bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Acts 2
Acts 2
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 1
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 3 →
1
अपरञ्च निस्तारोत्सवात् परं पञ्चाशत्तमे दिने समुपस्थिते सति ते सर्व्वे एकाचित्तीभूय स्थान एकस्मिन् मिलिता आसन्।
2
एतस्मिन्नेव समयेऽकस्माद् आकाशात् प्रचण्डात्युग्रवायोः शब्दवद् एकः शब्द आगत्य यस्मिन् गृहे त उपाविशन् तद् गृहं समस्तं व्याप्नोत्।
3
ततः परं वह्निशिखास्वरूपा जिह्वाः प्रत्यक्षीभूय विभक्ताः सत्यः प्रतिजनोर्द्ध्वे स्थगिता अभूवन्।
4
तस्मात् सर्व्वे पवित्रेणात्मना परिपूर्णाः सन्त आत्मा यथा वाचितवान् तदनुसारेणान्यदेशीयानां भाषा उक्तवन्तः।
5
तस्मिन् समये पृथिवीस्थसर्व्वदेशेभ्यो यिहूदीयमतावलम्बिनो भक्तलोका यिरूशालमि प्रावसन्;
6
तस्याः कथायाः किंवदन्त्या जातत्वात् सर्व्वे लोका मिलित्वा निजनिजभाषया शिष्याणां कथाकथनं श्रुत्वा समुद्विग्ना अभवन्।
7
सर्व्वएव विस्मयापन्ना आश्चर्य्यान्विताश्च सन्तः परस्परं उक्तवन्तः पश्यत ये कथां कथयन्ति ते सर्व्वे गालीलीयलोकाः किं न भवन्ति?
8
तर्हि वयं प्रत्येकशः स्वस्वजन्मदेशीयभाषाभिः कथा एतेषां शृणुमः किमिदं?
9
पार्थी-मादी-अराम्नहरयिम्देशनिवासिमनो यिहूदा-कप्पदकिया-पन्त-आशिया-
10
फ्रुगिया-पम्फुलिया-मिसरनिवासिनः कुरीणीनिकटवर्त्तिलूबीयप्रदेशनिवासिनो रोमनगराद् आगता यिहूदीयलोका यिहूदीयमतग्राहिणः क्रीतीया अराबीयादयो लोकाश्च ये वयम्
11
अस्माकं निजनिजभाषाभिरेतेषाम् ईश्वरीयमहाकर्म्मव्याख्यानं शृणुमः।
12
इत्थं ते सर्व्वएव विस्मयापन्नाः सन्दिग्धचित्ताः सन्तः परस्परमूचुः, अस्य को भावः?
13
अपरे केचित् परिहस्य कथितवन्त एते नवीनद्राक्षारसेन मत्ता अभवन्।
14
तदा पितर एकादशभि र्जनैः साकं तिष्ठन् ताल्लोकान् उच्चैःकारम् अवदत्, हे यिहूदीया हे यिरूशालम्निवासिनः सर्व्वे, अवधानं कृत्वा मदीयवाक्यं बुध्यध्वं।
15
इदानीम् एकयामाद् अधिका वेला नास्ति तस्माद् यूयं यद् अनुमाथ मानवा इमे मद्यपानेन मत्तास्तन्न।
16
किन्तु योयेल्भविष्यद्वक्त्रैतद्वाक्यमुक्तं यथा,
17
ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं।
18
वर्षिष्यामि तदात्मानं दासदासीजनोपिरि। तेनैव भाविवाक्यं ते वदिष्यन्ति हि सर्व्वशः।
19
ऊर्द्ध्वस्थे गगणे चैव नीचस्थे पृथिवीतले। शोणितानि बृहद्भानून् घनधूमादिकानि च। चिह्नानि दर्शयिष्यामि महाश्चर्य्यक्रियास्तथा।
20
महाभयानकस्यैव तद्दिनस्य परेशितुः। पुरागमाद् रविः कृष्णो रक्तश्चन्द्रो भविष्यतः।
21
किन्तु यः परमेशस्य नाम्नि सम्प्रार्थयिष्यते। सएव मनुजो नूनं परित्रातो भविष्यति॥
22
अतो हे इस्रायेल्वंशीयलोकाः सर्व्वे कथायामेतस्याम् मनो निधद्ध्वं नासरतीयो यीशुरीश्वरस्य मनोनीतः पुमान् एतद् ईश्वरस्तत्कृतैराश्चर्य्याद्भुतकर्म्मभि र्लक्षणैश्च युष्माकं साक्षादेव प्रतिपादितवान् इति यूयं जानीथ।
23
तस्मिन् यीशौ ईश्वरस्य पूर्व्वनिश्चितमन्त्रणानिरूपणानुसारेण मृत्यौ समर्पिते सति यूयं तं धृत्वा दुष्टलोकानां हस्तैः क्रुशे विधित्वाहत।
24
किन्त्वीश्वरस्तं निधनस्य बन्धनान्मोचयित्वा उदस्थापयत् यतः स मृत्युना बद्धस्तिष्ठतीति न सम्भवति।
25
एतस्तिन् दायूदपि कथितवान् यथा, सर्व्वदा मम साक्षात्तं स्थापय परमेश्वरं। स्थिते मद्दक्षिणे तस्मिन् स्खलिष्यामि त्वहं नहि।
