bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Luke 6
Luke 6
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 5
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 7 →
1
अचरञ्च पर्व्वणो द्वितीयदिनात् परं प्रथमविश्रामवारे शस्यक्षेत्रेण यीशोर्गमनकाले तस्य शिष्याः कणिशं छित्त्वा करेषु मर्द्दयित्वा खादितुमारेभिरे।
2
तस्मात् कियन्तः फिरूशिनस्तानवदन् विश्रामवारे यत् कर्म्म न कर्त्तव्यं तत् कुतः कुरुथ?
3
यीशुः प्रत्युवाच दायूद् तस्य सङ्गिनश्च क्षुधार्त्ताः किं चक्रुः स कथम् ईश्वरस्य मन्दिरं प्रविश्य
4
ये दर्शनीयाः पूपा याजकान् विनान्यस्य कस्याप्यभोजनीयास्तानानीय स्वयं बुभजे सङ्गिभ्योपि ददौ तत् किं युष्माभिः कदापि नापाठि?
5
पश्चात् स तानवदत् मनुजसुतो विश्रामवारस्यापि प्रभु र्भवति।
6
अनन्तरम् अन्यविश्रामवारे स भजनगेहं प्रविश्य समुपदिशति। तदा तत्स्थाने शुष्कदक्षिणकर एकः पुमान् उपतस्थिवान्।
7
तस्माद् अध्यापकाः फिरूशिनश्च तस्मिन् दोषमारोपयितुं स विश्रामवारे तस्य स्वास्थ्यं करोति नवेति प्रतीक्षितुमारेभिरे।
8
तदा यीशुस्तेषां चिन्तां विदित्वा तं शुष्ककरं पुमांसं प्रोवाच, त्वमुत्थाय मध्यस्थाने तिष्ठ।
9
तस्मात् तस्मिन् उत्थितवति यीशुस्तान् व्याजहार, युष्मान् इमां कथां पृच्छामि, विश्रामवारे हितम् अहितं वा, प्राणरक्षणं प्राणनाशनं वा, एतेषां किं कर्म्मकरणीयम्?
10
पश्चात् चतुर्दिक्षु सर्व्वान् विलोक्य तं मानवं बभाषे, निजकरं प्रसारय; ततस्तेन तथा कृत इतरकरवत् तस्य हस्तः स्वस्थोभवत्।
11
तस्मात् ते प्रचण्डकोपान्विता यीशुं किं करिष्यन्तीति परस्परं प्रमन्त्रिताः।
12
ततः परं स पर्व्वतमारुह्येश्वरमुद्दिश्य प्रार्थयमानः कृत्स्नां रात्रिं यापितवान्।
13
अथ दिने सति स सर्व्वान् शिष्यान् आहूतवान् तेषां मध्ये
14
पितरनाम्ना ख्यातः शिमोन् तस्य भ्राता आन्द्रियश्च याकूब् योहन् च फिलिप् बर्थलमयश्च
15
मथिः थोमा आल्फीयस्य पुत्रो याकूब् ज्वलन्तनाम्ना ख्यातः शिमोन्
16
च याकूबो भ्राता यिहूदाश्च तं यः परकरेषु समर्पयिष्यति स ईष्करीयोतीययिहूदाश्चैतान् द्वादश जनान् मनोनीतान् कृत्वा स जग्राह तथा प्रेरित इति तेषां नाम चकार।
17
ततः परं स तैः सह पर्व्वतादवरुह्य उपत्यकायां तस्थौ ततस्तस्य शिष्यसङ्घो यिहूदादेशाद् यिरूशालमश्च सोरः सीदोनश्च जलधे रोधसो जननिहाश्च एत्य तस्य कथाश्रवणार्थं रोगमुक्त्यर्थञ्च तस्य समीपे तस्थुः।
18
अमेध्यभूतग्रस्ताश्च तन्निकटमागत्य स्वास्थ्यं प्रापुः।
19
सर्व्वेषां स्वास्थ्यकरणप्रभावस्य प्रकाशितत्वात् सर्व्वे लोका एत्य तं स्प्रष्टुं येतिरे।
20
पश्चात् स शिष्यान् प्रति दृष्टिं कुत्वा जगाद, हे दरिद्रा यूयं धन्या यत ईश्वरीये राज्ये वोऽधिकारोस्ति।
21
