bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Luke 2
Luke 2
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 1
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 3 →
1
अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास।
2
तदनुसारेण कुरीणियनामनि सुरियादेशस्य शासके सति नामलेखनं प्रारेभे।
3
अतो हेतो र्नाम लेखितुं सर्व्वे जनाः स्वीयं स्वीयं नगरं जग्मुः।
4
तदानीं यूषफ् नाम लेखितुं वाग्दत्तया स्वभार्य्यया गर्ब्भवत्या मरियमा सह स्वयं दायूदः सजातिवंश इति कारणाद् गालील्प्रदेशस्य नासरत्नगराद्
5
यिहूदाप्रदेशस्य बैत्लेहमाख्यं दायूद्नगरं जगाम।
6
अन्यच्च तत्र स्थाने तयोस्तिष्ठतोः सतो र्मरियमः प्रसूतिकाल उपस्थिते
7
सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।
8
अनन्तरं ये कियन्तो मेषपालकाः स्वमेषव्रजरक्षायै तत्प्रदेशे स्थित्वा रजन्यां प्रान्तरे प्रहरिणः कर्म्म कुर्व्वन्ति,
9
तेषां समीपं परमेश्वरस्य दूत आगत्योपतस्थौ; तदा चतुष्पार्श्वे परमेश्वरस्य तेजसः प्रकाशितत्वात् तेऽतिशशङ्किरे।
10
तदा स दूत उवाच मा भैष्ट पश्यताद्य दायूदः पुरे युष्मन्निमित्तं त्राता प्रभुः ख्रीष्टोऽजनिष्ट,
11
सर्व्वेषां लोकानां महानन्दजनकम् इमं मङ्गलवृत्तान्तं युष्मान् ज्ञापयामि।
12
यूयं (तत्स्थानं गत्वा) वस्त्रवेष्टितं तं बालकं गोशालायां शयनं द्रक्ष्यथ युष्मान् प्रतीदं चिह्नं भविष्यति।
13
दूत इमां कथां कथितवति तत्राकस्मात् स्वर्गीयाः पृतना आगत्य कथाम् इमां कथयित्वेश्वरस्य गुणानन्ववादिषुः, यथा,
14
सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥
15
ततः परं तेषां सन्निधे र्दूतगणे स्वर्गं गते मेषपालकाः परस्परम् अवेचन् आगच्छत प्रभुः परमेश्वरो यां घटनां ज्ञापितवान् तस्या याथर्यं ज्ञातुं वयमधुना बैत्लेहम्पुरं यामः।
16
पश्चात् ते तूर्णं व्रजित्वा मरियमं यूषफं गोशालायां शयनं बालकञ्च ददृशुः।
17
इत्थं दृष्ट्वा बालकस्यार्थे प्रोक्तां सर्व्वकथां ते प्राचारयाञ्चक्रुः।
18
ततो ये लोका मेषरक्षकाणां वदनेभ्यस्तां वार्त्तां शुश्रुवुस्ते महाश्चर्य्यं मेनिरे।
19
किन्तु मरियम् एतत्सर्व्वघटनानां तात्पर्य्यं विविच्य मनसि स्थापयामास।
20
तत्पश्चाद् दूतविज्ञप्तानुरूपं श्रुत्वा दृष्ट्वा च मेषपालका ईश्वरस्य गुणानुवादं धन्यवादञ्च कुर्व्वाणाः परावृत्य ययुः।
21
अथ बालकस्य त्वक्छेदनकालेऽष्टमदिवसे समुपस्थिते तस्य गर्ब्भस्थितेः पुर्व्वं स्वर्गीयदूतो यथाज्ञापयत् तदनुरूपं ते तन्नामधेयं यीशुरिति चक्रिरे।
22
ततः परं मूसालिखितव्यवस्थाया अनुसारेण मरियमः शुचित्वकाल उपस्थिते,
23
"प्रथमजः सर्व्वः पुरुषसन्तानः परमेश्वरे समर्प्यतां," इति परमेश्वरस्य व्यवस्थया
24
यीशुं परमेश्वरे समर्पयितुम् शास्त्रीयविध्युक्तं कपोतद्वयं पारावतशावकद्वयं वा बलिं दातुं ते तं गृहीत्वा यिरूशालमम् आययुः।
25
यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ किञ्च पवित्र आत्मा तस्मिन्नाविर्भूतः।
26
अपरं प्रभुणा परमेश्वरेणाभिषिक्ते त्रातरि त्वया न दृष्टे त्वं न मरिष्यसीति वाक्यं पवित्रेण आत्मना तस्म प्राकथ्यत।
27
