bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Acts 22
Acts 22
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 21
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 23 →
1
हे पितृगणा हे भ्रातृगणाः, इदानीं मम निवेदने समवधत्त।
2
तदा स इब्रीयभाषया कथां कथयतीति श्रुत्वा सर्व्वे लोका अतीव निःशब्दा सन्तोऽतिष्ठन्।
3
पश्चात् सोऽकथयद् अहं यिहूदीय इति निश्चयः किलिकियादेशस्य तार्षनगरं मम जन्मभूमिः,एतन्नगरीयस्य गमिलीयेलनाम्नोऽध्यापकस्य शिष्यो भूत्वा पूर्व्वपुरुषाणां विधिव्यवस्थानुसारेण सम्पूर्णरूपेण शिक्षितोऽभवम् इदानीन्तना यूयं यादृशा भवथ तादृशोऽहमपीश्वरसेवायाम् उद्योगी जातः।
4
मतमेतद् द्विष्ट्वा तद्ग्राहिनारीपुरुषान् कारायां बद्ध्वा तेषां प्राणनाशपर्य्यन्तां विपक्षताम् अकरवम्।
5
महायाजकः सभासदः प्राचीनलोकाश्च ममैतस्याः कथायाः प्रमाणं दातुं शक्नुवन्ति, यस्मात् तेषां समीपाद् दम्मेषकनगरनिवासिभ्रातृगणार्थम् आज्ञापत्राणि गृहीत्वा ये तत्र स्थितास्तान् दण्डयितुं यिरूशालमम् आनयनार्थं दम्मेषकनगरं गतोस्मि।
6
किन्तु गच्छन् तन्नगरस्य समीपं प्राप्तवान् तदा द्वितीयप्रहरवेलायां सत्याम् अकस्माद् गगणान्निर्गत्य महती दीप्ति र्मम चतुर्दिशि प्रकाशितवती।
7
ततो मयि भूमौै पतिते सति, हे शौल हे शौल कुतो मां ताडयसि? माम्प्रति भाषित एतादृश एको रवोपि मया श्रुतः।
8
तदाहं प्रत्यवदं, हे प्रभे को भवान्? ततः सोऽवादीत् यं त्वं ताडयसि स नासरतीयो यीशुरहं।
9
मम सङ्गिनो लोकास्तां दीप्तिं दृष्ट्वा भियं प्राप्ताः, किन्तु माम्प्रत्युदितं तद्वाक्यं तेे नाबुध्यन्त।
10
ततः परं पृष्टवानहं, हे प्रभो मया किं कर्त्तव्यं? ततः प्रभुरकथयत्, उत्थाय दम्मेषकनगरं याहि त्वया यद्यत् कर्त्तव्यं निरूपितमास्ते तत् तत्र त्वं ज्ञापयिष्यसे।
11
अनन्तरं तस्याः खरतरदीप्तेः कारणात् किमपि न दृष्ट्वा सङ्गिगणेन धृतहस्तः सन् दम्मेषकनगरं व्रजितवान्।
12
तन्नगरनिवासिनां सर्व्वेषां यिहूदीयानां मान्यो व्यवस्थानुसारेण भक्तश्च हनानीयनामा मानव एको
13
मम सन्निधिम् एत्य तिष्ठन् अकथयत्, हे भ्रातः शौल सुदृष्टि र्भव तस्मिन् दण्डेऽहं सम्यक् तं दृष्टवान्।
14
ततः स मह्यं कथितवान् यथा त्वम् ईश्वरस्याभिप्रायं वेत्सि तस्य शुद्धसत्त्वजनस्य दर्शनं प्राप्य तस्य श्रीमुखस्य वाक्यं शृणोषि तन्निमित्तम् अस्माकं पूर्व्वपुरुषाणाम् ईश्वरस्त्वां मनोनीतं कृतवानं।
15
यतो यद्यद् अद्राक्षीरश्रौषीश्च सर्व्वेषां मानवानां समीपे त्वं तेषां साक्षी भविष्यसि।
