bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Acts 17
Acts 17
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 16
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 18 →
1
पौलसीलौ आम्फिपल्यापल्लोनियानगराभ्यां गत्वा यत्र यिहूदीयानां भजनभवनमेकम् आस्ते तत्र थिषलनीकीनगर उपस्थितौ।
2
तदा पौलः स्वाचारानुसारेण तेषां समीपं गत्वा विश्रामवारत्रये तैः सार्द्धं धर्म्मपुस्तकीयकथाया विचारं कृतवान्।
3
फलतः ख्रीष्टेन दुःखभोगः कर्त्तव्यः श्मशानदुत्थानञ्च कर्त्तव्यं युष्माकं सन्निधौ यस्य यीशोः प्रस्तावं करोमि स ईश्वरेणाभिषिक्तः स एताः कथाः प्रकाश्य प्रमाणं दत्वा स्थिरीकृतवान्।
4
तस्मात् तेषां कतिपयजना अन्यदेशीया बहवो भक्तलोका बह्यः प्रधाननार्य्यश्च विश्वस्य पौलसीलयोः पश्चाद्गामिनो जाताः।
5
किन्तु विश्वासहीना यिहूदीयलोका ईर्ष्यया परिपूर्णाः सन्तो हटट्स्य कतिनयलम्पटलोकान् सङ्गिनः कृत्वा जनतया नगरमध्ये महाकलहं कृत्वा यासोनो गृहम् आक्रम्य प्रेरितान् धृत्वा लोकनिवहस्य समीपम् आनेतुं चेष्टितवन्तः।
6
तेषामुद्देशम् अप्राप्य च यासोनं कतिपयान् भ्रातृंश्च धृत्वा नगराधिपतीनां निकटमानीय प्रोच्चैः कथितवन्तो ये मनुष्या जगदुद्वाटितवन्तस्ते ऽत्राप्युपस्थिताः सन्ति,
7
एष यासोन् आतिथ्यं कृत्वा तान् गृहीतवान्। यीशुनामक एको राजस्तीति कथयन्तस्ते कैसरस्याज्ञाविरुद्धं कर्म्म कुर्व्वति।
8
तेषां कथामिमां श्रुत्वा लोकनिवहो नगराधिपतयश्च समुद्विग्ना अभवन्।
9
तदा यासोनस्तदन्येषाञ्च धनदण्डं गृहीत्वा तान् परित्यक्तवन्तः।
10
ततः परं भ्रातृगणो रजन्यां पौलसीलौ शीघ्रं बिरयानगरं प्रेषितवान् तौ तत्रोपस्थाय यिहूदीयानां भजनभवनं गतवन्तौ।
11
तत्रस्था लोकाः थिषलनीकीस्थलोकेभ्यो महात्मान आसन् यत इत्थं भवति न वेति ज्ञातुं दिने दिने धर्म्मग्रन्थस्यालोचनां कृत्वा स्वैरं कथाम् अगृह्लन्।
12
तस्माद् अनेके यिहूदीया अन्यदेशीयानां मान्या स्त्रियः पुरुषाश्चानेके व्यश्वसन्।
13
किन्तु बिरयानगरे पौलेनेश्वरीया कथा प्रचार्य्यत इति थिषलनीकीस्था यिहूदीया ज्ञात्वा तत्स्थानमप्यागत्य लोकानां कुप्रवृत्तिम् अजनयन्।
14
अतएव तस्मात् स्थानात् समुद्रेण यान्तीति दर्शयित्वा भ्रातरः क्षिप्रं पौलं प्राहिण्वन् किन्तु सीलतीमथियौ तत्र स्थितवन्तौ।
15
ततः परं पौलस्य मार्गदर्शकास्तम् आथीनीनगर उपस्थापयन् पश्चाद् युवां तूर्णम् एतत् स्थानं आगमिष्यथः सीलतीमथियौ प्रतीमाम् आज्ञां प्राप्य ते प्रत्यागताः।
16
पौल आथीनीनगरे तावपेक्ष्य तिष्ठन् तन्नगरं प्रतिमाभिः परिपूर्णं दृष्ट्वा सन्तप्तहृदयो ऽभवत्।
17
ततः स भजनभवने यान् यिहूदीयान् भक्तलोकांश्च हट्टे च यान् अपश्यत् तैः सह प्रतिदिनं विचारितवान्।
18
