bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Mark 10
Mark 10
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 9
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 11 →
1
अनन्तरं स तत्स्थानात् प्रस्थाय यर्द्दननद्याः पारे यिहूदाप्रदेश उपस्थितवान्, तत्र तदन्तिके लोकानां समागमे जाते स निजरीत्यनुसारेण पुनस्तान् उपदिदेश।
2
तदा फिरूशिनस्तत्समीपम् एत्य तं परीक्षितुं पप्रच्छः स्वजाया मनुजानां त्यज्या न वेति?
3
ततः स प्रत्यवादीत्, अत्र कार्य्ये मूसा युष्मान् प्रति किमाज्ञापयत्?
4
त ऊचुः त्यागपत्रं लेखितुं स्वपत्नीं त्यक्तुञ्च मूसाऽनुमन्यते।
5
तदा यीशुः प्रत्युवाच, युष्माकं मनसां काठिन्याद्धेतो र्मूसा निदेशमिमम् अलिखत्।
6
किन्तु सृष्टेरादौ ईश्वरो नरान् पुंरूपेण स्त्रीरूपेण च ससर्ज।
7
"ततः कारणात् पुमान् पितरं मातरञ्च त्यक्त्वा स्वजायायाम् आसक्तो भविष्यति,
8
तौ द्वाव् एकाङ्गौ भविष्यतः।" तस्मात् तत्कालमारभ्य तौ न द्वाव् एकाङ्गौ।
9
अतः कारणाद् ईश्वरो यदयोजयत् कोपि नरस्तन्न वियेजयेत्।
10
अथ यीशु र्गृहं प्रविष्टस्तदा शिष्याः पुनस्तत्कथां तं पप्रच्छुः।
11
ततः सोवदत् कश्चिद् यदि स्वभार्य्यां त्यक्तवान्याम् उद्वहति तर्हि स स्वभार्य्यायाः प्रातिकूल्येन व्यभिचारी भवति।
12
काचिन्नारी यदि स्वपतिं हित्वान्यपुंसा विवाहिता भवति तर्हि सापि व्यभिचारिणी भवति।
13
अथ स यथा शिशून् स्पृशेत्, तदर्थं लोकैस्तदन्तिकं शिशव आनीयन्त, किन्तु शिष्यास्तानानीतवतस्तर्जयामासुः।
14
यीशुस्तद् दृष्ट्वा क्रुध्यन् जगाद, मन्निकटम् आगन्तुं शिशून् मा वारयत, यत एतादृशा ईश्वरराज्याधिकारिणः।
15
युष्मानहं यथार्थं वच्मि, यः कश्चित् शिशुवद् भूत्वा राज्यमीश्वरस्य न गृह्लीयात् स कदापि तद्राज्यं प्रवेष्टुं न शक्नोति।
16
अननतरं स शिशूनङ्के निधाय तेषां गात्रेषु हस्तौ दत्त्वाशिषं बभाषे।
17
अथ स वर्त्मना याति, एतर्हि जन एको धावन् आगत्य तत्सम्मुखे जानुनी पातयित्वा पृष्टवान्, भोः परमगुरो, अनन्तायुः प्राप्तये मया किं कर्त्तव्यं?
18
तदा यीशुरुवाच, मां परमं कुतो वदसि? विनेश्वरं कोपि परमो न भवति।
19
परस्त्रीं नाभिगच्छ; नरं मा घातय; स्तेयं मा कुरु; मृषासाक्ष्यं मा देहि; हिंसाञ्च मा कुरु; पितरौ सम्मन्यस्व; निदेशा एते त्वया ज्ञाताः।
20
ततस्तन प्रत्युक्तं, हे गुरो बाल्यकालादहं सर्व्वानेतान् आचरामि।
21
तदा यीशुस्तं विलोक्य स्नेहेन बभाषे, तवैकस्याभाव आस्ते; त्वं गत्वा सर्व्वस्वं विक्रीय दरिद्रेभ्यो विश्राणय, ततः स्वर्गे धनं प्राप्स्यसि; ततः परम् एत्य क्रुशं वहन् मदनुवर्त्ती भव।
22
किन्तु तस्य बहुसम्पद्विद्यमानत्वात् स इमां कथामाकर्ण्य विषणो दुःखितश्च सन् जगाम।
23
अथ यीशुश्चतुर्दिशो निरीक्ष्य शिष्यान् अवादीत्, धनिलोकानाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
24
तस्य कथातः शिष्याश्चमच्चक्रुः, किन्तु स पुनरवदत्, हे बालका ये धने विश्वसन्ति तेषाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
25
ईश्वरराज्ये धनिनां प्रवेशात् सूचिरन्ध्रेण महाङ्गस्य गमनागमनं सुकरं।
26
तदा शिष्या अतीव विस्मिताः परस्परं प्रोचुः, तर्हि कः परित्राणं प्राप्तुं शक्नोति?