अपरञ्च यदा यीशोः पिता माता च तदर्थं व्यवस्थानुरूपं कर्म्म कर्त्तुं तं मन्दिरम् आनिन्यतुस्तदा
28
शिमियोन् आत्मन आकर्षणेन मन्दिरमागत्य तं क्रोडे निधाय ईश्वरस्य धन्यवादं कृत्वा कथयामास, यथा,
29
हे प्रभो तव दासोयं निजवाक्यानुसारतः। इदानीन्तु सकल्याणो भवता संविसृज्यताम्।
30
यतः सकलदेशस्य दीप्तये दीप्तिरूपकं।
31
इस्रायेलीयलोकस्य महागौरवरूपकं।
32
यं त्रायकं जनानान्तु सम्मुखे त्वमजीजनः। सएव विद्यतेऽस्माकं ध्रवं नयननगोचरे॥
33
तदानीं तेनोक्ता एताः सकलाः कथाः श्रुत्वा तस्य माता यूषफ् च विस्मयं मेनाते।
34
ततः परं शिमियोन् तेभ्य आशिषं दत्त्वा तन्मातरं मरियमम् उवाच, पश्य इस्रायेलो वंशमध्ये बहूनां पातनायोत्थापनाय च तथा विरोधपात्रं भवितुं, बहूनां गुप्तमनोगतानां प्रकटीकरणाय बालकोयं नियुक्तोस्ति।
35
तस्मात् तवापि प्राणाः शूलेन व्यत्स्यन्ते।
36
अपरञ्च आशेरस्य वंशीयफिनूयेलो दुहिता हन्नाख्या अतिजरती भविष्यद्वादिन्येका या विवाहात् परं सप्त वत्सरान् पत्या सह न्यवसत् ततो विधवा भूत्वा चतुरशीतिवर्षवयःपर्य्यनतं
37
मन्दिरे स्थित्वा प्रार्थनोपवासैर्दिवानिशम् ईश्वरम् असेवत सापि स्त्री तस्मिन् समये मन्दिरमागत्य
38
परमेश्वरस्य धन्यवादं चकार, यिरूशालम्पुरवासिनो यावन्तो लोका मुक्तिमपेक्ष्य स्थितास्तान् यीशोर्वृत्तान्तं ज्ञापयामास।
39
इत्थं परमेश्वरस्य व्यवस्थानुसारेण सर्व्वेषु कर्म्मसु कृतेषु तौ पुनश्च गालीलो नासरत्नामकं निजनगरं प्रतस्थाते।
40
तत्पश्चाद् बालकः शरीरेण वृद्धिमेत्य ज्ञानेन परिपूर्ण आत्मना शक्तिमांश्च भवितुमारेभे तथा तस्मिन् ईश्वरानुग्रहो बभूव।
41
तस्य पिता माता च प्रतिवर्षं निस्तारोत्सवसमये यिरूशालमम् अगच्छताम्।
42
अपरञ्च यीशौ द्वादशवर्षवयस्के सति तौ पर्व्वसमयस्य रीत्यनुसारेण यिरूशालमं गत्वा
43
पार्व्वणं सम्पाद्य पुनरपि व्याघुय्य यातः किन्तु यीशुर्बालको यिरूशालमि तिष्ठति। यूषफ् तन्माता च तद् अविदित्वा
44
स सङ्गिभिः सह विद्यत एतच्च बुद्व्वा दिनैकगम्यमार्गं जग्मतुः। किन्तु शेषे ज्ञातिबन्धूनां समीपे मृगयित्वा तदुद्देेशमप्राप्य
45
तौ पुनरपि यिरूशालमम् परावृत्यागत्य तं मृगयाञ्चक्रतुः।
46
अथ दिनत्रयात् परं पण्डितानां मध्ये तेषां कथाः शृण्वन् तत्त्वं पृच्छंश्च मन्दिरे समुपविष्टः स ताभ्यां दृष्टः।
47
तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते।
48
तादृशं दृष्ट्वा तस्य जनको जननी च चमच्चक्रतुः किञ्च तस्य माता तमवदत्, हे पुत्र, कथमावां प्रतीत्थं समाचरस्त्वम्? पश्य तव पिताहञ्च शोकाकुलौ सन्तौ त्वामन्विच्छावः स्म।
49
ततः सोवदत् कुतो माम् अन्वैच्छतं? पितुर्गृहे मया स्थातव्यम् एतत् किं युवाभ्यां न ज्ञायते?
50
किन्तु तौ तस्यैतद्वाक्यस्य तात्पर्य्यं बोद्धुं नाशक्नुतां।
51
ततः परं स ताभ्यां सह नासरतं गत्वा तयोर्वशीभूतस्तस्थौ किन्तु सर्व्वा एताः कथास्तस्य माता मनसि स्थापयामास।
52
अथ यीशो र्बुद्धिः शरीरञ्च तथा तस्मिन् ईश्वरस्य मानवानाञ्चानुग्रहो वर्द्धितुम् आरेभे।
← Chapter 1
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 3 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24