bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Hebrews 2
Hebrews 2
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 1
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 3 →
1
अतो वयं यद् भ्रमस्रोतसा नापनीयामहे तदर्थमस्माभि र्यद्यद् अश्रावि तस्मिन् मनांसि निधातव्यानि।
2
यतो हेतो दूतैः कथितं वाक्यं यद्यमोघम् अभवद् यदि च तल्लङ्घनकारिणे तस्याग्राहकाय च सर्व्वस्मै समुचितं दण्डम् अदीयत,
3
तर्ह्यस्माभिस्तादृशं महापरित्राणम् अवज्ञाय कथं रक्षा प्राप्स्यते, यत् प्रथमतः प्रभुना प्रोक्तं ततोऽस्मान् यावत् तस्य श्रोतृभिः स्थिरीकृतं,
4
अपरं लक्षणैरद्भुतकर्म्मभि र्विविधशक्तिप्रकाशेन निजेच्छातः पवित्रस्यात्मनो विभागेन च यद् ईश्वरेण प्रमाणीकृतम् अभूत्।
5
वयं तु यस्य भाविराज्यस्य कथां कथयामः, तत् तेन् दिव्यदूतानाम् अधीनीकृतमिति नहि।
6
किन्तु कुत्रापि कश्चित् प्रमाणम् ईदृशं दत्तवान्, यथा, "किं वस्तु मानवो यत् स नित्यं संस्मर्य्यते त्वया। किं वा मानवसन्तानो यत् स आलोच्यते त्वया।
7
दिव्यदतगणेभ्यः स किञ्चिन् न्यूनः कृतस्त्वया। तेजोगौरवरूपेण किरीटेन विभूषितः। सृष्टं यत् ते कराभ्यां स तत्प्रभुत्वे नियोजितः।
8
चरणाधश्च तस्यैव त्वया सर्व्वं वशीकृतं॥" तेन सर्व्वं यस्य वशीकृतं तस्यावशीभूतं किमपि नावशेषितं किन्त्वधुनापि वयं सर्व्वाणि तस्य वशीभूतानि न पश्यामः।
9
तथापि दिव्यदूतगणेभ्यो यः किञ्चिन् न्यूनीकृतोऽभवत् तं यीशुं मृत्युभोगहेतोस्तेजोगौरवरूपेण किरीटेन विभूषितं पश्यामः, यत ईश्वरस्यानुग्रहात् स सर्व्वेषां कृते मृत्युम् अस्वदत।
10
अपरञ्च यस्मै येन च कृत्स्नं वस्तु सृष्टं विद्यते बहुसन्तानानां विभवायानयनकाले तेषां परित्राणाग्रसरस्य दुःखभोगेन सिद्धीकरणमपि तस्योपयुक्तम् अभवत्।
11
यतः पावकः पूयमानाश्च सर्व्वे एकस्मादेवोत्पन्ना भवन्ति, इति हेतोः स तान् भ्रातृन् वदितुं न लज्जते।
12
तेन स उक्तवान्, यथा, "द्योतयिष्यामि ते नाम भ्रातृणां मध्यतो मम। परन्तु समिते र्मध्ये करिष्ये ते प्रशंसनं॥"
13
पुनरपि, यथा, "तस्मिन् विश्वस्य स्थाताहं।" पुनरपि, यथा, "पश्याहम् अपत्यानि च दत्तानि मह्यम् ईश्वरात्।"
14
तेषाम् अपत्यानां रुधिरपललविशिष्टत्वात् सोऽपि तद्वत् तद्विशिष्टोऽभूत् तस्याभिप्रायोऽयं यत् स मृत्युबलाधिकारिणं शयतानं मृत्युना बलहीनं कुर्य्यात्
15
ये च मृत्युभयाद् यावज्जीवनं दासत्वस्य निघ्ना आसन् तान् उद्धारयेत्।
16
स दूतानाम् उपकारी न भवति किन्त्विब्राहीमो वंशस्यैवोपकारी भवती।
17
अतो हेतोः स यथा कृपावान् प्रजानां पापशोधनार्थम् ईश्वरोद्देश्यविषये विश्वास्यो महायाजको भवेत् तदर्थं सर्व्वविषये स्वभ्रातृणां सदृशीभवनं तस्योचितम् आसीत्।
18
यतः स स्वयं परीक्षां गत्वा यं दुःखभोगम् अवगतस्तेन परीक्षाक्रान्तान् उपकर्त्तुं शक्नोति।
← Chapter 1
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 3 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13