bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Acts 15
Acts 15
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 14
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 16 →
1
यिहूदादेशात् कियन्तो जना आगत्य भ्रातृगणमित्थं शिक्षितवन्तो मूसाव्यवस्थया यदि युष्माकं त्वक्छेदो न भवति तर्हि यूयं परित्राणं प्राप्तुं न शक्ष्यथ।
2
पौलबर्णब्बौ तैः सह बहून् विचारान् विवादांश्च कृतवन्तौ, ततो मण्डलीयनोका एतस्याः कथायास्तत्त्वं ज्ञातुं यिरूशालम्नगरस्थान् प्रेरितान् प्राचीनांश्च प्रति पौलबर्णब्बाप्रभृतीन् कतिपयजनान् प्रेषयितुं निश्चयं कृतवन्तः।
3
ते मण्डल्या प्रेरिताः सन्तः फैणीकीशोमिरोन्देशाभ्यां गत्वा भिन्नदेशीयानां मनःपरिवर्त्तनस्य वार्त्तया भ्रातृणां परमाह्लादम् अजनयन्।
4
यिरूशालम्युपस्थाय प्रेरितगणेन लोकप्राचीनगणेन समाजेन च समुपगृहीताः सन्तः स्वैरीश्वरो यानि कर्म्माणि कृतवान् तेषां सर्व्ववृत्तान्तान् तेषां समक्षम् अकथयन्।
5
किन्तु विश्वासिनः कियन्तः फिरूशिमतग्राहिणो लोका उत्थाय कथामेतां कथितवन्तो भिन्नदेशीयानां त्वक्छेदं कर्त्तुं मूसाव्यवस्थां पालयितुञ्च समादेष्टव्यम्।
6
ततः प्रेरिता लोकप्राचीनाश्च तस्य विवेचनां कर्त्तुं सभायां स्थितवन्तः।
7
बहुविचारेषु जातषु पितर उत्थाय कथितवान्, हे भ्रातरो यथा भिन्नदेशीयलोका मम मुखात् सुसंवादं श्रुत्वा विश्वसन्ति तदर्थं बहुदिनात् पूर्व्वम् ईश्वरोस्माकं मध्ये मां वृत्वा नियुक्तवान्।
8
अन्तर्य्यामीश्वरो यथास्मभ्यं तथा भिन्नदेशीयेभ्यः पवित्रमात्मानं प्रदाय विश्वासेन तेषाम् अन्तःकरणानि पवित्राणि कृत्वा
9
तेषाम् अस्माकञ्च मध्ये किमपि विशेषं न स्थापयित्वा तानधि स्वयं प्रमाणं दत्तवान् इति यूयं जानीथ।
10
अतएवास्माकं पूर्व्वपुरुषा वयञ्च स्वयं यद्युगस्य भारं सोढुं न शक्ताः सम्प्रति तं शिष्यगणस्य स्कन्धेषु न्यसितुं कुत ईश्वरस्य परीक्षां करिष्यथ?
11
प्रभो र्यीशुख्रीष्टस्यानुग्रहेण ते यथा वयमपि तथा परित्राणं प्राप्तुम् आशां कुर्म्मः।
12
अनन्तरं बर्णब्बापौलाभ्याम् ईश्वरो भिन्नदेशीयानां मध्ये यद्यद् आश्चर्य्यम् अद्भुतञ्च कर्म्म कृतवान् तद्वृत्तान्तं तौ स्वमुखाभ्याम् अवर्णयतां सभास्थाः सर्व्वे नीरवाः सन्तः श्रुतवन्तः।
13
तयोः कथायां समाप्तायां सत्यां याकूब् कथयितुम् आरब्धवान्
14
हे भ्रातरो मम कथायाम् मनो निधत्त। ईश्वरः स्वनामार्थं भिन्नदेशीयलोकानाम् मध्याद् एकं लोकसंघं ग्रहीतुं मतिं कृत्वा येन प्रकारेण प्रथमं तान् प्रति कृपावलेकनं कृतवान् तं शिमोन् वर्णितवान्।
15
भविष्यद्वादिभिरुक्तानि यानि वाक्यानि तैः सार्द्धम् एतस्यैक्यं भवति यथा लिखितमास्ते।
16
सर्व्वेषां कर्म्मणां यस्तु साधकः परमेश्वरः। स एवेदं वदेद्वाक्यं शेषाः सकलमानवाः। भिन्नदेशीयलोकाश्च यावन्तो मम नामतः। भवन्ति हि सुविख्यातास्ते यथा परमेशितुः।
17
तत्वं सम्यक् समीहन्ते तन्निमित्तमहं किल। परावृत्य समागत्य दायूदः पतितं पुनः। दूष्यमुत्थापयिष्यामि तदीयं सर्व्ववस्तु च। पतितं पुनरुथाप्य सज्जयिष्यामि सर्व्वथा॥
18
आ प्रथमाद् ईश्वरः स्वीयानि सर्व्वकर्म्माणि जानाति।
19
अतएव मम निवेदनमिदं भिन्नदेशीयलोकानां मध्ये ये जना ईश्वरं प्रति परावर्त्तन्त तेषामुपरि अन्यं कमपि भारं न न्यस्य
20
