bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Acts 8
Acts 8
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 7
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 9 →
1
तस्य हत्याकरणं शौलोपि सममन्यत। तस्मिन् समये यिरूशालम्नगरस्थां मण्डलीं प्रति महाताडनायां जातायां प्रेरितलोकान् हित्वा सर्व्वेऽपरे यिहूदाशोमिरोणदेशयो र्नानास्थाने विकीर्णाः सन्तो गताः।
2
अन्यच्च भक्तलोकास्तं स्तिफानं श्मशाने स्थापयित्वा बहु व्यलपन्।
3
किन्तु शौलो गृहे गृहे भ्रमित्वा स्त्रियः पुरुषांश्च धृत्वा कारायां बद्ध्वा मण्डल्या महोत्पातं कृतवान्।
4
अन्यच्च ये विकीर्णा अभवन् ते सर्व्वत्र भ्रमित्वा सुसंवादं प्राचारयन्।
5
तदा फिलिपः शोमिरोण्नगरं गत्वा ख्रीष्टाख्यानं प्राचारयत्;
6
ततोऽशुचि-भृतग्रस्तलोकेभ्यो भूताश्चीत्कृत्यागच्छन् तथा बहवः पक्षाघातिनः खञ्जा लोकाश्च स्वस्था अभवन्।
7
तस्मात् लाका ईदृशं तस्याश्चर्य्यं कर्म्म विलोक्य निशम्य च सर्व्व एकचित्तीभूय तेनोक्ताख्याने मनांसि न्यदधुः।
8
तस्मिन्नगरे महानन्दश्चाभवत्।
9
ततः पूर्व्वं तस्मिन्नगरे शिमोन्नामा कश्चिज्जनो बह्वी र्मायाक्रियाः कृत्वा स्वं कञ्चन महापुरुषं प्रोच्य शोमिरोणीयानां मोहं जनयामास।
10
तस्मात् स मानुष ईश्वरस्य महाशक्तिस्वरूप इत्युक्त्वा बालवृद्धवनिताः सर्व्वे लाकास्तस्मिन् मनांसि न्यदधुः।
11
स बहुकालान् मायाविक्रियया सर्व्वान् अतीव मोहयाञ्चकार, तस्मात् ते तं मेनिरे।
12
किन्त्वीश्वरस्य राज्यस्य यीशुख्रीष्टस्य नाम्नश्चाख्यानप्रचारिणः फिलिपस्य कथायां विश्वस्य तेषां स्त्रीपुरुषोभयलोका मज्जिता अभवन्।
13
शेषे स शिमोनपि स्वयं प्रत्यैत् ततो मज्जितः सन् फिलिपेन कृताम् आश्चर्य्यक्रियां लक्षणञ्च विलोक्यासम्भवं मन्यमानस्तेन सह स्थितवान्।
14
इत्थं शोमिरोण्देशीयलोका ईश्वरस्य कथाम् अगृह्लन् इति वार्त्तां यिरूशालम्नगरस्थप्रेरिताः प्राप्य पितरं योहनञ्च तेषां निकटे प्रेषितवन्तः।
15
ततस्तौ तत् स्थानम् उपस्थाय लोका यथा पवित्रम् आत्मानं प्राप्नुवन्ति तदर्थं प्रार्थयेतां।
16
यतस्ते पुरा केवलप्रभुयीशो र्नाम्ना मज्जितमात्रा अभवन्, न तु तेषां मध्ये कमपि प्रति पवित्रस्यात्मन आविर्भावो जातः।
17
किन्तु प्रेरिताभ्यां तेषां गात्रेषु करेष्वर्पितेषु सत्सु ते पवित्रम् आत्मानम् प्राप्नुवन्।
18
इत्थं लोकानां गात्रेषु प्रेरितयोः करार्पणेन तान् पवित्रम् आत्मानं प्राप्तान् दृष्ट्वा स शिमोन् तयोः समीपे मुद्रा आनीय कथितवान्;
19
अहं यस्य गात्रे हस्तम् अर्पयिष्यामि तस्यापि यथेत्थं पवित्रात्मप्राप्ति र्भवति तादृशीं शक्तिं मह्यं दत्तं।
20
किन्तु पितरस्तं प्रत्यवदत् तव मुद्रास्त्वया विनश्यन्तु यत ईश्वरस्य दानं मुद्राभिः क्रीयते त्वमित्थं बुद्धवान्;
21
ईश्वराय तावन्तःकरणं सरलं नहि, तस्माद् अत्र तवांशोऽधिकारश्च कोपि नास्ति।
