bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Hebrews 4
Hebrews 4
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 3
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 5 →
1
अपरं तद्विश्रामप्राप्तेः प्रतिज्ञा यदि तिष्ठति तर्ह्यस्माकं कश्चित् चेत् तस्याः फलेन वञ्चितो भवेत् वयम् एतस्माद् बिभीमः।
2
यतो ऽस्माकं समीपे यद्वत् तद्वत् तेषां समीपेऽपि सुसंवादः प्रचारितो ऽभवत् किन्तु तैः श्रुतं वाक्यं तान् प्रति निष्फलम् अभवत्, यतस्ते श्रोतारो विश्वासेन सार्द्धं तन्नामिश्रयन्।
3
तद् विश्रामस्थानं विश्वासिभिरस्माभिः प्रविश्यते यतस्तेनोक्तं, "अहं कोपात् शपथं कृतवान् इमं, प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम।" किन्तु तस्य कर्म्माणि जगतः सृष्टिकालात् समाप्तानि सन्ति।
4
यतः कस्मिंश्चित् स्थाने सप्तमं दिनमधि तेनेदम् उक्तं, यथा, "ईश्वरः सप्तमे दिने स्वकृतेभ्यः सर्व्वकर्म्मभ्यो विशश्राम।"
5
किन्त्वेतस्मिन् स्थाने पुनस्तेनोच्यते, यथा, "प्रवेक्ष्यते जनैरेतै र्न विश्रामस्थलं मम।"
6
फलतस्तत् स्थानं कैश्चित् प्रवेष्टव्यं किन्तु ये पुरा सुसंवादं श्रुतवन्तस्तैरविश्वासात् तन्न प्रविष्टम्,
7
इति हेतोः स पुनरद्यनामकं दिनं निरूप्य दीर्घकाले गतेऽपि पूर्व्वोक्तां वाचं दायूदा कथयति, यथा, "अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्हि मा कुरुतेदानीं कठिनानि मनांसि वः।"
8
अपरं यिहोशूयो यदि तान् व्यश्रामयिष्यत् तर्हि ततः परम् अपरस्य दिनस्य वाग् ईश्वरेण नाकथयिष्यत।
9
अत ईश्वरस्य प्रजाभिः कर्त्तव्य एको विश्रामस्तिष्ठति।
10
अपरम् ईश्वरो यद्वत् स्वकृतकर्म्मभ्यो विशश्राम तद्वत् तस्य विश्रामस्थानं प्रविष्टो जनोऽपि स्वकृतकर्म्मभ्यो विश्राम्यति।
11
अतो वयं तद् विश्रामस्थानं प्रवेष्टुं यतामहै, तदविश्वासोदाहरणेन कोऽपि न पततु।
12
ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।
13
अपरं यस्य समीपे स्वीया स्वीया कथास्माभिः कथयितव्या तस्यागोचरः कोऽपि प्राणी नास्ति तस्य दृष्टौ सर्व्वमेवानावृतं प्रकाशितञ्चास्ते।
14
अपरं य उच्चतमं स्वर्गं प्रविष्ट एतादृश एको व्यक्तिरर्थत ईश्वरस्य पुत्रो यीशुरस्माकं महायाजकोऽस्ति, अतो हेतो र्वयं धर्म्मप्रतिज्ञां दृढम् आलम्बामहै।
15
अस्माकं यो महायाजको ऽस्ति सोऽस्माकं दुःखै र्दुःखितो भवितुम् अशक्तो नहि किन्तु पापं विना सर्व्वविषये वयमिव परीक्षितः।
16
अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।
← Chapter 3
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 5 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13