bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Acts 13
Acts 13
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 12
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 14 →
1
अपरञ्च बर्णब्बाः, शिमोन् यं निग्रं वदन्ति, कुरीनीयलूकियो हेरोदा राज्ञा सह कृतविद्यााभ्यासो मिनहेम्, शौलश्चैते ये कियन्तो जना भविष्यद्वादिन उपदेष्टारश्चान्तियखियानगरस्थमण्डल्याम् आसन्,
2
ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।
3
ततस्तैरुपवासप्रार्थनयोः कृतयोः सतोस्ते तयो र्गात्रयो र्हस्तार्पणं कृत्वा तौ व्यसृजन्।
4
ततः परं तौ पवित्रेणात्मना प्रेरितौ सन्तौ सिलूकियानगरम् उपस्थाय समुद्रपथेन कुप्रोपद्वीपम् अगच्छतां।
5
ततः सालामीनगरम् उपस्थाय तत्र यिहूदीयानां भजनभवनानि गत्वेश्वरस्य कथां प्राचारयतां; योहनपि तत्सहचरोऽभवत्।
6
इत्थं ते तस्योपद्वीपस्य सर्व्वत्र भ्रमन्तः पाफनगरम् उपस्थिताः; तत्र सुविवेचकेन सर्जियपौलनाम्ना तद्देशाधिपतिना सह भविष्यद्वादिनो वेशधारी बर्यीशुनामा यो मायावी यिहूदी आसीत् तं साक्षात् प्राप्तवतः।
7
तद्देशाधिप ईश्वरस्य कथां श्रोतुं वाञ्छन् पौलबर्णब्बौ न्यमन्त्रयत्।
8
किन्त्विलुमा यं मायाविनं वदन्ति स देशाधिपतिं धर्म्ममार्गाद् बहिर्भूतं कर्त्तुम् अयतत।
9
तस्मात् शोलोऽर्थात् पौलः पवित्रेणात्मना परिपूर्णः सन् तं मायाविनं प्रत्यनन्यदृष्टिं कृत्वाकथयत्,
10
हे नरकिन् धर्म्मद्वेषिन् कौटिल्यदुष्कर्म्मपरिपूर्ण, त्वं किं प्रभोः सत्यपथस्य विपर्य्ययकरणात् कदापि न निवर्त्तिष्यसे?
11
अधुना परमेश्वरस्तव समुचितं करिष्यति तेन कतिपयदिनानि त्वम् अन्धः सन् सूर्य्यमपि न द्रक्ष्यसि। तत्क्षणाद् रात्रिवद् अन्धकारस्तस्य दृष्टिम् आच्छादितवान्; तस्मात् तस्य हस्तं धर्त्तुं स लोकमन्विच्छन् इतस्ततो भ्रमणं कृतवान्।
12
एनां घटनां दृष्ट्वा स देशाधिपतिः प्रभूपदेशाद् विस्मित्य विश्वासं कृतवान्।
13
तदनन्तरं पौलस्तत्सङ्गिनौ च पाफनगरात् प्रोतं चालयित्वा पम्फुलियादेशस्य पर्गीनगरम् अगच्छन् किन्तु योहन् तयोः समीपाद् एत्य यिरूशालमं प्रत्यागच्छत्।
14
पश्चात् तौ पर्गीतो यात्रां कृत्वा पिसिदियादेशस्य आन्तियखियानगरम् उपस्थाय विश्रामवारे भजनभवनं प्रविश्य समुपाविशतां।
15
व्यवस्थाभविष्यद्वाक्ययोः पठितयोः सतो र्हे भ्रातरौ लोकान् प्रति युवयोः काचिद् उपदेशकथा यद्यस्ति तर्हि तां वदतं तौ प्रति तस्य भजनभवनस्याधिपतयः कथाम् एतां कथयित्वा प्रैषयन्।
16
अतः पौल उत्तिष्ठन् हस्तेन सङ्केतं कुर्व्वन् कथितवान् हे इस्रायेलीयमनुष्या ईश्वरपरायणाः सर्व्वे लोका यूयम् अवधद्धं।
17
