनःपरिवर्त्तनं साधयति किन्तु सांसारिकः शोको मृत्युं साधयति।
11
पश्यत तेनेश्वरीयेण शोकेन युष्माकं किं न साधितं? यत्नो दोषप्रक्षालनम् असन्तुष्टत्वं हार्द्दम् आसक्तत्वं फलदानञ्चैतानि सर्व्वाणि। तस्मिन् कर्म्मणि यूयं निर्म्मला इति प्रमाणं सर्व्वेण प्रकारेण युष्माभि र्दत्तं।
12
येनापराद्धं तस्य कृते किंवा यस्यापराद्धं तस्य कृते मया पत्रम् अलेखि तन्नहि किन्तु युष्मानध्यस्माकं यत्नो यद् ईश्वरस्य साक्षाद् युष्मत्समीपे प्रकाशेत तदर्थमेव।
13
उक्तकारणाद् वयं सान्त्वनां प्राप्ताः; ताञ्च सान्त्वनां विनावरो महाह्लादस्तीतस्याह्लादादस्माभि र्लब्धः, यतस्तस्यात्मा सर्व्वै र्युष्माभिस्तृप्तः।
14
पूर्व्वं तस्य समीपेऽहं युष्माभिर्यद् अश्लाघे तेन नालज्जे किन्तु वयं यद्वद् युष्मान् प्रति सत्यभावेन सकलम् अभाषामहि तद्वत् तीतस्य समीपेऽस्माकं श्लाघनमपि सत्यं जातं।
15
यूयं कीदृक् तस्याज्ञा अपालयत भयकम्पाभ्यां तं गृहीतवन्तश्चैतस्य स्मरणाद् युष्मासु तस्य स्नेहो बाहुल्येन वर्त्तते।
16
युष्मास्वहं सर्व्वमाशंसे, इत्यस्मिन् ममाह्लादो जायते।
← Chapter 6
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 8 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13