bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Hebrews 10
Hebrews 10
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 9
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 11 →
1
व्यवस्था भविष्यन्मङ्गलानां छायास्वरूपा न च वस्तूनां मूर्त्तिस्वरूपा ततो हेतो र्नित्यं दीयमानैरेकविधै र्वार्षिकबलिभिः शरणागतलोकान् सिद्धान् कर्त्तुं कदापि न शक्नोति।
2
यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां कोऽपि पापबोधः पुन र्नाभविष्यत्।
3
किन्तु तै र्बलिदानैः प्रतिवत्सरं पापानां स्मारणं जायते।
4
यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।
5
एतत्कारणात् ख्रीष्टेन जगत् प्रविश्येदम् उच्यते, यथा, "नेष्ट्वा बलिं न नैवेद्यं देहो मे निर्म्मितस्त्वया।
6
न च त्वं बलिभि र्हव्यैः पापघ्नै र्वा प्रतुष्यसि।
7
अवादिषं तदैवाहं पश्य कुर्व्वे समागमं। धर्म्मग्रन्थस्य सर्गे मे विद्यते लिखिता कथा। ईश मनोऽभिलाषस्ते मया सम्पूरयिष्यते।"
8
इत्यस्मिन् प्रथमतो येषां दानं व्यवस्थानुसाराद् भवति तान्यधि तेनेदमुक्तं यथा, बलिनैवेद्यहव्यानि पापघ्नञ्चोपचारकं, नेमानि वाञ्छसि त्वं हि न चैतेषु प्रतुष्यसीति।
9
ततः परं तेनोक्तं यथा, "पश्य मनोऽभिलाषं ते कर्त्तुं कुर्व्वे समागमं;" द्वितीयम् एतद् वाक्यं स्थिरीकर्त्तुं स प्रथमं लुम्पति।
10
तेन मनोऽभिलाषेण च वयं यीशुख्रीष्टस्यैककृत्वः स्वशरीरोत्सर्गात् पवित्रीकृता अभवाम।
11
अपरम् एकैको याजकः प्रतिदिनम् उपासनां कुर्व्वन् यैश्च पापानि नाशयितुं कदापि न शक्यन्ते तादृशान् एकरूपान् बलीन् पुनः पुनरुत्सृजन् तिष्ठति।
12
किन्त्वसौ पापनाशकम् एकं बलिं दत्वानन्तकालार्थम् ईश्वरस्य दक्षिण उपविश्य
13
यावत् तस्य शत्रवस्तस्य पादपीठं न भवन्ति तावत् प्रतीक्षमाणस्तिष्ठति।
14
यत एकेन बलिदानेन सोऽनन्तकालार्थं पूयमानान् लोकान् साधितवान्।
15
एतस्मिन् पवित्र आत्माप्यस्माकं पक्षे प्रमाणयति
16
"यतो हेतोस्तद्दिनात् परम् अहं तैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामीति प्रथमत उक्त्वा परमेश्वरेणेदं कथितं, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां मनःसु च तान् लेखिष्यामि च,
17
अपरञ्च तेषां पापान्यपराधांश्च पुनः कदापि न स्मारिष्यामि।"
18
किन्तु यत्र पापमोचनं भवति तत्र पापार्थकबलिदानं पुन र्न भवति।
19
अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति,
20
यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्,
21
अपरञ्चेश्वरीयपरिवारस्याध्यक्ष एको महायाजकोऽस्माकमस्ति।
22
अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।
23
यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः।
24
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।
25
अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
26
सत्यमतस्य ज्ञानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते ऽन्यत् किमपि बलिदानं नावशिष्यते
27
किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते।
28
यः कश्चित् मूससो व्यवस्थाम् अवमन्यते स दयां विना द्वयोस्तिसृणां वा साक्षिणां प्रमाणेन हन्यते,
29
तस्मात् किं बुध्यध्वे यो जन ईश्वरस्य पुत्रम् अवजानाति येन च पवित्रीकृतो ऽभवत् तत् नियमस्य रुधिरम् अपवित्रं जानाति, अनुग्रहकरम् आत्मानम् अपमन्यते च, स कियन्महाघोरतरदण्डस्य योग्यो भविष्यति?
30
यतः परमेश्वरः कथयति, "दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।" पुनरपि, "तदा विचारयिष्यन्ते परेशेन निजाः प्रजाः।" इदं यः कथितवान् तं वयं जानीमः।
31
अमरेश्वरस्य करयोः पतनं महाभयानकं।
32
हे भ्रातरः, पूर्व्वदिनानि स्मरत यतस्तदानीं यूयं दीप्तिं प्राप्य बहुदुर्गतिरूपं संग्रामं सहमाना एकतो निन्दाक्लेशैः कौतुकीकृता अभवत,
33
अन्यतश्च तद्भोगिनां समांशिनो ऽभवत।
34
यूयं मम बन्धनस्य दुःखेन दुःखिनो ऽभवत, युष्माकम् उत्तमा नित्या च सम्पत्तिः स्वर्गे विद्यत इति ज्ञात्वा सानन्दं सर्व्वस्वस्यापहरणम् असहध्वञ्च।
35
अतएव महापुरस्कारयुक्तं युष्माकम् उत्साहं न परित्यजत।
36
यतो यूयं येनेश्वरस्येच्छां पालयित्वा प्रतिज्ञायाः फलं लभध्वं तदर्थं युष्माभि र्धैर्य्यावलम्बनं कर्त्तव्यं।
37
येनागन्तव्यं स स्वल्पकालात् परम् आगमिष्यति न च विलम्बिष्यते।
38
"पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति।"
39
किन्तु वयं विनाशजनिकां धर्म्मात् निवृत्तिं न कुर्व्वाणा आत्मनः परित्राणाय विश्वासं कुर्व्वामहेे।
← Chapter 9
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 11 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13