एतेषामिस्रायेल्लोकानाम् ईश्वरोऽस्माकं पूर्व्वपरुषान् मनोनीतान् कत्वा गृहीतवान् ततो मिसरि देशे प्रवसनकाले तेषामुन्नतिं कृत्वा तस्मात् स्वीयबाहुबलेन तान् बहिः कृत्वा समानयत्।
18
चत्वारिंशद्वत्सरान् यावच्च महाप्रान्तरे तेषां भरणं कृत्वा
19
किनान्देशान्तर्व्वर्त्तीणि सप्तराज्यानि नाशयित्वा गुटिकापातेन तेषु सर्व्वदेशेषु तेभ्योऽधिकारं दत्तवान्।
20
पञ्चाशदधिकचतुःशतेषु वत्सरेषु गतेषु च शिमूयेल्भविष्यद्वादिपर्य्यन्तं तेषामुपरि विचारयितृन् नियुक्तवान्।
21
तैश्च राज्ञि प्रार्थिते, ईश्वरो बिन्यामीनो वंशजातस्य कीशः पुत्रं शौलं चत्वारिंशद्वर्षपर्य्यन्तं तेषामुपरि राजानं कृतवान्।
22
पश्चात् तं पदच्युतं कृत्वा यो मदिष्टक्रियाः सर्व्वाः करिष्यति तादृशं मम मनोभिमतम् एकं जनं यिशयः पुत्रं दायूदं प्राप्तवान् इदं प्रमाणं यस्मिन् दायूदि स दत्तवान् तं दायूदं तेषामुपरि राजत्वं कर्त्तुम् उत्पादितवान।
23
तस्य स्वप्रतिश्रुतस्य वाक्यस्यानुसारेण इस्रायेल्लोकानां निमित्तं तेषां मनुष्याणां वंशाद् ईश्वर एकं यीशुं (त्रातारम्) उदपादयत्।
24
तस्य प्रकाशनात् पूर्व्वं योहन् इस्रायेल्लोकानां सन्निधौ मनःपरावर्त्तनरूपं मज्जनं प्राचारयत्।
25
यस्य च कर्म्मणोे भारं प्रप्तवान् योहन् तन् निष्पादयन् एतां कथां कथितवान्, यूयं मां कं जनं जानीथ? अहम् अभिषिक्तत्राता नहि, किन्तु पश्यत यस्य पादयोः पादुकयो र्बन्धने मोचयितुमपि योग्यो न भवामि तादृश एको जनो मम पश्चाद् उपतिष्ठति।
26
हे इब्राहीमो वंशजाता भ्रातरो हे ईश्वरभीताः सर्व्वलोका युष्मान् प्रति परित्राणस्य कथैषा प्रेरिता।
27
यिरूशालम्निवासिनस्तेषाम् अधिपतयश्च तस्य यीशोः परिचयं न प्राप्य प्रतिविश्रामवारं पठ्यमानानां भविष्यद्वादिकथानाम् अभिप्रायम् अबुद्ध्वा च तस्य वधेन ताः कथाः सफला अकुर्व्वन्।
28
प्राणहननस्य कमपि हेतुम् अप्राप्यापि पीलातस्य निकटे तस्य वधं प्रार्थयन्त।
29
तस्मिन् याः कथा लिखिताः सन्ति तदनुसारेण कर्म्म सम्पाद्य तं क्रुशाद् अवतार्य्य श्मशाने शायितवन्तः।
30
किन्त्वीश्वरः श्मशानात् तमुदस्थापयत्,
31
पुनश्च गालीलप्रदेशाद् यिरूशालमनगरं तेन सार्द्धं ये लोका आगच्छन् स बहुदिनानि तेभ्यो दर्शनं दत्तवान्, अतस्त इदानीं लोकान् प्रति तस्य साक्षिणः सन्ति।
32
अस्माकं पूर्व्वपुरुषाणां समक्षम् ईश्वरो यस्मिन् प्रतिज्ञातवान् यथा, त्वं मे पुत्रोसि चाद्य त्वां समुत्थापितवानहम्।
33
इदं यद्वचनं द्वितीयगीते लिखितमास्ते तद् यीशोरुत्थानेन तेषां सन्ताना ये वयम् अस्माकं सन्निधौ तेन प्रत्यक्षी कृतं, युष्मान् इमं सुसंवादं ज्ञापयामि।
34
परमेश्वरेण श्मशानाद् उत्थापितं तदीयं शरीरं कदापि न क्षेष्यते, एतस्मिन् स स्वयं कथितवान् यथा दायूदं प्रति प्रतिज्ञातो यो वरस्तमहं तुभ्यं दास्यामि।
