bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Mark 4
Mark 4
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 3
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 5 →
1
अनन्तरं स समुद्रतटे पुनरुपदेष्टुं प्रारेभे, ततस्तत्र बहुजनानां समागमात् स सागरोपरि नौकामारुह्य समुपविष्टः; सर्व्वे लोकाः समुद्रकूले तस्थुः।
2
तदा स दृष्टान्तकथाभि र्बहूपदिष्टवान् उपदिशंश्च कथितवान्,
3
अवधानं कुरुत, एको बीजवप्ता बीजानि वप्तुं गतः;
4
वपनकाले कियन्ति बीजानि मार्गपाश्वे पतितानि, तत आकाशीयपक्षिण एत्य तानि चखादुः।
5
कियन्ति बीजानि स्वल्पमृत्तिकावत्पाषाणभूमौ पतितानि तानि मृदोल्पत्वात् शीघ्रमङ्कुरितानि;
6
किन्तूदिते सूर्य्ये दग्धानि तथा मूलानो नाधोगतत्वात् शुष्काणि च।
7
कियन्ति बीजानि कण्टकिवनमध्ये पतितानि ततः कण्टकानि संवृद्व्य तानि जग्रसुस्तानि न च फलितानि।
8
तथा कियन्ति बीजान्युत्तमभूमौ पतितानि तानि संवृद्व्य फलान्युत्पादितानि कियन्ति बीजानि त्रिंशद्गुणानि कियन्ति षष्टिगुणानि कियन्ति शतगुणानि फलानि फलितवन्ति।
9
अथ स तानवदत् यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
10
तदनन्तरं निर्जनसमये तत्सङ्गिनो द्वादशशिष्याश्च तं तद्दृष्टान्तवाक्यस्यार्थं पप्रच्छुः।
11
तदा स तानुदितवान् ईश्वरराज्यस्य निगूढवाक्यं बोद्धुं युष्माकमधिकारोऽस्ति;
12
किन्तु ये वहिर्भूताः "ते पश्यन्तः पश्यन्ति किन्तु न जानन्ति, शृण्वन्तः शृण्वन्ति किन्तु न बुध्यन्ते, चेत्तै र्मनःसु कदापि परिवर्त्तितेषु तेषां पापान्यमोचयिष्यन्त," अतोहेतोस्तान् प्रति दृष्टान्तैरेव तानि मया कथितानि।
13
अथ स कथितवान् यूयं किमेतद् दृष्टान्तवाक्यं न बुध्यध्वे? तर्हि कथं सर्व्वान् दृष्टान्तान भोत्स्यध्वे?
14
बीजवप्ता वाक्यरूपाणि बीजानि वपति;
15
तत्र ये ये लोका वाक्यं शृण्वन्ति, किन्तु श्रुतमात्रात् शैतान् शीघ्रमागत्य तेषां मनःसूप्तानि तानि वाक्यरूपाणि बीजान्यपनयति तएव उप्तबीजमार्गपार्श्वेस्वरूपाः।
16
ये जना वाक्यं श्रुत्वा सहसा परमानन्देन गृह्लन्ति, किन्तु हृदि स्थैर्य्याभावात् किञ्चित् कालमात्रं तिष्ठन्ति तत्पश्चात् तद्वाक्यहेतोः
17
कुत्रचित् क्लेशे उपद्रवे वा समुपस्थिते तदैव विघ्नं प्राप्नुवन्ति तएव उप्तबीजपाषाणभूमिस्वरूपाः।
18
ये जनाः कथां शृण्वन्ति किन्तु सांसारिकी चिन्ता धनभ्रान्ति र्विषयलोभश्च एते सर्व्वे उपस्थाय तां कथां ग्रसन्ति ततः मा विफला भवति
19
तएव उप्तबीजसकण्टकभूमिस्वरूपाः।
20
ये जना वाक्यं श्रुत्वा गृह्लन्ति तेषां कस्य वा त्रिंशद्गुणानि कस्य वा षष्टिगुणानि कस्य वा शतगुणानि फलानि भवन्ति तएव उप्तबीजोर्व्वरभूमिस्वरूपाः।
21
तदा सोऽपरमपि कथितवान् कोपि जनो दीपाधारं परित्यज्य द्रोणस्याधः खट्वाया अधे वा स्थापयितुं दीपमानयति किं?
22
अतोहेतो र्यन्न प्रकाशयिष्यते तादृग् लुक्कायितं किमपि वस्तु नास्ति; यद् व्यक्तं न भविष्यति तादृशं गुप्तं किमपि वस्तु नास्ति।
23
यस्य श्रोतुं कर्णौ स्तः स शृणोतु।
24
अपरमपि कथितवान् यूयं यद् यद् वाक्यं शृणुथ तत्र सावधाना भवत, यतो यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मदर्थमपि परिमास्यते; श्रोतारो यूयं युष्मभ्यमधिकं दास्यते।
25
यस्याश्रये वर्द्धते तस्मै अपरमपि दास्यते, किन्तु यस्याश्रये न वर्द्धते तस्य यत् किञ्चिदस्ति तदपि तस्मान् नेष्यते।
26
अनन्तरं स कथितवान् एको लोकः क्षेत्रे बीजान्युप्त्वा
27
जागरणनिद्राभ्यां दिवानिशं गमयति, परन्तु तद्वीजं तस्याज्ञातरूपेणाङ्कुरयति वर्द्धते च;
28
यतोहेतोः प्रथमतः पत्राणि ततः परं कणिशानि तत्पश्चात् कणिशपूर्णानि शस्यानि भूमिः स्वयमुत्पादयति;
29
किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं।
30
पुनः सोऽकथयद् ईश्वरराज्यं केन समं? केन वस्तुना सह वा तदुपमास्यामि?
31
तत् सर्षपैकेन तुल्यं यतो मृदि वपनकाले सर्षपबीजं सर्व्वपृथिवीस्थबीजात् क्षुद्रं
32
किन्तु वपनात् परम् अङ्कुरयित्वा सर्व्वशाकाद् बृहद् भवति, तस्य बृहत्यः शाखाश्च जायन्ते ततस्तच्छायां पक्षिण आश्रयन्ते।
33
इत्थं तेषां बोधानुरूपं सोऽनेकदृष्टान्तैस्तानुपदिष्टवान्,
34
दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।
35
तद्दिनस्य सन्ध्यायां स तेभ्योऽकथयद् आगच्छत वयं पारं याम।
36
तदा ते लोकान् विसृज्य तमविलम्बं गृहीत्वा नौकया प्रतस्थिरे; अपरा अपि नावस्तया सह स्थिताः।
37
ततः परं महाझञ्भ्शगमात् नौ र्दोलायमाना तरङ्गेण जलैः पूर्णाभवच्च।
38
तदा स नौकाचश्चाद्भागे उपधाने शिरो निधाय निद्रित आसीत् ततस्ते तं जागरयित्वा जगदुः, हे प्रभो, अस्माकं प्राणा यान्ति किमत्र भवतश्चिन्ता नास्ति?
39
तदा स उत्थाय वायुं तर्जितवान् समुद्रञ्चोक्तवान् शान्तः सुस्थिरश्च भव; ततो वायौ निवृत्तेऽब्धिर्निस्तरङ्गोभूत्।
40
तदा स तानुवाच यूयं कुत एतादृक्शङ्काकुला भवत? किं वो विश्वासो नास्ति?
41
तस्मात्तेऽतीवभीताः परस्परं वक्तुमारेभिरे, अहो वायुः सिन्धुश्चास्य निदेशग्राहिणौ कीदृगयं मनुजः।
← Chapter 3
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 5 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16