26
आनन्दिष्यति तद्धेतो र्मामकीनं मनस्तु वै। आह्लादिष्यति जिह्वापि मदीया तु तथैव च। प्रत्याशया शरीरन्तु मदीयं वैशयिष्यते।
27
परलोके यतो हेतोस्त्वं मां नैव हि त्यक्ष्यसि। स्वकीयं पुण्यवन्तं त्वं क्षयितुं नैव दास्यसि। एवं जीवनमार्गं त्वं मामेव दर्शयिष्यसि।
28
स्वसम्मुखे य आनन्दो दक्षिणे स्वस्य यत् सुखं। अनन्तं तेन मां पूर्णं करिष्यसि न संशयः॥
29
हे भ्रातरोऽस्माकं तस्य पूर्व्वपुरुषस्य दायूदः कथां स्पष्टं कथयितुं माम् अनुमन्यध्वं, स प्राणान् त्यक्त्वा श्मशाने स्थापितोभवद् अद्यापि तत् श्मशानम् अस्माकं सन्निधौ विद्यते।
30
फलतो लौकिकभावेन दायूदो वंशे ख्रीष्टं जन्म ग्राहयित्वा तस्यैव सिंहासने समुवेष्टुं तमुत्थापयिष्यति परमेश्वरः शपथं कुत्वा दायूदः समीप इमम् अङ्गीकारं कृतवान्,
31
इति ज्ञात्वा दायूद् भविष्यद्वादी सन् भविष्यत्कालीयज्ञानेन ख्रीष्टोत्थाने कथामिमां कथयामास यथा तस्यात्मा परलोके न त्यक्ष्यते तस्य शरीरञ्च न क्षेष्यति;
32
अतः परमेश्वर एनं यीशुं श्मशानाद् उदस्थापयत् तत्र वयं सर्व्वे साक्षिण आस्महे।
33
स ईश्वरस्य दक्षिणकरेणोन्नतिं प्राप्य पवित्र आत्मिन पिता यमङ्गीकारं कृतवान् तस्य फलं प्राप्य यत् पश्यथ शृणुथ च तदवर्षत्।
34
यतो दायूद् स्वर्गं नारुरोह किन्तु स्वयम् इमां कथाम् अकथयद् यथा, मम प्रभुमिदं वाक्यमवदत् परमेश्वरः।
35
तव शत्रूनहं यावत् पादपीठं करोमि न। तावत् कालं मदीये त्वं दक्षवार्श्व उपाविश।
36
अतो यं यीशुं यूयं क्रुशेऽहत परमेश्वरस्तं प्रभुत्वाभिषिक्तत्वपदे न्ययुंक्तेति इस्रायेलीया लोका निश्चितं जानन्तु।
37
एतादृशीं कथां श्रुत्वा तेषां हृदयानां विदीर्णत्वात् ते पितराय तदन्यप्रेरितेभ्यश्च कथितवन्तः, हे भ्रातृगण वयं किं करिष्यामः?
38
ततः पितरः प्रत्यवदद् यूयं सर्व्वे स्वं स्वं मनः परिवर्त्तयध्वं तथा पापमोचनार्थं यीशुख्रीष्टस्य नाम्ना मज्जिताश्च भवत, तस्माद् दानरूपं परित्रम् आत्मानं लप्स्यथ।
39
यतो युष्माकं युष्मत्सन्तानानाञ्च दूरस्थसर्व्वलोकानाञ्च निमित्तम् अर्थाद् अस्माकं प्रभुः परमेश्वरो यावतो लाकान् आह्वास्यति तेषां सर्व्वेषां निमित्तम् अयमङ्गीकार आस्ते।
40
एतदन्याभि र्बहुकथाभिः प्रमाणं दत्वाकथयत् एतेभ्यो विपथगामिभ्यो वर्त्तमानलोकेभ्यः स्वान् रक्षत।
41
ततः परं ये सानन्दास्तां कथाम् अगृह्लन् ते मज्जिता अभवन्। तस्मिन् दिवसे प्रायेण त्रीणि सहस्राणि लोकास्तेषां सपक्षाः सन्तः
42
प्रेरितानाम् उपदेशे सङ्गतौ पूपभञ्जने प्रार्थनासु च मनःसंयोगं कृत्वातिष्ठन्।
43
प्रेरितै र्नानाप्रकारलक्षणेषु महाश्चर्य्यकर्ममसु च दर्शितेषु सर्व्वलोकानां भयमुपस्थितं।
44
विश्वासकारिणः सर्व्व च सह तिष्ठनतः। स्वेषां सर्व्वाः सम्पत्तीः साधारण्येन स्थापयित्वाभुञ्जत।
45
फलतो गृहाणि द्रव्याणि च सर्व्वाणि विक्रीय सर्व्वेषां स्वस्वप्रयोजनानुसारेण विभज्य सर्व्वेभ्योऽददन्।
46
सर्व्व एकचित्तीभूय दिने दिने मन्दिरे सन्तिष्ठमाना गृहे गृहे च पूपानभञ्जन्त ईश्वरस्य धन्यवादं कुर्व्वन्तो लोकैः समादृताः परमानन्देन सरलान्तःकरणेन भोजनं पानञ्चकुर्व्वन्।
47
परमेश्वरो दिने दिने परित्राणभाजनै र्मण्डलीम् अवर्द्धयत्।
← Chapter 1
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 3 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28