35
एतदन्यस्मिन् गीतेऽपि कथितवान्। स्वकीयं पुण्यवन्तं त्वं क्षयितुं न च दास्यसि।
36
दायूदा ईश्वराभिमतसेवायै निजायुषि व्ययिते सति स महानिद्रां प्राप्य निजैः पूर्व्वपुरुषैः सह मिलितः सन् अक्षीयत;
37
किन्तु यमीश्वरः श्मशानाद् उदस्थापयत् स नाक्षीयत।
38
अतो हे भ्रातरः, अनेन जनेन पापमोचनं भवतीति युष्मान् प्रति प्रचारितम् आस्ते।
39
फलतो मूसाव्यवस्थया यूयं येभ्यो दोषेभ्यो मुक्ता भवितुं न शक्ष्यथ तेभ्यः सर्व्वदोषेभ्य एतस्मिन् जने विश्वासिनः सर्व्वे मुक्ता भविष्यन्तीति युष्माभि र्ज्ञायतां।
40
अपरञ्च। अवज्ञाकारिणो लोकाश्चक्षुरुन्मील्य पश्यत। तथैवासम्भवं ज्ञात्वा स्यात यूयं विलज्जिताः। यतो युष्मासु तिष्ठत्सु करिष्ये कर्म्म तादृशं। येनैव तस्य वृत्तान्ते युष्मभ्यं कथितेऽपि हि। यूयं न तन्तु वृत्तान्तं प्रत्येष्यथ कदाचन॥
41
येयं कथा भविष्यद्वादिनां ग्रन्थेषु लिखितास्ते सावधाना भवत स कथा यथा युष्मान् प्रति न घटते।
42
यिहूदीयभजनभवनान् निर्गतयोस्तयो र्भिन्नदेशीयै र्वक्ष्यमाणा प्रार्थना कृता, आगामिनि विश्रामवारेऽपि कथेयम् अस्मान् प्रति प्रचारिता भवत्विति।
43
सभाया भङ्गे सति बहवो यिहूदीयलोका यिहूदीयमतग्राहिणो भक्तलोकाश्च बर्णब्बापौलयोः पश्चाद् आगच्छन्, तेन तौ तैः सह नानाकथाः कथयित्वेश्वरानुग्रहाश्रये स्थातुं तान् प्रावर्त्तयतां।
44
परविश्रामवारे नगरस्य प्रायेण सर्व्वे लाका ईश्वरीयां कथां श्रोतुं मिलिताः,
45
किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।
46
ततः पौैलबर्णब्बावक्षोभौ कथितवन्तौ प्रथमं युष्माकं सन्निधावीश्वरीयकथायाः प्रचारणम् उचितमासीत् किन्तुं तदग्राह्यत्वकरणेन यूयं स्वान् अनन्तायुषोऽयोग्यान् दर्शयथ, एतत्कारणाद् वयम् अन्यदेशीयलोकानां समीपं गच्छामः।
47
प्रभुरस्मान् इत्थम् आदिष्टवान् यथा, यावच्च जगतः सीमां लोकानां त्राणकारणात्। मयान्यदेशमध्ये त्वं स्थापितो भूः प्रदीपवत्॥
48
तदा कथामीदृशीं श्रुत्वा भिन्नदेशीया आह्लादिताः सन्तः प्रभोः कथां धन्यां धन्याम् अवदन्, यावन्तो लोकाश्च परमायुः प्राप्तिनिमित्तं निरूपिता आसन् तेे व्यश्वसन्।
49
इत्थं प्रभोः कथा सर्व्वेदेशं व्याप्नोत्।
50
किन्तु यिहूदीया नगरस्य प्रधानपुरुषान् सम्मान्याः कथिपया भक्ता योषितश्च कुप्रवृत्तिं ग्राहयित्वा पौलबर्णब्बौ ताडयित्वा तस्मात् प्रदेशाद् दूरीकृतवन्तः।
51
अतः कारणात् तौ निजपदधूलीस्तेषां प्रातिकूल्येन पातयित्वेेकनियं नगरं गतौ।
52
ततः शिष्यगण आनन्देन पवित्रेणात्मना च परिपूर्णोभवत्।
← Chapter 12
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 14 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28