bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Mark 1
Mark 1
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 2 →
1
ईश्वरपुत्रस्य यीशुख्रीष्टस्य सुसंवादारम्भः।
2
भविष्यद्वादिनां ग्रन्थेषु लिपिरित्थमास्ते, पश्य स्वकीयदूतन्तु तवाग्रे प्रेषयाम्यहम्। गत्वा त्वदीयपन्थानं स हि परिष्करिष्यति।
3
"परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथञ्चैव समानं कुरुताधुना।" इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद्रवः॥
4
सएव योहन् प्रान्तरे मज्जितवान् तथा पापमार्जननिमित्तं मनोव्यावर्त्तकमज्जनस्य कथाञ्च प्रचारितवान्।
5
ततो यिहूदादेशयिरूशालम्नगरनिवासिनः सर्व्वे लोका बहि र्भूत्वा तस्य समीपमागत्य स्वानि स्वानि पापान्यङ्गीकृत्य यर्द्दननद्यां तेन मज्जिता बभूवुः।
6
अस्य योहनः परिधेयानि क्रमेलकलोमजानि, तस्य कटिबन्धनं चर्म्मजातम्, तस्य भक्ष्याणि च शूककीटा वन्यमधूनि चासन्।
7
स प्रचारयन् कथयाञ्चक्रे, अहं नम्रीभूय यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि, तादृशो मत्तो गुरुतर एकः पुरुषो मत्पश्चादागच्छति।
8
अहं युष्मान् जले मज्जितवान् किन्तु स पवित्र आत्मानि संमज्जयिष्यति।
9
अपरञ्च तस्मिन्नेव काले गालील्प्रदेशस्य नासरद्ग्रामाद् यीशुरागत्य योहना यर्द्दननद्यां मज्जितोऽभूत्।
10
स जलादुत्थितमात्रो मेघद्वारं मुक्तं कपोतवत् स्वस्योपरि अवरोहन्तमात्मानञ्च दृष्टवान्।
11
त्वं मम प्रियः पुत्रस्त्वय्येव मममहासन्तोष इयमाकाशीया वाणी बभूव।
12
तस्मिन् काले आत्मा तं प्रान्तरमध्यं निनाय।
13
अथ स चत्वारिंशद्दिनानि तस्मिन् स्थाने वन्यपशुभिः सह तिष्ठन् शैताना परीक्षितः; पश्चात् स्वर्गीयदूतास्तं सिषेविरे।
14
अनन्तरं योहनि बन्धनालये बद्धे सति यीशु र्गालील्प्रदेशमागत्य ईश्वरराज्यस्य सुसंवादं प्रचारयन् कथयामास,
15
कालः सम्पूर्ण ईश्वरराज्यञ्च समीपमागतं; अतोहेतो र्यूयं मनांसि व्यावर्त्तयध्वं सुसंवादे च विश्वासित।
16
तदनन्तरं स गालीलीयसमुद्रस्य तीरे गच्छन् शिमोन् तस्य भ्राता अन्द्रियनामा च इमौ द्वौ जनौ मत्स्यधारिणौ सागरमध्ये जालं प्रक्षिपन्तौ दृष्ट्वा ताववदत्,
17
युवां मम पश्चादागच्छतं, युवामहं मनुष्यधारिणौ करिष्यामि।
18
ततस्तौ तत्क्षणमेव जालानि परित्यज्य तस्य पश्चात् जग्मतुः।
19
ततः परं तत्स्थानात् किञ्चिद् दूरं गत्वा स सिवदीपुत्रयाकूब् तद्भ्रातृयोहन् च इमौ नौकायां जालानां जीर्णमुद्धारयन्तौ दृष्ट्वा तावाहूयत्।
20
ततस्तौ नौकायां वेतनभुग्भिः सहितं स्वपितरं विहाय तत्पश्चादीयतुः।
21
ततः परं कफर्नाहूम्नामकं नगरमुपस्थाय स विश्रामदिवसे भजनग्रहं प्रविश्य समुपदिदेश।
22
तस्योपदेशाल्लोका आश्चर्य्यं मेनिरे यतः सोध्यापकाइव नोपदिशन् प्रभाववानिव प्रोपदिदेश।
