bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Luke 7
Luke 7
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 6
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 8 →
1
ततः परं स लोकानां कर्णगोचरे तान् सर्व्वान् उपदेशान् समाप्य यदा कफर्नाहूम्पुरं प्रविशति
2
तदा शतसेनापतेः प्रियदास एको मृतकल्पः पीडित आसीत्।
3
अतः सेनापति र्यीशो र्वार्त्तां निशम्य दासस्यारोग्यकरणाय तस्यागमनार्थं विनयकरणाय यिहूदीयान् कियतः प्राचः प्रेषयामास।
4
ते यीशोरन्तिकं गत्वा विनयातिशयं वक्तुमारेभिरे, स सेनापति र्भवतोनुग्रहं प्राप्तुम् अर्हति।
5
यतः सोस्मज्जातीयेषु लोकेषु प्रीयते तथास्मत्कृते भजनगेहं निर्म्मितवान्।
6
तस्माद् यीशुस्तैः सह गत्वा निवेशनस्य समीपं प्राप, तदा स शतसेनापति र्वक्ष्यमाणवाक्यं तं वक्तुं बन्धून् प्राहिणोत्। हे प्रभो स्वयं श्रमो न कर्त्तव्यो यद् भवता मद्गेहमध्ये पादार्पणं क्रियेत तदप्यहं नार्हामि,
7
किञ्चाहं भवत्समीपं यातुमपि नात्मानं योग्यं बुद्धवान्, ततो भवान् वाक्यमात्रं वदतु तेनैव मम दासः स्वस्थो भविष्यति।
8
यस्माद् अहं पराधीनोपि ममाधीना याः सेनाः सन्ति तासाम् एकजनं प्रति याहीति मया प्रोक्ते स याति; तदन्यं प्रति आयाहीति प्रोक्ते स आयाति; तथा निजदासं प्रति एतत् कुर्व्विति प्रोक्ते स तदेव करोति।
9
यीशुरिदं वाक्यं श्रुत्वा विस्मयं ययौ, मुखं परावर्त्य पश्चाद्वर्त्तिनो लोकान् बभाषे च, युष्मानहं वदामि इस्रायेलो वंशमध्येपि विश्वासमीदृशं न प्राप्नवं।
10
ततस्ते प्रेषिता गृहं गत्वा तं पीडितं दासं स्वस्थं ददृशुः।
11
परेऽहनि स नायीनाख्यं नगरं जगाम तस्यानेके शिष्या अन्ये च लोकास्तेन सार्द्धं ययुः।
12
तेषु तन्नगरस्य द्वारसन्निधिं प्राप्तेषु कियन्तो लोका एकं मृतमनुजं वहन्तो नगरस्य बहिर्यान्ति, स तन्मातुरेकपुत्रस्तन्माता च विधवा; तया सार्द्धं तन्नगरीया बहवो लोका आसन्।
13
प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;
14
तदा स उवाच हे युवमनुष्य त्वमुत्तिष्ठ, त्वामहम् आज्ञापयामि।
15
तस्मात् स मृतो जनस्तत्क्षणमुत्थाय कथां प्रकथितः; ततो यीशुस्तस्य मातरि तं समर्पयामास।
16
तस्मात् सर्व्वे लोकाः शशङ्किरे; एको महाभविष्यद्वादी मध्येऽस्माकम् समुदैत्, ईश्वरश्च स्वलोकानन्वगृह्लात् कथामिमां कथयित्वा ईश्वरं धन्यं जगदुः।
17
ततः परं समस्तं यिहूदादेशं तस्य चतुर्दिक्स्थदेशञ्च तस्यैतत्कीर्त्ति र्व्यानशे।
18
ततः परं योहनः शिष्येषु तं तद्वृत्तान्तं ज्ञापितवत्सु
19
स स्वशिष्याणां द्वौ जनावाहूय यीशुं प्रति वक्ष्यमाणं वाक्यं वक्तुं प्रेषयामास, यस्यागमनम् अपेक्ष्य तिष्ठामो वयं किं स एव जनस्त्वं? किं वयमन्यमपेक्ष्य स्थास्यामः?
20
पश्चात्तौ मानवौ गत्वा कथयामासतुः, यस्यागमनम् अपेक्ष्य तिष्ठामो वयं, किं सएव जनस्त्वं? किं वयमन्यमपेक्ष्य स्थास्यामः? कथामिमां तुभ्यं कथयितुं योहन् मज्जक आवां प्रेषितवान्।
21
तस्मिन् दण्डे यीशूरोगिणो महाव्याधिमतो दुष्टभूतग्रस्तांश्च बहून् स्वस्थान् कृत्वा, अनेकान्धेभ्यश्चक्षुंषि दत्त्वा प्रत्युवाच,
22
युवां व्रजतम् अन्धा नेत्राणि खञ्जाश्चरणानि च प्राप्नुवन्ति, कुष्ठिनः परिष्क्रियन्ते, बधिराः श्रवणानि मृताश्च जीवनानि प्राप्नुवन्ति, दरिद्राणां समीपेषु सुसंवादः प्रचार्य्यते, यं प्रति विघ्नस्वरूपोहं न भवामि स धन्यः,
23
एतानि यानि पश्यथः शृणुथश्च तानि योहनं ज्ञापयतम्।
24
तयो र्दूतयो र्गतयोः सतो र्योहनि स लोकान् वक्तुमुपचक्रमे, यूयं मध्येप्रान्तरं किं द्रष्टुं निरगमत? किं वायुना कम्पितं नडं?
