bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Luke 5
Luke 5
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 4
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 6 →
1
अनन्तरं यीशुरेकदा गिनेषरत्ह्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः।
2
तदानीं स ह्दस्य तीरसमीपे नौद्वयं ददर्श किञ्च मत्स्योपजीविनो नावं विहाय जालं प्रक्षालयन्ति।
3
ततस्तयोर्द्वयो र्मध्ये शिमोनो नावमारुह्य तीरात् किञ्चिद्दूरं यातुं तस्मिन् विनयं कृत्वा नौकायामुपविश्य लोकान् प्रोपदिष्टवान्।
4
पश्चात् तं प्रस्तावं समाप्य स शिमोनं व्याजहार, गभीरं जलं गत्वा मत्स्यान् धर्त्तुं जालं निक्षिप।
5
ततः शिमोन बभाषे, हे गुरो यद्यपि वयं कृत्स्नां यामिनीं परिश्रम्य मत्स्यैकमपि न प्राप्तास्तथापि भवतो निदेशतो जालं क्षिपामः।
6
अथ जाले क्षिप्ते बहुमत्स्यपतनाद् आनायः प्रच्छिन्नः।
7
तस्माद् उपकर्त्तुम् अन्यनौस्थान् सङ्गिन आयातुम् इङ्गितेन समाह्वयन् ततस्त आगत्य मत्स्यै र्नौद्वयं प्रपूरयामासु र्यै र्नौद्वयं प्रमग्नम्।
8
तदा शिमोन्पितरस्तद् विलोक्य यीशोश्चरणयोः पतित्वा, हे प्रभोहं पापी नरो मम निकटाद् भवान् यातु, इति कथितवान्।
9
यतो जाले पतितानां मत्स्यानां यूथात् शिमोन् तत्सङ्गिनश्च चमत्कृतवन्तः; शिमोनः सहकारिणौ सिवदेः पुत्रौ याकूब् योहन् चेमौ तादृशौ बभूवतुः।
10
तदा यीशुः शिमोनं जगाद मा भैषीरद्यारभ्य त्वं मनुष्यधरो भविष्यसि।
11
अनन्तरं सर्व्वासु नौसु तीरम् आनीतासु ते सर्व्वान् परित्यज्य तस्य पश्चाद्गामिनो बभूवुः।
12
ततः परं यीशौ कस्मिंश्चित् पुरे तिष्ठति जन एकः सर्व्वाङ्गकुष्ठस्तं विलोक्य तस्य समीपे न्युब्जः पतित्वा सविनयं वक्तुमारेभे, हे प्रभो यदि भवानिच्छति तर्हि मां परिष्कर्त्तुं शक्नोति।
13
तदानीं स पाणिं प्रसार्य्य तदङ्गं स्पृशन् बभाषे त्वं परिष्क्रियस्वेति ममेच्छास्ति ततस्तत्क्षणं स कुष्ठात् मुक्तः।
14
पश्चात् स तमाज्ञापयामास कथामिमां कस्मैचिद् अकथयित्वा याजकस्य समीपञ्च गत्वा स्वं दर्शय, लोकेभ्यो निजपरिष्कृतत्वस्य प्रमाणदानाय मूसाज्ञानुसारेण द्रव्यमुत्मृजस्व च।
15
तथापि यीशोः सुख्याति र्बहु व्याप्तुमारेभे किञ्च तस्य कथां श्रोतुं स्वीयरोगेभ्यो मोक्तुञ्च लोका आजग्मुः।
16
अथ स प्रान्तरं गत्वा प्रार्थयाञ्चक्रे।
17
अपरञ्च एकदा यीशुरुपदिशति, एतर्हि गालील्यिहूदाप्रदेशयोः सर्व्वनगरेभ्यो यिरूशालमश्च कियन्तः फिरूशिलोका व्यवस्थापकाश्च समागत्य तदन्तिके समुपविविशुः, तस्मिन् काले लोकानामारोग्यकारणात् प्रभोः प्रभावः प्रचकाशे।
18
पश्चात् कियन्तो लोका एकं पक्षाघातिनं खट्वायां निधाय यीशोः समीपमानेतुं सम्मुखे स्थापयितुञ्च व्याप्रियन्त।
19
किन्तु बहुजननिवहसम्वाधात् न शक्नुवन्तो गृहोपरि गत्वा गृहपृष्ठं खनित्वा तं पक्षाघातिनं सखट्वं गृहमध्ये यीशोः सम्मुखे ऽवरोहयामासुः।
20
तदा यीशुस्तेषाम् ईदृशं विश्वासं विलोक्य तं पक्षाघातिनं व्याजहार, हे मानव तव पापमक्षम्यत।
21
तस्माद् अध्यापकाः फिरूशिनश्च चित्तैरित्थं प्रचिन्तितवन्तः, एष जन ईश्वरं निन्दति कोयं? केवलमीश्वरं विना पापं क्षन्तुं कः शक्नोति?