हे अधुना क्षुधितलोका यूयं धन्या यतो यूयं तर्प्स्यथ; हे इह रोदिनो जना यूयं धन्या यतो यूयं हसिष्यथ।
22
यदा लोका मनुष्यसूनो र्नामहेतो र्युष्मान् ऋृतीयिष्यन्ते पृथक् कृत्वा निन्दिष्यन्ति, अधमानिव युष्मान् स्वसमीपाद् दूरीकरिष्यन्ति च तदा यूयं धन्याः।
23
स्वर्गे युष्माकं यथेष्टं फलं भविष्यति, एतदर्थं तस्मिन् दिने प्रोल्लसत आनन्देन नृत्यत च, तेषां पूर्व्वपुरुषाश्च भविष्यद्वादिनः प्रति तथैव व्यवाहरन्।
24
किन्तु हा हा धनवन्तो यूयं सुखं प्राप्नुत। हन्त परितृप्ता यूयं क्षुधिता भविष्यथ;
25
इह हसन्तो यूयं वत युष्माभिः शोचितव्यं रोदितव्यञ्च।
26
सर्व्वैलाकै र्युष्माकं सुख्यातौ कृतायां युष्माकं दुर्गति र्भविष्यति युष्माकं पूर्व्वपुरुषा मृषाभविष्यद्वादिनः प्रति तद्वत् कृतवन्तः।
27
हे श्रोतारो युष्मभ्यमहं कथयामि, यूयं शत्रुषु प्रीयध्वं ये च युष्मान् द्विषन्ति तेषामपि हितं कुरुत।
28
ये च युष्मान् शपन्ति तेभ्य आशिषं दत्त ये च युष्मान् अवमन्यन्ते तेषां मङ्गलं प्रार्थयध्वं।
29
यदि कश्चित् तव कपोले चपेटाघातं करोति तर्हि तं प्रति कपोलम् अन्यं परावर्त्त्य सम्मुखीकुरु पुनश्च यदि कश्चित् तव गात्रीयवस्त्रं हरति तर्हि तं परिधेयवस्त्रम् अपि ग्रहीतुं मा वारय।
30
यस्त्वां याचते तस्मै देहि, यश्च तव सम्पत्तिं हरति तं मा याचस्व।
31
परेभ्यः स्वान् प्रति यथाचरणम् अपेक्षध्वे परान् प्रति यूयमपि तथाचरत।
32
ये जना युष्मासु प्रीयन्ते केवलं तेषु प्रीयमाणेषु युष्माकं किं फलं? पापिलोका अपि स्वेषु प्रीयमाणेषु प्रीयन्ते।
33
यदि हितकारिण एव हितं कुरुथ तर्हि युष्माकं किं फलं? पापिलोका अपि तथा कुर्व्वन्ति।
34
येभ्य ऋणपरिशोधस्य प्राप्तिप्रत्याशास्ते केवलं तेषु ऋणे समर्पिते युष्माकं किं फलं? पुनः प्राप्त्याशया पापीलोका अपि पापिजनेषु ऋणम् अर्पयन्ति।
35
अतो यूयं रिपुष्वपि प्रीयध्वं, परहितं कुरुत च; पुनः प्राप्त्याशां त्यक्त्वा ऋणमर्पयत, तथा कृते युष्माकं महाफलं भविष्यति, यूयञ्च सर्व्वप्रधानस्य सन्ताना इति ख्यातिं प्राप्स्यथ, यतो युष्माकं पिता कृतघ्नानां दुर्व्टत्तानाञ्च हितमाचरति।
36
अत एव स यथा दयालु र्यूयमपि तादृशा दयालवो भवत।
37
अपरञ्च परान् दोषिणो मा कुरुत तस्माद् यूयं दोषीकृता न भविष्यथ; अदण्ड्यान् मा दण्डयत तस्माद् यूयमपि दण्डं न प्राप्स्यथ; परेषां दोषान् क्षमध्वं तस्माद् युष्माकमपि दोषाः क्षमिष्यन्ते।
38
दानानिदत्त तस्माद् यूयं दानानि प्राप्स्यथ, वरञ्च लोकाः परिमाणपात्रं प्रदलय्य सञ्चाल्य प्रोञ्चाल्य परिपूर्य्य युष्माकं क्रोडेषु समर्पयिष्यन्ति; यूयं येन परिमाणेन परिमाथ तेनैव परिमाणेन युष्मत्कृते परिमास्यते।
39
अथ स तेभ्यो दृष्टान्तकथामकथयत्, अन्धो जनः किमन्धं पन्थानं दर्शयितुं शक्नोति? तस्माद् उभावपि किं गर्त्ते न पतिष्यतः?