27
ततो यीशुस्तान् विलोक्य बभाषे, तन् नरस्यासाध्यं किन्तु नेश्वरस्य, यतो हेतोरीश्वरस्य सर्व्वं साध्यम्।
28
तदा पितर उवाच, पश्य वयं सर्व्वं परित्यज्य भवतोनुगामिनो जाताः।
29
ततो यीशुः प्रत्यवदत्, युष्मानहं यथार्थं वदामि, मदर्थं सुसंवादार्थं वा यो जनः सदनं भ्रातरं भगिनीं पितरं मातरं जायां सन्तानान् भूमि वा त्यक्त्वा
30
गृहभ्रातृभगिनीपितृमातृपत्नीसन्तानभूमीनामिह शतगुणान् प्रेत्यानन्तायुश्च न प्राप्नोति तादृशः कोपि नास्ति।
31
किन्त्वग्रीया अनेके लोकाः शेषाः, शेषीया अनेके लोकाश्चाग्रा भविष्यन्ति।
32
अथ यिरूशालम्यानकाले यीशुस्तेषाम् अग्रगामी बभूव, तस्मात्ते चित्रं ज्ञात्वा पश्चाद्गामिनो भूत्वा बिभ्युः। तदा स पुन र्द्वादशशिष्यान् गृहीत्वा स्वीयं यद्यद् घटिष्यते तत्तत् तेभ्यः कथयितुं प्रारेभे;
33
पश्यत वयं यिरूशालम्पुरं यामः, तत्र मनुष्यपुत्रः प्रधानयाजकानाम् उपाध्यायानाञ्च करेषु समर्पयिष्यते; ते च वधदण्डाज्ञां दापयित्वा परदेशीयानां करेषु तं समर्पयिष्यन्ति।
34
ते तमुपहस्य कशया प्रहृत्य तद्वपुषि निष्ठीवं निक्षिप्य तं हनिष्यन्ति, ततः स तृतीयदिने प्रोत्थास्यति।
35
ततः सिवदेः पुत्रौ याकूब्योहनौ तदन्तिकम् एत्य प्रोचतुः, हे गुरो यद् आवाभ्यां याचिष्यते तदस्मदर्थं भवान् करोतु निवेदनमिदमावयोः।
36
ततः स कथितवान्, युवां किमिच्छथः? किं मया युष्मदर्थं करणीयं?
37
तदा तौ प्रोचतुः, आवयोरेकं दक्षिणपार्श्वे वामपार्श्वे चैकं तवैश्वर्य्यपदे समुपवेष्टुम् आज्ञापय।
38
किन्तु यीशुः प्रत्युवाच युवामज्ञात्वेदं प्रार्थयेथे, येन कंसेनाहं पास्यामि तेन युवाभ्यां किं पातुं शक्ष्यते? यस्मिन् मज्जनेनाहं मज्जिष्ये तन्मज्जने मज्जयितुं किं युवाभ्यां शक्ष्यते? तौ प्रत्यूचतुः शक्ष्यते।
39
तदा यीशुरवदत् येन कंसेनाहं पास्यामि तेनावश्यं युवामपि पास्यथः, येन मज्जनेन चाहं मज्जिय्ये तत्र युवामपि मज्जिष्येथे।
40
किन्तु येषामर्थम् इदं निरूपितं, तान् विहायान्यं कमपि मम दक्षिणपार्श्वे वामपार्श्वे वा समुपवेशयितुं ममाधिकारो नास्ति।
41
अथान्यदशशिष्या इमां कथां श्रुत्वा याकूब्योहन्भ्यां चुकुपुः।
42
किन्तु यीशुस्तान् समाहूय बभाषे, अन्यदेशीयानां राजत्वं ये कुर्व्वन्ति ते तेषामेव प्रभुत्वं कुर्व्वन्ति, तथा ये महालोकास्ते तेषाम् अधिपतित्वं कुर्व्वन्तीति यूयं जानीथ।
43
किन्तु युष्माकं मध्ये न तथा भविष्यति, युष्माकं मध्ये यः प्राधान्यं वाञ्छति स युष्माकं सेवको भविष्यति,
44
युष्माकं यो महान् भवितुमिच्छति स सर्व्वेषां किङ्करो भविष्यति।
45
यतो मनुष्यपुत्रः सेव्यो भवितुं नागतः सेवां कर्त्तां तथानेकेषां परित्राणस्य मूल्यरूपस्वप्राणं दातुञ्चागतः।
46
अथ ते यिरीहोनगरं प्राप्तास्तस्मात् शिष्यै र्लोकैश्च सह यीशो र्गमनकाले टीमयस्य पुत्रो बर्टीमयनामा अन्धस्तन्मार्गपार्श्वे भिक्षार्थम् उपविष्टः।
47
स नासरतीयस्य यीशोरागमनवार्त्तां प्राप्य प्रोचै र्वक्तुमारेभे, हे यीशो दायूदः सन्तान मां दयस्व।
48
ततोनेके लोका मौनीभवेति तं तर्जयामासुः, किन्तु स पुनरधिकमुच्चै र्जगाद, हे यीशो दायूदः सन्तान मां दयस्व।
49
तदा यीशुः स्थित्वा तमाह्वातुं समादिदेश, ततो लोकास्तमन्धमाहूय बभाषिरे, हे नर, स्थिरो भव, उत्तिष्ठ, स त्वामाह्वयति।
50
तदा स उत्तरीयवस्त्रं निक्षिप्य प्रोत्थाय यीशोः समीपं गतः।
51
ततो यीशुस्तमवदत् त्वया किं प्रार्थ्यते? तुभ्यमहं किं करिष्यामी? तदा सोन्धस्तमुवाच, हे गुरो मदीया दृष्टिर्भवेत्।
52
ततो यीशुस्तमुवाच याहि तव विश्वासस्त्वां स्वस्थमकार्षीत्, तस्मात् तत्क्षणं स दृष्टिं प्राप्य पथा यीशोः पश्चाद् ययौ।
← Chapter 9
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 11 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16