25
यूयं किं द्रष्टुं निरगमत? किं सूक्ष्मवस्त्रपरिधायिनं कमपि नरं? किन्तु ये सूक्ष्ममृदुवस्त्राणि परिदधति सूत्तमानि द्रव्याणि भुञ्जते च ते राजधानीषु तिष्ठन्ति।
26
तर्हि यूयं किं द्रष्टुं निरगमत? किमेकं भविष्यद्वादिनं? तदेव सत्यं किन्तु स पुमान् भविष्यद्वादिनोपि श्रेष्ठ इत्यहं युष्मान् वदामि;
27
पश्य स्वकीयदूतन्तु तवाग्र प्रेषयाम्यहं। गत्वा त्वदीयमार्गन्तु स हि परिष्करिष्यति। यदर्थे लिपिरियम् आस्ते स एव योहन्।
28
अतो युष्मानहं वदामि स्त्रिया गर्ब्भजातानां भविष्यद्वादिनां मध्ये योहनो मज्जकात् श्रेष्ठः कोपि नास्ति, तत्रापि ईश्वरस्य राज्ये यः सर्व्वस्मात् क्षुद्रः स योहनोपि श्रेष्ठः।
29
अपरञ्च सर्व्वे लोकाः करमञ्चायिनश्च तस्य वाक्यानि श्रुत्वा योहना मज्जनेन मज्जिताः परमेश्वरं निर्दोषं मेनिरे।
30
किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्।
31
अथ प्रभुः कथयामास, इदानीन्तनजनान् केनोपमामि? ते कस्य सदृशाः?
32
ये बालका विपण्याम् उपविश्य परस्परम् आहूय वाक्यमिदं वदन्ति, वयं युष्माकं निकटे वंशीरवादिष्म, किन्तु यूयं नानर्त्तिष्ट, वयं युष्माकं निकट अरोदिष्म, किन्तु युयं न व्यलपिष्ट, बालकैरेतादृशैस्तेषाम् उपमा भवति।
33
यतो योहन् मज्जक आगत्य पूपं नाखादत् द्राक्षारसञ्च नापिवत् तस्माद् यूयं वदथ, भूतग्रस्तोयम्।
34
ततः परं मानवसुत आगत्याखाददपिवञ्च तस्माद् यूयं वदथ, खादकः सुरापश्चाण्डालपापिनां बन्धुरेको जनो दृश्यताम्।
35
किन्तु ज्ञानिनो ज्ञानं निर्दोषं विदुः।
36
पश्चादेकः फिरूशी यीशुं भोजनाय न्यमन्त्रयत् ततः स तस्य गृहं गत्वा भोक्तुमुपविष्टः।
37
एतर्हि तत्फिरूशिनो गृहे यीशु र्भेक्तुम् उपावेक्षीत् तच्छ्रुत्वा तन्नगरवासिनी कापि दुष्टा नारी पाण्डरप्रस्तरस्य सम्पुटके सुगन्धितैलम् आनीय
38
तस्य पश्चात् पादयोः सन्निधौ तस्यौ रुदती च नेत्राम्बुभिस्तस्य चरणौ प्रक्षाल्य निजकचैरमार्क्षीत्, ततस्तस्य चरणौ चुम्बित्वा तेन सुगन्धितैलेन ममर्द।
39
तस्मात् स निमन्त्रयिता फिरूशी मनसा चिन्तयामास, यद्ययं भविष्यद्वादी भवेत् तर्हि एनं स्पृशति या स्त्री सा का कीदृशी चेति ज्ञातुं शक्नुयात् यतः सा दुष्टा।
40
तदा याशुस्तं जगाद, हे शिमोन् त्वां प्रति मम किञ्चिद् वक्तव्यमस्ति; तस्मात् स बभाषे, हे गुरो तद् वदतु।
41
एकोत्तमर्णस्य द्वावधमर्णावास्तां, तयोरेकः पञ्चशतानि मुद्रापादान् अपरश्च पञ्चाशत् मुद्रापादान् धारयामास।
42
तदनन्तरं तयोः शोध्याभावात् स उत्तमर्णस्तयो र्ऋणे चक्षमे; तस्मात् तयोर्द्वयोः कस्तस्मिन् प्रेष्यते बहु? तद् ब्रूहि।
43
शिमोन् प्रत्युवाच, मया बुध्यते यस्याधिकम् ऋणं चक्षमे स इति; ततो यीशुस्तं व्याजहार, त्वं यथार्थं व्यचारयः।
44
अथ तां नारीं प्रति व्याघुठ्य शिमोनमवोचत्, स्त्रीमिमां पश्यसि? तव गृहे मय्यागते त्वं पादप्रक्षालनार्थं जलं नादाः किन्तु योषिदेषा नयनजलै र्मम पादौ प्रक्षाल्य केशैरमार्क्षीत्।
45
त्वं मां नाचुम्बीः किन्तु योषिदेषा स्वीयागमनादारभ्य मदीयपादौ चुम्बितुं न व्यरंस्त।
46
त्वञ्च मदीयोत्तमाङ्गे किञ्चिदपि तैलं नामर्दीः किन्तु योषिदेषा मम चरणौ सुगन्धितैलेनामर्द्दीत्।
47
अतस्त्वां व्याहरामि, एतस्या बहु पापमक्षम्यत ततो बहु प्रीयते किन्तु यस्याल्पपापं क्षम्यते सोल्पं प्रीयते।
48
ततः परं स तां बभाषे, त्वदीयं पापमक्षम्यत।
49
तदा तेन सार्द्धं ये भोक्तुम् उपविविशुस्ते परस्परं वक्तुमारेभिरे, अयं पापं क्षमते क एषः?
50
किन्तु स तां नारीं जगाद, तव विश्वासस्त्वां पर्य्यत्रास्त त्वं क्षेमेण व्रज।
← Chapter 6
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 8 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24