40
गुरोः शिष्यो न श्रेष्ठः किन्तु शिष्ये सिद्धे सति स गुरुतुल्यो भवितुं शक्नोति।
41
अपरञ्च त्वं स्वचक्षुुषि नासाम् अदृष्ट्वा तव भ्रातुश्चक्षुषि यत्तृणमस्ति तदेव कुतः पश्यमि?
42
स्वचक्षुषि या नासा विद्यते ताम् अज्ञात्वा, भ्रातस्तव नेत्रात् तृणं बहिः करोमीति वाक्यं भ्रातरं कथं वक्तुं शक्नोषि? हे कपटिन् पूर्व्वं स्वनयनात् नासां बहिः कुरु ततो भ्रातुश्चक्षुषस्तृणं बहिः कर्त्तुं सुदृष्टिं प्राप्स्यसि।
43
अन्यञ्च उत्तमस्तरुः कदापि फलमनुत्तमं न फलति, अनुत्तमतरुश्च फलमुत्तमं न फलति कारणादतः फलैस्तरवो ज्ञायन्ते।
44
कण्टकिपादपात् कोपि उडुम्बरफलानि न पातयति तथा शृगालकोलिवृक्षादपि कोपि द्राक्षाफलं न पातयति।
45
तद्वत् साधुलोकोऽन्तःकरणरूपात् सुभाण्डागाराद् उत्तमानि द्रव्याणि बहिः करोति, दुष्टो लोकश्चान्तःकरणरूपात् कुभाण्डागारात् कुत्सितानि द्रव्याणि निर्गमयति यतोऽन्तःकरणानां पूर्णभावानुरूपाणि वचांसि मुखान्निर्गच्छन्ति।
46
अपरञ्च ममाज्ञानुरूपं नाचरित्वा कुतो मां प्रभो प्रभो इति वदथ?
47
यः कश्चिन् मम निकटम् आगत्य मम कथा निशम्य तदनुरूपं कर्म्म करोति स कस्य सदृशो भवति तदहं युष्मान् ज्ञाापयामि।
48
यो जनो गभीरं खनित्वा पाषाणस्थले भित्तिं निर्म्माय स्वगृहं रचयति तेन सह तस्योपमा भवति; यत आप्लाविजलमेत्य तस्य मूले वेगेन वहदपि तद्गेहं लाडयितुं न शक्नोति यतस्तस्य भित्तिः पाषाणोपरि तिष्ठति।
49
किन्तु यः कश्चिन् मम कथाः श्रुत्वा तदनुरूपं नाचरति स भित्तिं विना मृृदुपरि गृहनिर्म्मात्रा समानो भवति; यत आप्लाविजलमागत्य वेगेन यदा वहति तदा तद्गृहं पतति तस्य महत् पतनं जायते।
← Chapter 5
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 7 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24