16
अतएव कुतो विलम्बसे? प्रभो र्नाम्ना प्रार्थ्य निजपापप्रक्षालनार्थं मज्जनाय समुत्तिष्ठ।
17
ततः परं यिरूशालम्नगरं प्रत्यागत्य मन्दिरेऽहम् एकदा प्रार्थये, तस्मिन् समयेऽहम् अभिभूतः सन् प्रभूं साक्षात् पश्यन्,
18
त्वं त्वरया यिरूशालमः प्रतिष्ठस्व यतो लोकामयि तव साक्ष्यं न ग्रहीष्यन्ति, माम्प्रत्युदितं तस्येदं वाक्यम् अश्रौषम्।
19
ततोहं प्रत्यवादिषम् हे प्रभो प्रतिभजनभवनं त्वयि विश्वासिनो लोकान् बद्ध्वा प्रहृतवान्,
20
तथा तव साक्षिणः स्तिफानस्य रक्तपातनसमये तस्य विनाशं सम्मन्य सन्निधौ तिष्ठन् हन्तृलोकानां वासांसि रक्षितवान्, एतत् ते विदुः।
21
ततः सोऽकथयत् प्रतिष्ठस्व त्वां दूरस्थभिन्नदेशीयानां समीपं प्रेषयिष्ये।
22
तदा लोका एतावत्पर्य्यन्तां तदीयां कथां श्रुत्वा प्रोच्चैरकथयन्, एनं भूमण्डलाद् दूरीकुरुत, एतादृशजनस्य जीवनं नोचितम्।
23
इत्युच्चैः कथयित्वा वसनानि परित्यज्य गगणं प्रति धूलीरक्षिपन्
24
ततः सहस्रसेनापतिः पौलं दुर्गाभ्यन्तर नेतुं समादिशत्। एतस्य प्रतिकूलाः सन्तो लोकाः किन्निमित्तम् एतावदुच्चैःस्वरम् अकुर्व्वन्, एतद् वेत्तुं तं कशया प्रहृत्य तस्य परीक्षां कर्त्तुमादिशत्।
25
पदातयश्चर्म्मनिर्म्मितरज्जुभिस्तस्य बन्धनं कर्त्तुमुद्यतास्तास्तदानीं पौलः सम्मुखस्थितं शतसेनापतिम् उक्तवान् दण्डाज्ञायाम् अप्राप्तायां किं रोमिलोकं प्रहर्त्तुं युष्माकम् अधिकारोस्ति?
26
एनां कथां श्रुत्वा स सहस्रसेनापतेः सन्निधिं गत्वा तां वार्त्तामवदत् स रोमिलोक एतस्मात् सावधानः सन् कर्म्म कुरु।
27
तस्मात् सहस्रसेनापति र्गत्वा तमप्राक्षीत् त्वं किं रोमिलोकः? इति मां ब्रूहि। सोऽकथयत् सत्यम्।
28
ततः सहस्रसेनापतिः कथितवान् बहुद्रविणं दत्त्वाहं तत् पौरसख्यं प्राप्तवान्; किन्तु पौलः कथितवान् अहं जनुना तत् प्राप्तोऽस्मि।
29
इत्थं सति ये प्रहारेण तं परीक्षितुं समुद्यता आसन् ते तस्य समीपात् प्रातिष्ठन्त; सहस्रसेनापतिस्तं रोमिलोकं विज्ञाय स्वयं यत् तस्य बन्धनम् अकार्षीत् तत्कारणाद् अबिभेत्।
30
यिहूदीयलोकाः पौलं कुतोऽपवदन्ते तस्य वृत्तान्तं ज्ञातुं वाञ्छन् सहस्रसेनापतिः परेऽहनि पौलं बन्धनात् मोचयित्वा प्रधानयाजकान् महासभायाः सर्व्वलोकाश्च समुपस्थातुम् आदिश्य तेषां सन्निधौ पौलम् अवरोह्य स्थापितवान्।
← Chapter 21
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 23 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28