22
तदा यीशुस्तेषाम् इत्थं चिन्तनं विदित्वा तेभ्योकथयद् यूयं मनोभिः कुतो वितर्कयथ?
23
तव पापक्षमा जाता यद्वा त्वमुत्थाय व्रज एतयो र्मध्ये का कथा सुकथ्या?
24
किन्तु पृथिव्यां पापं क्षन्तुं मानवसुतस्य सामर्थ्यमस्तीति यथा यूयं ज्ञातुं शक्नुथ तदर्थं (स तं पक्षाघातिनं जगाद) उत्तिष्ठ स्वशय्यां गृहीत्वा गृहं याहीति त्वामादिशामि।
25
तस्मात् स तत्क्षणम् उत्थाय सर्व्वेषां साक्षात् निजशयनीयं गृहीत्वा ईश्वरं धन्यं वदन् निजनिवेशनं ययौ।
26
तस्मात् सर्व्वे विस्मय प्राप्ता मनःसु भीताश्च वयमद्यासम्भवकार्य्याण्यदर्शाम इत्युक्त्वा परमेश्वरं धन्यं प्रोदिताः।
27
ततः परं बहिर्गच्छन् करसञ्चयस्थाने लेविनामानं करसञ्चायकं दृष्ट्वा यीशुस्तमभिदधे मम पश्चादेहि।
28
तस्मात् स तत्क्षणात् सर्व्वं परित्यज्य तस्य पश्चादियाय।
29
अनन्तरं लेवि र्निजगृहे तदर्थं महाभोज्यं चकार, तदा तैः सहानेके करसञ्चायिनस्तदन्यलोकाश्च भोक्तुमुपविविशुः।
30
तस्मात् कारणात् चण्डालानां पापिलोकानाञ्च सङ्गे यूयं कुतो भंग्ध्वे पिवथ चेति कथां कथयित्वा फिरूशिनोऽध्यापकाश्च तस्य शिष्यैः सह वाग्युद्धं कर्त्तुमारेभिरे।
31
तस्माद् यीशुस्तान् प्रत्यवोचद् अरोगलोकानां चिकित्सकेन प्रयोजनं नास्ति किन्तु सरोगाणामेव।
32
अहं धार्म्मिकान् आह्वातुं नागतोस्मि किन्तु मनः परावर्त्तयितुं पापिन एव।
33
ततस्ते प्रोचुः, योहनः फिरूशिनाञ्च शिष्या वारंवारम् उपवसन्ति प्रार्थयन्ते च किन्तु तव शिष्याः कुतो भुञ्जते पिवन्ति च?
34
तदा स तानाचख्यौ वरे सङ्गे तिष्ठति वरस्य सखिगणं किमुपवासयितुं शक्नुथ?
35
किन्तु यदा तेषां निकटाद् वरो नेष्यते तदा ते समुपवत्स्यन्ति।
36
सोपरमपि दृष्टान्तं कथयाम्बभूव पुरातनवस्त्रे कोपि नुतनवस्त्रं न सीव्यति यतस्तेन सेवनेन जीर्णवस्त्रं छिद्यते, नूतनपुरातनवस्त्रयो र्मेलञ्च न भवति।
37
पुरातन्यां कुत्वां कोपि नुतनं द्राक्षारसं न निदधाति, यतो नवीनद्राक्षारसस्य तेजसा पुरातनी कुतू र्विदीर्य्यते ततो द्राक्षारसः पतति कुतूश्च नश्यति।
38
ततो हेतो र्नूतन्यां कुत्वां नवीनद्राक्षारसः निधातव्यस्तेनोभयस्य रक्षा भवति।
39
अपरञ्च पुरातनं द्राक्षारसं पीत्वा कोपि नूतनं न वाञ्छति, यतः स वक्ति नूतनात् पुरातनम् प्रशस्तम्।
← Chapter 4
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 6 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24