22
अत एतत्पापहेतोः खेदान्वितः सन् केनापि प्रकारेण तव मनस एतस्याः कुकल्पनायाः क्षमा भवति, एतदर्थम् ईश्वरे प्रार्थनां कुरु;
23
यतस्त्वं तिक्तपित्ते पापस्य बन्धने च यदसि तन्मया बुद्धम्।
24
तदा शिमोन् अकथयत् तर्हि युवाभ्यामुदिता कथा मयि यथा न फलति तदर्थं युवां मन्निमित्तं प्रभौ प्रार्थनां कुरुतं।
25
अनेन प्रकारेण तौ साक्ष्यं दत्त्वा प्रभोः कथां प्रचारयन्तौ शोमिरोणीयानाम् अनेकग्रामेषु सुसंवादञ्च प्रचारयन्तौ यिरूशालम्नगरं परावृत्य गतौ।
26
ततः परम् ईश्वरस्य दूतः फिलिपम् इत्यादिशत्, त्वमुत्थाय दक्षिणस्यां दिशि यो मार्गो प्रान्तरस्य मध्येन यिरूशालमो ऽसानगरं याति तं मार्गं गच्छ।
27
ततः स उत्थाय गतवान्; तदा कन्दाकीनाम्नः कूश्लोकानां राज्ञ्याः सर्व्वसम्पत्तेरधीशः कूशदेशीय एकः षण्डो भजनार्थं यिरूशालम्नगरम् आगत्य
28
पुनरपि रथमारुह्य यिशयियनाम्नो भविष्यद्वादिनो ग्रन्थं पठन् प्रत्यागच्छति।
29
एतस्मिन् समये आत्मा फिलिपम् अवदत्, त्वम् रथस्य समीपं गत्वा तेन सार्द्धं मिल।
30
तस्मात् स धावन् तस्य सन्निधावुपस्थाय तेन पठ्यमानं यिशयियथविष्यद्वादिनो वाक्यं श्रुत्वा पृष्टवान् यत् पठसि तत् किं बुध्यसे?
31
ततः स कथितवान् केनचिन्न बोधितोहं कथं बुध्येय? ततः स फिलिपं रथमारोढुं स्वेन सार्द्धम् उपवेष्टुञ्च न्यवेदयत्।
32
स शास्त्रस्येतद्वाक्यं पठितवान् यथा, समानीयत घाताय स यथा मेषशावकः। लोमच्छेदकसाक्षाच्च मेषश्च नीरवो यथा। आबध्य वदनं स्वीयं तथा स समतिष्ठत।
33
अन्यायेन विचारेण स उच्छिन्नो ऽभवत् तदा। तत्कालीनमनुष्यान् को जनो वर्णयितुं क्षमः। यतो जीवन्नृणां देशात् स उच्छिन्नो ऽभवत् ध्रुवं।
34
अनन्तरं स फिलिपम् अवदत् निवेदयामि, भविष्यद्वादी यामिमां कथां कथयामास स किं स्वस्मिन् वा कस्मिंश्चिद् अन्यस्मिन्?
35
ततः फिलिपस्तत्प्रकरणम् आरभ्य यीशोरुपाख्यानं तस्याग्रे प्रास्तौत्।
36
इत्थं मार्गेण गच्छन्तौ जलाशयस्य समीप उपस्थितौ; तदा क्लीबोऽवादीत् पश्यात्र स्थाने जलमास्ते मम मज्जने का बाधा?
37
ततः फिलिप उत्तरं व्याहरत् स्वान्तःकरणेन साकं यदि प्रत्येषि तर्हि बाधा नास्ति। ततः स कथितवान् यीशुख्रीष्ट ईश्वरस्य पुत्र इत्यहं प्रत्येमि।
38
तदा रथं स्थगितं कर्त्तुम् आदिष्टे फिलिपक्लीबौ द्वौ जलम् अवारुहतां; तदा फिलिपस्तम् मज्जयामास।
39
तत्पश्चात् जलमध्याद् उत्थितयोः सतोः परमेश्वरस्यात्मा फिलिपं हृत्वा नीतवान्, तस्मात् क्लीबः पुनस्तं न दृष्टवान् तथापि हृष्टचित्तः सन् स्वमार्गेण गतवान्।
40
फिलिपश्चास्दोद्नगरम् उपस्थाय तस्मात् कैसरियानगर उपस्थितिकालपर्य्यनतं सर्व्वस्मिन्नगरे सुसंवादं प्रचारयन् गतवान्।
← Chapter 7
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 9 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28