देवताप्रसादाशुचिभक्ष्यं व्यभिचारकर्म्म कण्ठसम्पीडनमारितप्राणिभक्ष्यं रक्तभक्ष्यञ्च एतानि परित्यक्तुं लिखामः।
21
यतः पूर्व्वकालतो मूसाव्यवस्थाप्रचारिणो लोका नगरे नगरे सन्ति प्रतिविश्रामवारञ्च भजनभवने तस्याः पाठो भवति।
22
ततः परं प्रेरितगणो लोकप्राचीनगणः सर्व्वा मण्डली च स्वेषां मध्ये बर्शब्बा नाम्ना विख्यातो मनोनीतौ कृत्वा पौलबर्णब्बाभ्यां सार्द्धम् आन्तियखियानगरं प्रति प्रेषणम् उचितं बुद्ध्वा ताभ्यां पत्रं प्रैषयन्।
23
तस्मिन् पत्रे लिखितमिंद, आन्तियखिया-सुरिया-किलिकियादेशस्थभिन्नदेशीयभ्रातृगणाय प्रेरितगणस्य लोकप्राचीनगणस्य भ्रातृगणस्य च नमस्कारः।
24
विशेषतोऽस्माकम् आज्ञाम् अप्राप्यापि कियन्तो जना अस्माकं मध्याद् गत्वा त्वक्छेदो मूसाव्यवस्था च पालयितव्याविति युष्मान् शिक्षयित्वा युष्माकं मनसामस्थैर्य्यं कृत्वा युष्मान् ससन्देहान् अकुर्व्वन् एतां कथां वयम् अशृन्म।
25
तत्कारणाद् वयम् एकमन्त्रणाः सन्तः सभायां स्थित्वा प्रभो र्यीशुख्रीष्टस्य नामनिमित्तं मृत्युमुखगताभ्यामस्माकं
26
प्रियबर्णब्बापौलाभ्यां सार्द्धं मनोनीतलोकानां केषाञ्चिद् युष्माकं सन्निधौ प्रेषणम् उचितं बुद्धवन्तः।
27
अतो यिहूदासीलौ युष्मान् प्रति प्रेषितवन्तः, एतयो र्मुखाभ्यां सर्व्वां कथां ज्ञास्यथ।
28
देवताप्रसादभक्ष्यं रक्तभक्ष्यं गलपीडनमारितप्राणिभक्ष्यं व्यभिचारकर्म्म चेमानि सर्व्वाणि युष्माभिस्त्याज्यानि; एतत्प्रयोजनीयाज्ञाव्यतिरेकेन युष्माकम् उपरि भारमन्यं न न्यसितुं पवित्रस्यात्मनोऽस्माकञ्च उचितज्ञानम् अभवत्।
29
अतएव तेभ्यः सर्व्वेभ्यः स्वेषु रक्षितेषु यूयं भद्रं कर्म्म करिष्यथ। युष्माकं मङ्गलं भूयात्।
30
तेे विसृष्टाः सन्त आन्तियखियानगर उपस्थाय लोकनिवहं संगृह्य पत्रम् अददन्।
31
ततस्ते तत्पत्रं पठित्वा सान्त्वनां प्राप्य सानन्दा अभवन्।
32
यिहूदासीलौ च स्वयं प्रचारकौ भूत्वा भ्रातृगणं नानोपदिश्य तान् सुस्थिरान् अकुरुताम्।
33
इत्थं तौ तत्र तैः साकं कतिपयदिनानि यापयित्वा पश्चात् प्रेरितानां समीपे प्रत्यागमनार्थं तेषां सन्निधेः कल्याणेन विसृष्टावभवतां।
34
किन्तु सीलस्तत्र स्थातुं वाञ्छितवान्।
35
अपरं पौलबर्णब्बौ बहवः शिष्याश्च लोकान् उपदिश्य प्रभोः सुसंवादं प्रचारयन्त आन्तियखियायां कालं यापितवन्तः।
36
कतिपयदिनेषु गतेषु पौलो बर्णब्बाम् अवदत् आगच्छावां येषु नगरेष्वीश्वरस्य सुसंवादं प्रचारितवन्तौ तानि सर्व्वनगराणि पुनर्गत्वा भ्रातरः कीदृशाः सन्तीति द्रष्टुं तान् साक्षात् कुर्व्वः।
37
तेन मार्कनाम्ना विख्यातं योहनं सङ्गिनं कर्त्तुं बर्णब्बा मतिमकरोत्,
38
किन्तु स पूर्व्वं ताभ्यां सह कार्य्यार्थं न गत्वा पाम्फूलियादेशे तौ त्यक्तवान् तत्कारणात् पौलस्तं सङ्गिनं कर्त्तुम् अनुचितं ज्ञातवान्।
39
इत्थं तयोरतिशयविरोधस्योपस्थितत्वात् तौ परस्परं पृथगभवतां ततो बर्णब्बा मार्कं गृहीत्वा पोतेन कुप्रोपद्वीपं गतवान्;
40
किन्तु पौलः सीलं मनोनीतं कृत्वा भ्रातृभिरीश्वरानुग्रहे समर्पितः सन् प्रस्थाय
41
सुरियाकिलिकियादेशाभ्यां मण्डलीः स्थिरीकुर्व्वन् अगच्छत्।
← Chapter 14
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 16 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
Recommended Reading
Commentary
Acts Commentaries
→
Devotional
Acts Devotional Guide
→
Get This Bible
NT Study Bible
→