bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Acts 4
Acts 4
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 3
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 5 →
1
यस्मिन् समये पितरयोहनौ लोकान् उपदिशतस्तस्मिन् समये याजका मन्दिरस्य सेनापतयः सिदूकीगणश्च
2
तयोर् उपदेशकरणे ख्रीष्टस्योत्थानम् उपलक्ष्य सर्व्वेषां मृतानाम् उत्थानप्रस्तावे च व्यग्राः सन्तस्तावुपागमन्।
3
तौ धृत्वा दिनावसानकारणात् परदिनपर्य्यनन्तं रुद्ध्वा स्थापितवन्तः।
4
तथापि ये लोकास्तयोरुपदेशम् अशृण्वन् तेषां प्रायेण पञ्चसहस्राणि जना व्यश्वसन्।
5
परेऽहनि अधिपतयः प्राचीना अध्यापकाश्च हानननामा महायाजकः
6
कियफा योहन् सिकन्दर इत्यादयो महायाजकस्य ज्ञातयः सर्व्वे यिरूशालम्नगरे मिलिताः।
7
अनन्तरं प्रेरितौ मध्ये स्थापयित्वापृच्छन् युवां कया शक्तया वा केन नाम्ना कर्म्माण्येतानि कुरुथः?
8
तदा पितरः पवित्रेणात्मना परिपूर्णः सन् प्रत्यवादीत्, हे लोकानाम् अधिपतिगण हे इस्रायेलीयप्राचीनाः,
9
एतस्य दुर्ब्बलमानुषस्य हितं यत् कर्म्माक्रियत, अर्थात्, स येन प्रकारेण स्वस्थोभवत् तच्चेद् अद्यावां पृच्छथ,
10
तर्हि सर्व्व इस्रायेेलीयलोका यूयं जानीत नासरतीयो यो यीशुख्रीष्टः क्रुशे युष्माभिरविध्यत यश्चेश्वरेण श्मशानाद् उत्थापितः, तस्य नाम्ना जनोयं स्वस्थः सन् युष्माकं सम्मुखे प्रोत्तिष्ठति।
11
निचेतृभि र्युष्माभिरयं यः प्रस्तरोऽवज्ञातोऽभवत् स प्रधानकोणस्य प्रस्तरोऽभवत्।
12
तद्भिन्नादपरात् कस्मादपि परित्राणं भवितुं न शक्नोति, येन त्राणं प्राप्येत भूमण्डलस्यलोकानां मध्ये तादृशं किमपि नाम नास्ति।
13
तदा पितरयोहनोरेतादृशीम् अक्षेभतां दृष्ट्वा तावविद्वांसौ नीचलोकाविति बुद्ध्वा आश्चर्य्यम् अमन्यन्त तौ च यीशोः सङ्गिनौ जाताविति ज्ञातुम् अशक्नुवन्।
14
किन्तु ताभ्यां सार्द्धं तं स्वस्थमानुषं तिष्ठन्तं दृष्ट्वा ते कामप्यपराम् आपत्तिं कर्त्तं नाशक्नुन्।
15
तदा ते सभातः स्थानान्तरं गन्तुं तान् आज्ञाप्य स्वयं परस्परम् इति मन्त्रणामकुर्व्वन्
16
तौ मानवौ प्रति किं कर्त्तव्यं? तावेकं प्रसिद्धम् आश्चर्य्यं कर्म्म कृतवन्तौ तद् यिरूशालम्निवासिनां सर्व्वेषां लोकानां समीपे प्राकाशत तच्च वयमपह्नोतुं न शक्नुमः।
17
किन्तु लोकानां मध्यम् एतद् यथा न व्याप्नोति तदर्थं तौ भयं प्रदर्श्य तेन नाम्ना कमपि मनुष्यं नोपदिशतम् इति दृढं निषेधामः।
18
ततस्ते प्रेरितावाहूय एतदाज्ञापयन् इतः परं यीशो र्नाम्ना कदापि कामपि कथां मा कथयतं किमपि नोपदिशञ्च।
19
ततः पितरयोहनौ प्रत्यवदताम् ईश्वरस्याज्ञाग्रहणं वा युष्माकम् आज्ञाग्रहणम् एतयो र्मध्ये ईश्वरस्य गोचरे किं विहितं? यूयं तस्य विवेचनां कुरुत।
