bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Revelation 18
Revelation 18
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 17
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 19 →
1
तदनन्तरं स्वर्गाद् अवरोहन् अपर एको दूतो मया दृष्टः स महापराक्रमविशिष्टस्तस्य तेजसा च पृथिवी दीप्ता।
2
स बलवता स्वरेण वाचमिमाम् अघोषयत् पतिता पतिता महाबाबिल्, सा भूतानां वसतिः सर्व्वेषाम् अशुच्यात्मनां कारा सर्व्वेषाम् अशुचीनां घृण्यानाञ्च पक्षिणां पिञ्जरश्चाभवत्।
3
यतः सर्व्वजातीयास्तस्या व्यभिचारजातां कोपमदिरां पीतवन्तः पृथिव्या राजानश्च तया सह व्यभिचारं कृतवन्तः पृथिव्या वणिजश्च तस्याः सुखभोगबाहुल्याद् धनाढ्यतां गतवन्तः।
4
ततः परं स्वर्गात् मयापर एष रवः श्रुतः, हे मम प्रजाः, यूयं यत् तस्याः पापानाम् अंशिनो न भवत तस्या दण्डैश्च दण्डयुक्ता न भवत तदर्थं ततो निर्गच्छत।
5
यतस्तस्याः पापानि गगनस्पर्शान्यभवन् तस्या अधर्म्मक्रियाश्चेश्वरेण संस्मृताः।
6
परान् प्रति तया यद्वद् व्यवहृतं तद्वत् तां प्रति व्यवहरत, तस्याः कर्म्मणां द्विगुणफलानि तस्यै दत्त, यस्मिन् कंसे सा परान् मद्यम् अपाययत् तमेव तस्याः पानार्थं द्विगुणमद्येन पूरयत।
7
तया यात्मश्लाघा यश्च सुखभोगः कृतस्तयो र्द्विगुणौ यातनाशोकौ तस्यै दत्त, यतः सा स्वकीयान्तःकरणे वदति, राज्ञीवद् उपविष्टाहं नानाथा न च शोकवित्।
8
तस्माद् दिवस एकस्मिन् मारीदुर्भिक्षशोचनैः, सा समाप्लोष्यते नारी ध्यक्ष्यते वह्निना च सा; यद् विचाराधिपस्तस्या बलवान् प्रभुरीश्वरः,
9
व्यभिचारस्तया सार्द्धं सुखभोगश्च यैः कृतः, ते सर्व्व एव राजानस्तद्दाहधूमदर्शनात्, प्ररोदिष्यन्ति वक्षांसि चाहनिष्यन्ति बाहुभिः।
10
तस्यास्तै र्यातनाभीते र्दूरे स्थित्वेदमुच्यते, हा हा बाबिल् महास्थान हा प्रभावान्विते पुरि, एकस्मिन् आगता दण्डे विचाराज्ञा त्वदीयका।
11
मेदिन्या वणिजश्च तस्याः कृते रुदन्ति शोचन्ति च यतस्तेषां पण्यद्रव्याणि केनापि न क्रीयन्ते।
12
फलतः सुवर्णरौप्यमणिमुक्ताः सूक्ष्मवस्त्राणि कृष्णलोहितवासांसि पट्टवस्त्राणि सिन्दूरवर्णवासांसि चन्दनादिकाष्ठानि गजदन्तेन महार्घकाष्ठेन पित्तललौहाभ्यां मर्म्मरप्रस्तरेण वा निर्म्मितानि सर्व्वविधपात्राणि
13
त्वगेला धूपः सुगन्धिद्रव्यं गन्धरसो द्राक्षारसस्तैलं शस्यचूर्णं गोधूमो गावो मेषा अश्वा रथा दासेया मनुष्यप्राणाश्चैतानि पण्यद्रव्याणि केनापि न क्रीयन्ते।
14
तव मनोऽभिलाषस्य फलानां समयो गतः, त्वत्तो दूरीकृतं यद्यत् शोभनं भूषणं तव, कदाचन तदुद्देशो न पुन र्लप्स्यते त्वया।
15
तद्विक्रेतारो ये वणिजस्तया धनिनो जातास्ते तस्या यातनाया भयाद् दूरे तिष्ठनतो रोदिष्यन्ति शोचन्तश्चेदं गदिष्यन्ति
16
हा हा महापुरि, त्वं सूक्ष्मवस्त्रैः कृष्णलोहितवस्त्रैः सिन्दूरवर्णवासोभिश्चाच्छादिता स्वर्णमणिमुक्ताभिरलङ्कृता चासीः,
17
किन्त्वेकस्मिन् दण्डे सा महासम्पद् लुप्ता। अपरं पोतानां कर्णधाराः समूूहलोका नाविकाः समुद्रव्यवसायिनश्च सर्व्वे
18
दूरे तिष्ठन्तस्तस्या दाहस्य धूमं निरीक्षमाणा उच्चैःस्वरेण वदन्ति तस्या महानगर्य्याः किं तुल्यं?
19
अपरं स्वशिरःसु मृत्तिकां निक्षिप्य ते रुदन्तः शोचन्तश्चोच्चैःस्वरेणेदं वदन्ति हा हा यस्या महापुर्य्या बाहुल्यधनकारणात्, सम्पत्तिः सञ्चिता सर्व्वैः सामुद्रपोतनायकैः, एकस्मिन्नेव दण्डे सा सम्पूर्णोच्छिन्नतां गता।
20
हे स्वर्गवासिनः सर्व्वे पवित्राः प्रेरिताश्च हे। हे भाविवादिनो यूयं कृते तस्याः प्रहर्षत। युष्माकं यत् तया सार्द्धं यो विवादः पुराभवत्। दण्डं समुचितं तस्य तस्यै व्यतरदीश्वरः॥
21
अनन्तरम् एको बलवान् दूतो बृहत्पेषणीप्रस्तरतुल्यं पाषाणमेकं गृहीत्वा समुद्रे निक्षिप्य कथितवान्, ईदृग्बलप्रकाशेन बाबिल् महानगरी निपातयिष्यते ततस्तस्या उद्देशः पुन र्न लप्स्यते।
22
वल्लकीवादिनां शब्दं पुन र्न श्रोष्यते त्वयि। गाथाकानाञ्च शब्दो वा वंशीतूर्य्यादिवादिनां। शिल्पकर्म्मकरः को ऽपि पुन र्न द्रक्ष्यते त्वयि। पेषणीप्रस्तरध्वानः पुन र्न श्रोष्यते त्वयि।
23
दीपस्यापि प्रभा तद्वत् पुन र्न द्रक्ष्यते त्वयि। न कन्यावरयोः शब्दः पुनः संश्रोष्यते त्वयि। यस्मान्मुख्याः पृथिव्या ये वणिजस्तेऽभवन् तव। यस्माच्च जातयः सर्व्वा मोहितास्तव मायया।
24
भाविवादिपवित्राणां यावन्तश्च हता भुवि। सर्व्वेषां शोणितं तेषां प्राप्तं सर्व्वं तवान्तरे॥
← Chapter 17
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 19 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22