bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Revelation 4
Revelation 4
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 3
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 5 →
1
ततः परं मया दृष्टिपातं कृत्वा स्वर्गे मुक्तं द्वारम् एकं दृष्टं मया सहभाषमाणस्य च यस्य तूरीवाद्यतुल्यो रवः पूर्व्वं श्रुतः स माम् अवोचत् स्थानमेतद् आरोहय, इतः परं येन येन भवितव्यं तदहं त्वां दर्शयिष्ये।
2
तेनाहं तत्क्षणाद् आत्माविष्टो भूत्वा ऽपश्यं स्वर्गे सिंहासनमेकं स्थापितं तत्र सिंहासने एको जन उपविष्टो ऽस्ति।
3
सिंहासने उपविष्टस्य तस्य जनस्य रूपं सूर्य्यकान्तमणेः प्रवालस्य च तुल्यं तत् सिंहासनञ्च मरकतमणिवद्रूपविशिष्टेन मेघधनुषा वेष्टितं।
4
तस्य सिंहासने चतुर्दिक्षु चतुर्विंशतिसिंहासनानि तिष्ठन्ति तेषु सिंहासनेषु चतुर्विंशति प्राचीनलोका उपविष्टास्ते शुभ्रवासःपरिहितास्तेषां शिरांसि च सुवर्णकिरीटै र्भूषितानि।
5
तस्य सिंहासनस्य मध्यात् तडितो रवाः स्तनितानि च निर्गच्छन्ति सिंहासनस्यान्तिके च सप्त दीपा ज्वलन्ति त ईश्वरस्य सप्तात्मानः।
6
अपरं सिंहासनस्यान्तिके स्फटिकतुल्यः काचमयो जलाशयो विद्यते, अपरम् अग्रतः पश्चाच्च बहुचक्षुष्मन्तश्चत्वारः प्राणिनः सिंहसनस्य मध्ये चतुर्दिक्षु च विद्यन्ते।
7
तेषां प्रथमः प्राणी सिंहाकारो द्वितीयः प्राणी गोवात्साकारस्तृतीयः प्राणी मनुष्यवद्वदनविशिष्टश्चतुर्थश्च प्राणी उड्डीयमानकुररोपमः।
8
तेषां चतुर्णाम् एकैकस्य प्राणिनः षट् पक्षाः सन्ति ते च सर्व्वाङ्गेष्वभ्यन्तरे च बहुचक्षुर्विशिष्टाः, ते दिवानिशं न विश्राम्य गदन्ति पवित्रः पवित्रः पवित्रः सर्व्वशक्तिमान् वर्त्तमानो भूतो भविष्यंश्च प्रभुः परमेश्वरः।
9
इत्थं तैः प्राणिभिस्तस्यानन्तजीविनः सिंहासनोपविष्टस्य जनस्य प्रभावे गौरवे धन्यवादे च प्रकीर्त्तिते
10
ते चतुर्विंशतिप्राचीना अपि तस्य सिंहासनोपविष्टस्यान्तिके प्रणिनत्य तम् अनन्तजीविनं प्रणमन्ति स्वीयकिरीटांश्च सिंहासनस्यान्तिके निक्षिप्य वदन्ति,
11
हे प्रभो ईश्वरास्माकं प्रभावं गौरवं बलं। त्वमेवार्हसि सम्प्राप्तुं यत् सर्व्वं ससृजे त्वया। तवाभिलाषतश्चैव सर्व्वं सम्भूय निर्म्ममे॥
← Chapter 3
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 5 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22