20
वयं यद् अपश्याम यदशृणुम च तन्न प्रचारयिष्याम एतत् कदापि भवितुं न शक्नोति।
21
यदघटत तद् दृष्टा सर्व्वे लोका ईश्वरस्य गुणान् अन्ववदन् तस्मात् लोकभयात् तौ दण्डयितुं कमप्युपायं न प्राप्य ते पुनरपि तर्जयित्वा तावत्यजन्।
22
यस्य मानुषस्यैतत् स्वास्थ्यकरणम् आश्चर्य्यं कर्म्माक्रियत तस्य वयश्चत्वारिंशद्वत्सरा व्यतीताः।
23
ततः परं तौ विसृष्टौ सन्तौ स्वसङ्गिनां सन्निधिं गत्वा प्रधानयाजकैः प्राचीनलोकैश्च प्रोक्ताः सर्व्वाः कथा ज्ञापितवन्तौ।
24
तच्छ्रुत्वा सर्व्व एकचित्तीभूय ईश्वरमुद्दिश्य प्रोच्चैरेतत् प्रार्थयन्त, हे प्रभो गगणपृथिवीपयोधीनां तेषु च यद्यद् आस्ते तेषां स्रष्टेश्वरस्त्वं।
25
त्वं निजसेवकेन दायूदा वाक्यमिदम् उवचिथ, मनुष्या अन्यदेशीयाः कुर्व्वन्ति कलहं कुतः। लोकाः सर्व्वे किमर्थं वा चिन्तां कुर्व्वन्ति निष्फलां।
26
परमेशस्य तेनैवाभिषिक्तस्य जनस्य च। विरुद्धमभितिष्ठन्ति पृथिव्याः पतयः कुतः॥
27
फलतस्तव हस्तेन मन्त्रणया च पूर्व्व यद्यत् स्थिरीकृतं तद् यथा सिद्धं भवति तदर्थं त्वं यम् अथिषिक्तवान् स एव पवित्रो यीशुस्तस्य प्रातिकूल्येन हेरोद् पन्तीयपीलातो
28
ऽन्यदेशीयलोका इस्रायेल्लोकाश्च सर्व्व एते सभायाम् अतिष्ठन्।
29
हे परमेश्वर अधुना तेषां तर्जनं गर्जनञ्च शृणु;
30
तथा स्वास्थ्यकरणकर्म्मणा तव बाहुबलप्रकाशपूर्व्वकं तव सेवकान् निर्भयेन तव वाक्यं प्रचारयितुं तव पवित्रपुत्रस्य यीशो र्नाम्ना आश्चर्य्याण्यसम्भवानि च कर्म्माणि कर्त्तुञ्चाज्ञापय।
31
इत्थं प्रार्थनया यत्र स्थाने ते सभायाम् आसन् तत् स्थानं प्राकम्पत; ततः सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त ईश्वरस्य कथाम् अक्षोभेण प्राचारयन्।
32
अपरञ्च प्रत्ययकारिलोकसमूहा एकमनस एकचित्तीभूय स्थिताः। तेषां केपि निजसम्पत्तिं स्वीयां नाजानन् किन्तु तेषां सर्व्वाः सम्पत्त्यः साधारण्येन स्थिताः।
33
अन्यच्च प्रेरिता महाशक्तिप्रकाशपूर्व्वकं प्रभो र्यीशोरुत्थाने साक्ष्यम् अददुः, तेषु सर्व्वेषु महानुग्रहोऽभवच्च।
34
तेषां मध्ये कस्यापि द्रव्यन्यूनता नाभवद् यतस्तेषां गृहभूम्याद्या याः सम्पत्तय आसन् ता विक्रीय
35
तन्मूल्यमानीय प्रेरितानां चरणेषु तैः स्थापितं; ततः प्रत्येकशः प्रयोजनानुसारेण दत्तमभवत्।
36
विशेषतः कुप्रोपद्वीपीयो योसिनामको लेविवंशजात एको जनो भूम्यधिकारी, यं प्रेरिता बर्णब्बा अर्थात् सान्त्वनादायक इत्युक्त्वा समाहूयन्,
37
स जनो निजभूमिं विक्रीय तन्मूल्यमानीय प्रेरितानां चरणेषु स्थापितवान्।
← Chapter 3
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 5 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28