bible
ra
🌐 Language
English
Español
Français
Deutsch
Português
Italiano
Nederlands
Русский
中文
日本語
한국어
العربية
Türkçe
Tiếng Việt
ไทย
Indonesia
All Languages
Home
/
Sanskrit
/
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
/
Acts 5
Acts 5
Sanskrit Bible (NT) in Devanagari Script (सत्यवेद)
← Chapter 4
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 6 →
1
तदा अनानियनामक एको जनो यस्य भार्य्याया नाम सफीरा स स्वाधिकारं विक्रीय
2
स्वभार्य्यां ज्ञापयित्वा तन्मूल्यस्यैकांशं सङ्गोप्य स्थापयित्वा तदन्यांशमात्रमानीय प्रेरितानां चरणेषु समर्पितवान्।
3
तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?
4
सा भूमि र्यदा तव हस्तगता तदा किं तव स्वीया नासीत्? तर्हि स्वान्तःकरणे कुत एतादृशी कुकल्पना त्वया कृता? त्वं केवलमनुष्यस्य निकटे मृषावाक्यं नावादीः किन्त्वीश्वरस्य निकटेऽपि।
5
एतां कथां श्रुत्वैव सोऽनानियो भूमौ पतन् प्राणान् अत्यजत्, तद्वृत्तान्तं यावन्तो लोका अशृण्वन् तेषां सर्व्वेषां महाभयम् अजायत्।
6
तदा युवलोकास्तं वस्त्रेणाच्छाद्य बहि र्नीत्वा श्मशानेऽस्थापयन्।
7
ततः प्रहरैकानन्तरं किं वृत्तं तन्नावगत्य तस्य भार्य्यापि तत्र समुपस्थिता।
8
ततः पितरस्ताम् अपृच्छत्, युवाभ्याम् एतावन्मुद्राभ्यो भूमि र्विक्रीता न वा? एतत्वं वद; तदा सा प्रत्यवादीत् सत्यम् एतावद्भ्यो मुद्राभ्य एव।
9
ततः पितरोकथयत् युवां कथं परमेश्वरस्यात्मानं परीक्षितुम् एकमन्त्रणावभवतां? पश्य ये तव पतिं श्मशाने स्थापितवन्तस्ते द्वारस्य समीपे समुपतिष्ठन्ति त्वामपि बहिर्नेष्यन्ति।
10
ततः सापि तस्य चरणसन्निधौ पतित्वा प्राणान् अत्याक्षीत्। पश्चात् ते युवानोऽभ्यन्तरम् आगत्य तामपि मृतां दृष्ट्वा बहि र्नीत्वा तस्याः पत्युः पार्श्वे श्मशाने स्थापितवन्तः।
11
तस्मात् मण्डल्याः सर्व्वे लोका अन्यलोकाश्च तां वार्त्तां श्रुत्वा साध्वसं गताः।
12
ततः परं प्रेरितानां हस्तै र्लोकानां मध्ये बह्वाश्चर्य्याण्यद्भुतानि कर्म्माण्यक्रियन्त; तदा शिष्याः सर्व्व एकचित्तीभूय सुलेमानो ऽलिन्दे सम्भूयासन्।
13
तेषां सङ्घान्तर्गो भवितुं कोपि प्रगल्भतां नागमत् किन्तु लोकास्तान् समाद्रियन्त।
14
स्त्रियः पुरुषाश्च बहवो लोका विश्वास्य प्रभुं शरणमापन्नाः।
15
पितरस्य गमनागमनाभ्यां केनापि प्रकारेण तस्य छाया कस्मिंश्चिज्जने लगिष्यतीत्याशया लोका रोगिणः शिविकया खट्वया चानीय पथि पथि स्थापितवन्तः।
16
चतुर्दिक्स्थनगरेभ्यो बहवो लोकाः सम्भूय रोगिणोऽपवित्रभुतग्रस्तांश्च यिरूशालमम् आनयन् ततः सर्व्वे स्वस्था अक्रियन्त।
17
अनन्तरं महायाजकः सिदूकिनां मतग्राहिणस्तेषां सहचराश्च
18
महाक्रोधान्त्विताः सन्तः प्रेरितान् धृत्वा नीचलोकानां कारायां बद्ध्वा स्थापितवन्तः।
19
किन्तु रात्रौ परमेश्वरस्य दूतः काराया द्वारं मोचयित्वा तान् बहिरानीयाकथयत्,
20
यूयं गत्वा मन्दिरे दण्डायमानाः सन्तो लोकान् प्रतीमां जीवनदायिकां सर्व्वां कथां प्रचारयत।
21
इति श्रुत्वा ते प्रत्यूषे मन्दिर उपस्थाय उपदिष्टवन्तः। तदा सहचरगणेन सहितो महायाजक आगत्य मन्त्रिगणम् इस्रायेल्वंशस्य सर्व्वान् राजसभासदः सभास्थान् कृत्वा कारायास्तान् आपयितुं पदातिगणं प्रेरितवान्।
22
ततस्ते गत्वा कारायां तान् अप्राप्य प्रत्यागत्य इति वार्त्ताम् अवादिषुः,
23