किन्त्विपिकूरीयमतग्रहिणः स्तोयिकीयमतग्राहिणश्च कियन्तो जनास्तेन सार्द्धं व्यवदन्त। तत्र केचिद् अकथयन् एष वाचालः किं वक्तुम् इच्छति? अपरे केचिद् एष जनः केषाञ्चिद् विदेशीयदेवानां प्रचारक इत्यनुमीयते यतः स यीशुम् उत्थितिञ्च प्रचारयत्।
19
ते तम् अरेयपागनाम विचारस्थानम् आनीय प्रावोचन् इदं यन्नवीनं मतं त्वं प्राचीकश इदं कीदृशं एतद् अस्मान् श्रावय;
20
यामिमाम् असम्भवकथाम् अस्माकं कर्णगोचरीकृतवान् अस्या भावार्थः क इति वयं ज्ञातुम् इच्छामः।
21
तदाथीनीनिवासिनस्तन्नगरप्रवासिनश्च केवलं कस्याश्चन नवीनकथायाः श्रवणेन प्रचारणेन च कालम् अयापयन्।
22
पौलोऽरेयपागस्य मध्ये तिष्ठन् एतां कथां प्रचारितवान्, हे आथीनीयलोका यूयं सर्व्वथा देवपूजायाम् आसक्ता इत्यह प्रत्यक्षं पश्यामि।
23
यतः पर्य्यटनकाले युष्माकं पूजनीयानि पश्यन् ‘अविज्ञातेश्वराय’ एतल्लिपियुक्तां यज्ञवेदीमेकां दृष्टवान्; अतो न विदित्वा यं पूजयध्वे तस्यैव तत्वं युष्मान् प्रति प्रचारयामि।
24
जगतो जगत्स्थानां सर्व्ववस्तूनाञ्च स्रष्टा य ईश्वरः स स्वर्गपृथिव्योरेकाधिपतिः सन् करनिर्म्मितमन्दिरेषु न निवसति;
25
स एव सर्व्वेभ्यो जीवनं प्राणान् सर्व्वसामग्रीश्च प्रददाति; अतएव स कस्याश्चित् सामग्य्रा अभावहेतो र्मनुष्याणां हस्तैः सेवितो भवतीति न।
26
स भूमण्डले निवासार्थम् एकस्मात् शोणितात् सर्व्वान् मनुष्यान् सृष्ट्वा तेषां पूर्व्वनिरूपितसमयं वसतिसीमाञ्च निरचिनोत्;
27
तस्मात् लोकैः केनापि प्रकारेण मृगयित्वा परमेश्वरस्य तत्वं प्राप्तुं तस्य गवेषणं करणीयम्।
28
किन्तु सोऽस्माकं कस्माच्चिदपि दूरे तिष्ठतीति नहि, वयं तेन निश्वसनप्रश्वसनगमनागमनप्राणधारणानि कुर्म्मः, पुुनश्च युष्माकमेव कतिपयाः कवयः कथयन्ति ‘तस्य वंशा वयं स्मो हि’ इति।
29
अतएव यदि वयम् ईश्वरस्य वंशा भवामस्तर्हि मनुष्यै र्विद्यया कौशलेन च तक्षितं स्वर्णं रूप्यं दृषद् वैतेषामीश्वरत्वम् अस्माभि र्न ज्ञातव्यं।
30
तेषां पूर्व्वीयलोकानाम् अज्ञानतां प्रतीश्वरो यद्यपि नावाधत्त तथापीदानीं सर्व्वत्र सर्व्वान् मनः परिवर्त्तयितुम् आज्ञापयति,
31
यतः स्वनियुक्तेन पुरुषेण यदा स पृथिवीस्थानां सर्व्वलोकानां विचारं करिष्यति तद्दिनं न्यरूपयत्; तस्य श्मशानोत्थापनेन तस्मिन् सर्व्वेभ्यः प्रमाणं प्रादात्।
32
तदा श्मशानाद् उत्थानस्य कथां श्रुत्वा केचिद् उपाहमन्, केचिदवदन् एनां कथां पुनरपि त्वत्तः श्रोष्यामः।
33
ततः पौलस्तेषां समीपात् प्रस्थिातवान्।
34
तथापि केचिल्लोकास्तेन सार्द्धं मिलित्वा व्यश्वसन् तेषां मध्ये ऽरेयपागीयदियनुसियो दामारीनामा काचिन्नारी कियन्तो नराश्चासन्।
← Chapter 16
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 18 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28