bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Revelation 9
Revelation 9
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 8
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 10 →
1
ततः परं सप्तमदूतेन तूर्य्यां वादितायां गगनात् पृथिव्यां निपतित एकस्तारको मया दृष्टः, तस्मै रसातलकूपस्य कुञ्जिकादायि।
2
तेन रसातलकूपे मुक्ते महाग्निकुण्डस्य धूम इव धूमस्तस्मात् कूपाद् उद्गतः। तस्मात् कूपधूमात् सूर्य्याकाशौ तिमिरावृतौ।
3
तस्माद् धूमात् पतङ्गेषु पृथिव्यां निर्गतेषु नरलोकस्थवृश्चिकवत् बलं तेभ्योऽदायि।
4
अपरं पृथिव्यास्तृणानि हरिद्वर्णशाकादयो वृक्षाश्च तै र्न सिंहितव्याः किन्तु येषां भालेष्वीश्वरस्य मुद्राया अङ्को नास्ति केवलं ते मानवास्तै र्हिंसितव्या इदं त आदिष्टाः।
5
परन्तु तेषां बधाय नहि केवलं पञ्च मासान् यावत् यातनादानाय तेभ्यः सामर्थ्यमदायि। वृश्चिकेन दष्टस्य मानवस्य यादृशी यातना जायते तैरपि तादृशी यातना प्रदीयते।
6
तस्मिन् समये मानवा मृत्युं मृगयिष्यन्ते किन्तु प्राप्तुं न शक्ष्यन्ति, ते प्राणान् त्यक्तुम् अभिलषिष्यन्ति किन्तु मृत्युस्तेभ्यो दूरं पलायिष्यते।
7
तेषां पतङ्गानाम् आकारो युद्धार्थं सुसज्जितानाम् अश्वानाम् आकारस्य तुल्यः, तेषां शिरःसु सुवर्णकिरीटानीव किरीटानि विद्यन्ते, मुखमण्डलानि च मानुषिकमुखतुल्यानि,
8
केशाश्च योषितां केशानां सदृशाः, दन्ताश्च सिंहदन्ततुल्याः,
9
लौहकवचवत् तेषां कवचानि सन्ति, तेषां पक्षाणां शब्दो रणाय धावतामश्वरथानां समूहस्य शब्दतुल्यः।
10
वृश्चिकानामिव तेषां लाङ्गूलानि सन्ति, तेषु लाङ्गूलेषु कण्टकानि विद्यन्ते, अपरं पञ्च मासान् यावत् मानवानां हिंसनाय ते सामर्थ्यप्राप्ताः।
11
तेषां राजा च रसातलस्य दूतस्तस्य नाम इब्रीयभाषया अबद्दोन् यूनानीयभाषया च अपल्लुयोन् अर्थतो विनाशक इति।
12
प्रथमः सन्तापो गतवान् पश्य इतः परमपि द्वाभ्यां सन्तापाभ्याम् उपस्थातव्यं।
13
ततः परं षष्ठदूतेन तूर्य्यां वादितायाम् ईश्वरस्यान्तिके स्थितायाः सुवर्णवेद्याश्चतुश्चूडातः कस्यचिद् रवो मयाश्रावि।
14
स तूरीधारिणं षष्ठदूतम् अवदत्, फराताख्ये महानदे ये चत्वारो दूता बद्धाः सन्ति तान् मोचय।
15
ततस्तद्दण्डस्य तद्दिनस्य तन्मासस्य तद्वत्सरस्य च कृते निरूपितास्ते चत्वारो दूता मानवानां तृतीयांशस्य बधार्थं मोचिताः।
16
अपरम् अश्वारोहिसैन्यानां संख्या मयाश्रावि, ते विंशतिकोटय आसन्।
17
मया ये ऽश्वा अश्वारोहिणश्च दृष्टास्त एतादृशाः, तेषां वह्निस्वरूपाणि नीलप्रस्तरस्वरूपाणि गन्धकस्वरूपाणि च वर्म्माण्यासन्, वाजिनाञ्च सिंहमूर्द्धसदृशा मूर्द्धानः, तेषां मुखेभ्यो वह्निधूमगन्धका निर्गच्छन्ति।
18
एतैस्त्रिभि र्दण्डैरर्थतस्तेषां मुखेभ्यो निर्गच्छद्भि र्वह्निधूमगन्धकै र्मानुषाणां तुतीयांशो ऽघानि।
19
तेषां वाजिनां बलं मुखेषु लाङ्गूलेषु च स्थितं, यतस्तेषां लाङ्गूलानि सर्पाकाराणि मस्तकविशिष्टानि च तैरेव ते हिंसन्ति।
20
अपरम् अवशिष्टा ये मानवा तै र्दण्डै र्न हतास्ते यथा दृष्टिश्रवणगमनशक्तिहीनान् स्वर्णरौप्यपित्तलप्रस्तरकाष्ठमयान् विग्रहान् भूतांश्च न पूजयिष्यन्ति तथा स्वहस्तानां क्रियाभ्यः स्वमनांसि न परावर्त्तितवन्तः
21
स्वबधकुहकव्यभिचारचौर्य्योभ्यो ऽपि मनांसि न परावर्त्तितवन्तः।
← Chapter 8
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 10 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22