वयं तत्र गत्वा निर्व्विघ्नं काराया द्वारं रुद्धं रक्षकांश्च द्वारस्य बहिर्दण्डायमानान् अदर्शाम एव किन्तु द्वारं मोचयित्वा तन्मध्ये कमपि द्रष्टुं न प्राप्ताः।
24
एतां कथां श्रुत्वा महायाजको मन्दिरस्य सेनापतिः प्रधानयाजकाश्च, इत परं किमपरं भविष्यतीति चिन्तयित्वा सन्दिग्धचित्ता अभवन्।
25
एतस्मिन्नेव समये कश्चित् जन आगत्य वार्त्तामेताम् अवदत् पश्यत यूयं यान् मानवान् कारायाम् अस्थापयत ते मन्दिरे तिष्ठन्तो लोकान् उपदिशन्ति।
26
तदा मन्दिरस्य सेनापतिः पदातयश्च तत्र गत्वा चेल्लोकाः पाषाणान् निक्षिप्यास्मान् मारयन्तीति भिया विनत्याचारं तान् आनयन्।
27
ते महासभाया मध्ये तान् अस्थापयन् ततः परं महायाजकस्तान् अपृच्छत्,
28
अनेन नाम्ना समुपदेष्टुं वयं किं दृढं न न्यषेधाम? तथापि पश्यत यूयं स्वेषां तेनोपदेशेने यिरूशालमं परिपूर्णं कृत्वा तस्य जनस्य रक्तपातजनितापराधम् अस्मान् प्रत्यानेतुं चेष्टध्वे।
29
ततः पितरोन्यप्रेरिताश्च प्रत्यवदन् मानुषस्याज्ञाग्रहणाद् ईश्वरस्याज्ञाग्रहणम् अस्माकमुचितम्।
30
यं यीशुं यूयं क्रुशे वेधित्वाहत तम् अस्माकं पैतृक ईश्वर उत्थाप्य
31
इस्रायेल्वंशानां मनःपरिवर्त्तनं पापक्षमाञ्च कर्त्तुं राजानं परित्रातारञ्च कृत्वा स्वदक्षिणपार्श्वे तस्यान्नतिम् अकरोत्।
32
एतस्मिन् वयमपि साक्षिण आस्महे, तत् केवलं नहि, ईश्वर आज्ञाग्राहिभ्यो यं पवित्रम् आत्मनं दत्तवान् सोपि साक्ष्यस्ति।
33
एतद्वाक्ये श्रुते तेषां हृदयानि विद्धान्यभवन् ततस्ते तान् हन्तुं मन्त्रितवन्तः।
34
एतस्मिन्नेव समये तत्सभास्थानां सर्व्वलोकानां मध्ये सुख्यातो गमिलीयेल्नामक एको जनो व्यवस्थापकः फिरूशिलोक उत्थाय प्रेरितान् क्षणार्थं स्थानान्तरं गन्तुम् आदिश्य कथितवान्,
35
हे इस्रायेल्वंशीयाः सर्व्वे यूयम् एतान् मानुषान् प्रति यत् कर्त्तुम् उद्यतास्तस्मिन् सावधाना भवत।
36
इतः पूर्व्वं थूदानामैको जन उपस्थाय स्वं कमपि महापुरुषम् अवदत्, ततः प्रायेण चतुःशतलोकास्तस्य मतग्राहिणोभवन् पश्चात् स हतोभवत् तस्याज्ञाग्राहिणो यावन्तो लोकास्ते सर्व्वे विर्कीर्णाः सन्तो ऽकृतकार्य्या अभवन्।
37
तस्माज्जनात् परं नामलेखनसमये गालीलीययिहूदानामैको जन उपस्थाय बहूल्लोकान् स्वमतं ग्राहीतवान् ततः सोपि व्यनश्यत् तस्याज्ञाग्राहिणो यावन्तो लोका आसन् ते सर्व्वे विकीर्णा अभवन्।
38
अधुना वदामि, यूयम् एतान् मनुष्यान् प्रति किमपि न कृत्वा क्षान्ता भवत, यत एष सङ्कल्प एतत् कर्म्म च यदि मनुष्यादभवत् तर्हि विफलं भविष्यति।
39
यदीश्वरादभवत् तर्हि यूयं तस्यान्यथा कर्त्तुं न शक्ष्यथ, वरम् ईश्वररोधका भविष्यथ।
40
तदा तस्य मन्त्रणां स्वीकृत्य ते प्रेरितान् आहूय प्रहृत्य यीशो र्नाम्ना कामपि कथां कथयितुं निषिध्य व्यसर्जन्।
41
किन्तु तस्य नामार्थं वयं लज्जाभोगस्य योग्यत्वेन गणिता इत्यत्र ते सानन्दाः सन्तः सभास्थानां साक्षाद् अगच्छन्।
42
ततः परं प्रतिदिनं मन्दिरे गृहे गृहे चाविश्रामम् उपदिश्य यीशुख्रीष्टस्य सुसंवादं प्रचारितवन्तः।
← Chapter 4
Jump to:
Chapter 1
Chapter 2
Chapter 3
Chapter 4
Chapter 5
Chapter 6
Chapter 7
Chapter 8
Chapter 9
Chapter 10
Chapter 11
Chapter 12
Chapter 13
Chapter 14
Chapter 15
Chapter 16
Chapter 17
Chapter 18
Chapter 19
Chapter 20
Chapter 21
Chapter 22
Chapter 23
Chapter 24
Chapter 25
Chapter 26
Chapter 27
Chapter 28
Chapter 6 →
All chapters:
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28