23
अपरञ्च तस्मिन् भजनगृहे अपवित्रभूतेन ग्रस्त एको मानुष आसीत्। स चीत्शब्दं कृत्वा कथयाञ्चके
24
भो नासरतीय यीशो त्वमस्मान् त्यज, त्वया सहास्माकं कः सम्बन्धः? त्वं किमस्मान् नाशयितुं समागतः? त्वमीश्वरस्य पवित्रलोक इत्यहं जानामि।
25
तदा यीशुस्तं तर्जयित्वा जगाद तूष्णीं भव इतो बहिर्भव च।
26
ततः सोऽपवित्रभूतस्तं सम्पीड्य अत्युचैश्चीत्कृत्य निर्जगाम।
27
तेनैव सर्व्वे चमत्कृत्य परस्परं कथयाञ्चक्रिरे, अहो किमिदं? कीदृशोऽयं नव्य उपदेशः? अनेन प्रभावेनापवित्रभूतेष्वाज्ञापितेषु ते तदाज्ञानुवर्त्तिनो भवन्ति।
28
तदा तस्य यशो गालीलश्चतुर्दिक्स्थसर्व्वदेशान् व्याप्नोत्।
29
अपरञ्च ते भजनगृहाद् बहि र्भूत्वा याकूब्योहन्भ्यां सह शिमोन आन्द्रियस्य च निवेशनं प्रविविशुः।
30
तदा पितरस्य श्वश्रूर्ज्वरपीडिता शय्यायामास्त इति ते तं झटिति विज्ञापयाञ्चक्रुः।
31
ततः स आगत्य तस्या हस्तं धृत्वा तामुदस्थापयत्; तदैव तां ज्वरोऽत्याक्षीत् ततः परं सा तान् सिषेवे।
32
अथास्तं गते रवौ सन्ध्याकाले सति लोकास्तत्समीपं सर्व्वान् रोगिणो भूतधृतांश्च समानिन्युः।
33
सर्व्वे नागरिका लोका द्वारि संमिलिताश्च।
34
ततः स नानाविधरोगिणो बहून् मनुजानरोगिणश्चकार तथा बहून् भूतान् त्याजयाञ्चकार तान् भूतान् किमपि वाक्यं वक्तुं निषिषेध च यतोहेतोस्ते तमजानन्।
35
अपरञ्च सोऽतिप्रत्यूषे वस्तुतस्तु रात्रिशेषे समुत्थाय बहिर्भूय निर्जनं स्थानं गत्वा तत्र प्रार्थयाञ्चक्रे।
36
अनन्तरं शिमोन् तत्सङ्गिनश्च तस्य पश्चाद् गतवन्तः।
37
तदुद्देशं प्राप्य तमवदन् सर्व्वे लोकास्त्वां मृगयन्ते।
38
तदा सोऽकथयत् आगच्छत वयं समीपस्थानि नगराणि यामः, यतोऽहं तत्र कथां प्रचारयितुं बहिरागमम्।
39
अथ स तेषां गालील्प्रदेशस्य सर्व्वेषु भजनगृहेषु कथाः प्रचारयाञ्चक्रे भूतानत्याजयञ्च।
40
अनन्तरमेकः कुष्ठी समागत्य तत्सम्मुखे जानुपातं विनयञ्च कृत्वा कथितवान् यदि भवान् इच्छति तर्हि मां परिष्कर्त्तुं शक्नोति।
41
ततः कृपालु र्यीशुः करौ प्रसार्य्य तं स्पष्ट्वा कथयामास
42
ममेच्छा विद्यते त्वं परिष्कृतो भव। एतत्कथायाः कथनमात्रात् स कुष्ठी रोगान्मुक्तः परिष्कृतोऽभवत्।
43
तदा स तं विसृजन् गाढमादिश्य जगाद
44
सावधानो भव कथामिमां कमपि मा वद; स्वात्मानं याजकं दर्शय, लोकेभ्यः स्वपरिष्कृतेः प्रमाणदानाय मूसानिर्णीतं यद्दानं तदुत्सृजस्व च।
45
किन्तु स गत्वा तत् कर्म्म इत्थं विस्तार्य्य प्रचारयितुं प्रारेभे तेनैव यीशुः पुनः सप्रकाशं नगरं प्रवेष्टुं नाशक्नोत् ततोहेतोर्बहिः काननस्थाने तस्यौ; तथापि चतुर्द्दिग्भ्यो लोकास्तस्य समीपमाययुः।
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 2 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16